दशमं मण्डलम् - सूक्तम् 122

8 ऋचः

ऋषिः: चित्रमहा वासिष्ठः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.122 - सम्पूर्णम्

1 / 8
ऋक्: 10.122.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.122.1 समानपद
वसुं॒ न चि॒त्रम᳚हसं गृणीषे वा॒मं शेव॒मति᳚थिमद्विषे॒ण्यम् ।
स रा᳚सते शु॒रुधो᳚ वि॒श्वधा᳚यसो॒॑ग्निर्होता᳚ गृ॒हप᳚तिः सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
वसु᳚म् । न । चि॒त्र॑म᳚हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव᳚म् । अति᳚थिम् । अ॒द्वि॒षे॒ण्यम् ।
सः । रा॒स॒ते॒ । शु॒रुधः᳚ । वि॒श्व॑धा᳚यसः । अ॒ग्निः । होता᳚ । गृ॒ह॑प᳚तिः । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसुं नेत्यष्टर्चं दशमं सूक्तं वसिष्ठपुत्रस्य चितमाहस आर्षमाग्नेयं आद्यापञ्चमी त्रिष्टुभौ शिष्टा जगत्यः। तथा चानुक्रान्तम्। वसुं नाष्टौ चित्रमहावसिष्ठ आग्नेयं जागतमाद्याम् पञ्चमीं चर्त इति। प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ जागते छन्दसीदं सूक्तम् । सूत्रितं च। वसुं न चित्रमहसमिति जागतम्। आ. ४-१३। इति॥

वसुं न वासकं सूर्यमिव चित्रमहसं चायनीयतेजस्कमग्निं गृणीषे। गृणे। स्त्ॐइ। गॄ शब्दे क्रैयादिकः। पुरुषव्यत्ययः। प्वादित्वाद्ध्रस्वः। यद्वा। चित्रमहसमिति प्रथमार्थे द्वितीया। नेति सम्प्रत्यर्थे। सम्प्रति वासकमग्निमहं चित्रमहाः स्त्ॐइ। कीदृशम् । वामं वननीयं शेवं सुखकरमतिथिमतिथिवत्पूज्यं यद्वा हविर्वहनाय सततगामिनं अद्विषेण्यं द्वेष्य रहितम्। द्विषेः कृत्यार्थे तवैकेनिति केन्यप्रत्ययः। नञा बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम्। सोऽग्निः सुरुधः शोकस्य रोधयित्रीर्निवारयित्रीर्विश्वधायसः क्षीरप्रदानादिना विश्वं सर्वं जगद्धारयन्तीर्गाः सुवीर्यं शोभनवीर्यं च रासते। यजमानेभ्यो ददाति। रा दाने। अस्माल्लेट्। लॆट्यडागमः। सिब्बहुलमिति सिप्। व्यत्ययेनात्मनेपदम्। विश्वशब्दोपधाद्दधातेर्वहिहाधाञ्भ्य इत्यसुन्। णिदित्यनुवृत्तेरातो युक् चिणिति युक् मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम्। कीदृशोऽग्निः। होता देवानामाह्वाता होमनिष्पादको वा गृहपतिर्यजमानगृहाणामीश्वरः। गेहे कः। पा. ३-१-१४४। इति ग्रहेः कप्रत्ययः। ग्रहिज्येत्यादिना सम्प्रसारनम्। पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम्। शोभनं वीर्यं यस्येति बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम्॥१॥

10.122.2 समानपद
जु॒षा॒णो अ᳚ग्ने॒ प्रति᳚ हर्य मे॒ वचो॒ विश्वा᳚नि वि॒द्वान्व॒युना᳚नि सुक्रतो ।
घृत᳚निर्णि॒ग्ब्रह्म᳚णे गा॒तुमेर᳚य॒ तव᳚ दे॒वा अ᳚जनय॒न्ननु᳚ व्र॒तम् ॥
▶ पदपाठः (Word-by-word)
जु॒षा॒णः । अ॒ग्ने॒ । प्रति᳚ । ह॒र्य॒ । मे॒ । वचः᳚ । विश्वा᳚नि । वि॒द्वान् । व॒युना᳚नि । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ।
घृत᳚॑निर्निक् । ब्रह्म᳚णे । गा॒तुम् । आ । ई॒र॒य॒ । तव᳚ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु᳚ । व्र॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जुषाणह् प्रीयमाणस्त्वं मे मम वचो वचनं स्तोत्रम् प्रत्छिहर्य। कामयस्व। हर्य गतिकान्त्योः। तथा हे सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा त्वं विश्वानि सर्वानि वयुनानि। ज्ञाननामैतत् इह ज्ञातव्ये वर्तते। ज्ञातव्यान्यर्थजातानि विद्वाञ्जानन्वर्तसे। हेतौ शतृप्रत्य्त्यः। यतो जानासि ततो हेतोर्मद्वचनं कामयस्वेत्यर्थः हे घृतनिर्णिग्घृतेनाज्येन निर्णिज्यमान पुष्यमाणशरीर। णिजिर् शौचपोषणयोः। यद्वा। निर्णिगिति रूपनाम। दीप्तरूपाग्ने ब्रह्मणे ब्राह्मनाय यजमानाय गातुं गातव्यं ज्ञातव्यम् वा यज्ञमेरय। आगमय। तव व्रतं त्वदीयं यज्ञकर्मानु पश्चाद्देवा इन्द्रादयः सर्वेऽजनयन्। यजमानाय फलानि जनयन्ति। अतस्त्वदीयं यज्ञं यजमानाय प्रापयेत्यर्थः। लक्षणेऽनोः कर्मप्रवचनीयत्वं व्रतमिति कर्मप्रवचनीययुक्त इति द्वितीया। जनेर्ण्यन्ताच्छान्दसो लङ्। जनीजॄष्क्नसुरञ्जोऽमन्ताश्चेति मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वम्॥२॥

10.122.3
स॒प्त धामा᳚नि परि॒यन्नम᳚र्त्यो॒ दाश᳚द्दा॒शुषे᳚ सु॒कृते᳚ मामहस्व ।
सु॒वीरे᳚ण र॒यिणा᳚ग्ने स्वा॒भुवा॒ यस्त॒ आन᳚ट् स॒मिधा॒ तं जु᳚षस्व ॥
▶ पदपाठः (Word-by-word)
स॒प्त । धामा᳚नि । प॒रि॒॑यन् । अम᳚र्त्यः । दाश᳚त् । दा॒शुषे᳚ । सु॒॑कृते᳚ । म॒म॒ह॒स्व॒ ।
सु॒॑वीरे᳚ण । र॒यिणा᳚ । अ॒ग्ने॒ । सु॒॑आ॒भुवा᳚ । यः । ते॒ । आन᳚ट् । स॒म्॑इधा᳚ । तम् । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सप्त सप्तसङ्ख्याकानि धामानि स्थानानि पृथिव्यादिलोकात्मकानि परियन् परितो गच्छन्नमर्त्यो मरनधर्मरहितस्त्वं यो यजमानः पुरोडाशादीनि हवींषि दाशत् प्रयच्छति तस्मै दाशुषे दत्तवते सुकृते सुष्थु यागं कृतवते मामहस्व। अपेक्षितं धनं ददस्व। महतिर्दानकर्मा। सुकर्मपापेत्यादिना सुपूवात्कृञो भुते काले क्विप्। यश्च यजमानः समिधा समिन्धनसाधनेनेध्मेन हे अग्ने ते त्वामानट् प्राप्नोति। नशतिर्गतिकर्मा। अस्माच्छान्दसो लङ्। बहुलं छन्दसिति शपो लुक्। छन्दस्यपि दृश्यत इत्याडागमः। अश्नोतेर्वा व्यत्ययेन श्नम्। तं यजमानं सुवीरेण। शोभनवीराः पुत्रा यस्य। वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम्। तादृशेन स्वाभुवा सुष्थ्वा समन्ताद्भूष्णुना वर्धिष्णुना रयिणा धनेन दातव्येन सार्धं जुशस्व॥३॥

10.122.4
य॒ज्ञस्य᳚ के॒तुं प्र᳚थ॒मं पु॒रोहि᳚तं ह॒विष्म᳚न्त ईळते स॒प्त वा॒जिन᳚म् ।
शृ॒ण्वन्त᳚म॒ग्निं घृ॒तपृ᳚ष्ठमु॒क्षणं᳚ पृ॒णन्तं᳚ दे॒वं पृ᳚ण॒ते सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञस्य᳚ । के॒तुम् । प्र॒थ॒मम् । पु॒रः॑हि᳚तम् । ह॒विष्म᳚न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन᳚म् ।
शृ॒ण्वन्त᳚म् । अ॒ग्निम् । घृ॒त॑पृ᳚ष्ठम् । उ॒क्षण᳚म् । पृ॒णन्त᳚म् । दे॒वम् । पृ॒ण॒ते । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञस्य यागस्य केतुं प्रज्ञापकं प्रथमं सर्वेषु देवेषु मुख्यं प्रथमस्थानं वा पुरोहितं पुरतो हितकारिणम्। यद्वा। पुरस्तात्पूर्वस्यां दिश्या हवनीयरूपेण निहितम्। पूर्वाधरेत्यादिना पूर्वशब्दादसिः प्रत्ययः। तत्सन्नियोगेन प्रकृतेः पुरादेशश्च। तद्दितश्चासर्वविभक्तिरित्यव्ययसंज्ञायां पुरोऽव्ययमिति गतिसंज्ञा। धाञः कर्मणि निष्ठा। दधतेर्हिः। ततः समासे गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। वाजिनम् बलवन्तमुन्नवन्तं वा शृण्वन्तमस्मत्स्तुतीः श्रोत्रेण जानन्तं घृतपृष्ठं दीप्तपृष्ठं दीप्ताङ्गमुक्शनं यागद्वारेण वृष्टेः सम्भक्तारम् यद्वा सेचनसमर्थम् युवानं पृणते हविर्भिः प्रीणयित्रे यजमानाय। पृणप्रीणने तौदादिकः। शतुरनुम इति विभक्तेरुदात्तत्वम्। क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी। हविर्भिः प्रीणयन्तं यजमानं धनैः प्रीणयन्तम्। यद्वा। पृणतिर्दानकर्मा। हवींषि ददते यजमानाय पृणन्तं धनानि प्रयच्छतम्। सुवीर्यं शोभनवीर्योपेतं देवं द्योतमानं दानादिगुणयुक्तं वा एवं गुणविशिष्टमग्निं हविष्मन्तो हविर्भिर्युक्ताः सप्त होतृप्रमुखा वषट्कर्तार ईळते। स्तुवन्ति। ईड स्तुतौ आदादिकः॥४॥

10.122.5
त्वं दू॒तः प्र᳚थ॒मो वरे᳚ण्य॒ः स हू॒यमा᳚नो अ॒मृता᳚य मत्स्व ।
त्वां म᳚र्जयन्म॒रुतो᳚ दा॒शुषो᳚ गृ॒हे त्वां स्तोमे᳚भि॒र्भृग᳚वो॒ वि रु᳚रुचुः ॥
▶ पदपाठः (Word-by-word)
त्वम् । दू॒तः । प्र॒थ॒मः । वरे᳚ण्यः । सः । हू॒यमा᳚नः । अ॒मृता᳚य । म॒त्स्व॒ ।
त्वाम् । म॒र्ज॒य॒न् । म॒रुतः᳚ । दा॒शुषः᳚ । गृ॒हे । त्वाम् । स्तोमे᳚भिः । भृग᳚वः । वि । रु॒रु॒चुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं दूतो देवानां दूतकर्मणि नियुक्तः प्रथमो मुख्यः प्रथितः प्रख्यातो वा वरेण्यः सम्भजनीयश्चासि। स त्वममृतायामरनाय तदर्थम् नोऽस्मभिर्हूयमानो हविषा तर्प्यमाणो वा सन् मत्स्व। तृप्यस्व। मदीहर्षे। छान्द्सओ विकरनस्य लुक्। अपि च त्वां मध्यमस्थाने वैद्युतरूपेण वर्तमानं मरुतस्तत्रत्या देवगना मर्जयन्। मार्जयन्ति। अलङ्ग्कुर्वन्ति। तथा दाशुषो हवींषि दत्तवतो यजमानस्य गृहे स्तोमेभिः स्तोमैः स्तोत्रैर्भृगवो भृगुगोत्रा ऋशयस्त्वां वि रुरुचुः। विशेषेन दीपयन्ति। भृगुशब्ददुत्तरस्य तद्धितस्यात्रिभृगुकुत्सेत्यादिना। पा. २-४-६५। बहुषु लुक्। रुरुचुः। रुच दीप्तौ। अस्माच्छान्दसो लिट्॥५॥

10.122.6
इषं᳚ दु॒हन्त्सु॒दुघां᳚ वि॒श्वधा᳚यसं यज्ञ॒प्रिये॒ यज᳚मानाय सुक्रतो ।
अग्ने᳚ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य᳚द्व॒र्तिर्य॒ज्ञं प᳚रि॒यन्त्सु᳚क्रतूयसे ॥
▶ पदपाठः (Word-by-word)
इष᳚म् । दु॒हन् । सु॒॑दुघा᳚म् । वि॒श्व॑धा᳚यसम् । य॒ज्ञ॒॑प्रिये᳚ । यज᳚मानाय । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ।
अग्रे᳚ । घृ॒त॑स्नुः᳚ । त्रिः । ऋ॒तानि᳚ । दीद्य᳚त् । व॒र्तिः । य॒ज्ञम् । प॒रि॒॑यन् । सु॒क्र॒तु॒॑य॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुक्रतो सुकर्मन् शोभनप्रज्ञ वागे यज्ञप्रिये यज्ञैर्हविर्भिर्देवान्प्रीणयित्रे यजमानाय विश्वधायसं विश्वस्य सर्वस्य धारयित्रीं सुदुघां दोग्धुं सुशक्यां यज्ञरूपिणीं गामिषमिष्यमाणं यागफलरूपं पयो दुहन् क्षारयन् तथा घृतस्नुर्घृतेनाज्येन प्रस्नातः। स्नातेरौणादिकः कुप्रत्ययः। यद्वा। घृतो दीप्तः स्नुः सानुः समुच्छ्रितो ज्वालासमूहो यस्य स तथोक्तः। पदादिषु मांस्पृत्स्नूनामुपसङ्ख्यानम्। पा. ६-१-६३-१। इति सानुशब्दस्य स्नुभवः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ईदृशस्त्वं त्रिस्त्रिवारमावृत्तान्यृतानि सत्यभूतानि पृथिव्यादीनि त्रीणि स्थानानि यद्वा गार्हपत्यादीनि स्थानानि दीद्यद्दीपयन्वर्तिः सर्वं यज्ञगृहं सर्वमनुष्ठीयमानं यागं च परियन् परितो गच्छन् तत्तद्यज्ञगृहं तम् तं यज्ञं च प्राप्नुवन् सुक्रतूयसे। शोभनं क्रतुं यज्ञमात्मन इच्छसि। यद्वा। शोभनः क्रतुर्यस्यासौ सुक्रतुर्यजमानः। स इवाचरसि। स यथा सम्यगनुष्थाने प्रवर्तते एवं त्वमपि स्वयमेव यागस्य सम्यग्निष्पत्त्यर्थं प्रवर्तस इत्यर्थः॥६॥

10.122.7
त्वामिद॒स्या उ॒षसो॒ व्यु᳚ष्टिषु दू॒तं कृ᳚ण्वा॒ना अ᳚यजन्त॒ मानु᳚षाः ।
त्वां दे॒वा म᳚ह॒याय्या᳚य वावृधु॒राज्य᳚मग्ने निमृ॒जन्तो᳚ अध्व॒रे ॥
▶ पदपाठः (Word-by-word)
त्वाम् । इत् । अ॒स्याः । उ॒षसः᳚ । वि॑उ᳚ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु᳚षाः ।
त्वाम् । दे॒वाः । म॒ह॒याय्या᳚य । व॒वृ॒धुः॒ । आज्य᳚म् । अ॒ग्ने॒ । नि॒॑मृ॒जन्तः᳚ । अ॒ध्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्या इदानीं दृश्यमानाया उषसो व्युष्टिषु विवासनेषु प्रभातेषु सत्वु हे अग्ने त्वामित्त्वामेव देवानां दूतं कृण्वानाः कुर्वाणा मानुशा मनुष्या अयजन्त। यजन्ति। सर्वदेवात्मकं त्वामेव यजन्तीत्यर्थः। तथा देवा अपि त्वां महयाय्याय पूजायै। मह पूजायाम् । अस्मादौणादिको भाव आय्यप्रत्य्त्यः। आत्मनः पूजार्थं वावृधुः। वर्धयन्ति। किं कुर्वन्तः। अध्वरे। ध्वरो हिंसानिमित्तः प्रत्यवायः। तद्रहिते याज आज्यम् । उपलक्षणमेतत्। आज्योपलक्षतं सर्वं हविर्निमृजन्तस्त्वयि निमार्जयन्तः। प्रक्शिपन्त इत्यर्थः॥७॥

10.122.8
नि त्वा॒ वसि᳚ष्ठा अह्वन्त वा॒जिनं᳚ गृ॒णन्तो᳚ अग्ने वि॒दथे᳚षु वे॒धसः᳚ ।
रा॒यस्पोषं॒ यज᳚मानेषु धारय यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नि । त्वा॒ । वसि᳚ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन᳚म् । गृ॒णन्तः᳚ । अ॒ग्ने॒ । वि॒दथे᳚षु । वे॒धसः᳚ ।
रा॒यः । पोष᳚म् । यज᳚मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विदथेषु। विदन्त्यस्मिन्यष्टव्यान्देवानिति विदथो यज्ञः । तेषु वेधसः कर्मणां विधातारो गृणन्तः स्तुवन्तो वसिष्ठा वसिष्ठपुत्रा ऋषयो वाजनमन्नवन्तं बलवन्तं वा त्वां न्यह्वन्त। नितरामाह्वयन्। अस्ताविषुर्वा। ह्वेञो लुङि निसमुपविभ्यो ह्व इत्यात्मनेपदम्। आत्मनेपदेष्वन्यतरस्याम्। पा. ३-१-५४। इति च्लेरङादेशः। वसिष्ठशब्दाद्विहितस्यापत्यार्थप्रत्ययस्यात्रिभृगुकुत्सेत्यादिना बहुषु लुक्। स त्वं यजमानेष्वस्मासु रायो धनस्य पोषं पुष्टं धारय। अवस्थापय। ऊडिदमित्यादिना रैशब्दात्षष्ठ्या उदात्तत्वम्। षष्थ्याः पतिपुत्रेति विसर्जनीयस्य सत्वं गतमन्यत्। एकस्मिन्नप्यग्नौ पूजार्थं बहुवचनम्॥८॥