श्रवणम्

10.122.8
नि त्वा॒ वसि᳚ष्ठा अह्वन्त वा॒जिनं᳚ गृ॒णन्तो᳚ अग्ने वि॒दथे᳚षु वे॒धसः᳚ ।
रा॒यस्पोषं॒ यज᳚मानेषु धारय यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नि । त्वा॒ । वसि᳚ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन᳚म् । गृ॒णन्तः᳚ । अ॒ग्ने॒ । वि॒दथे᳚षु । वे॒धसः᳚ ।
रा॒यः । पोष᳚म् । यज᳚मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विदथेषु। विदन्त्यस्मिन्यष्टव्यान्देवानिति विदथो यज्ञः । तेषु वेधसः कर्मणां विधातारो गृणन्तः स्तुवन्तो वसिष्ठा वसिष्ठपुत्रा ऋषयो वाजनमन्नवन्तं बलवन्तं वा त्वां न्यह्वन्त। नितरामाह्वयन्। अस्ताविषुर्वा। ह्वेञो लुङि निसमुपविभ्यो ह्व इत्यात्मनेपदम्। आत्मनेपदेष्वन्यतरस्याम्। पा. ३-१-५४। इति च्लेरङादेशः। वसिष्ठशब्दाद्विहितस्यापत्यार्थप्रत्ययस्यात्रिभृगुकुत्सेत्यादिना बहुषु लुक्। स त्वं यजमानेष्वस्मासु रायो धनस्य पोषं पुष्टं धारय। अवस्थापय। ऊडिदमित्यादिना रैशब्दात्षष्ठ्या उदात्तत्वम्। षष्थ्याः पतिपुत्रेति विसर्जनीयस्य सत्वं गतमन्यत्। एकस्मिन्नप्यग्नौ पूजार्थं बहुवचनम्॥८॥