दशमं मण्डलम् - सूक्तम् 75

9 ऋचः

ऋषिः: सिंधुक्षित् प्रैयमेधः देवता: नद्यः छन्दः: जगती

सूक्तम् 10.75 - सम्पूर्णम्

1 / 9
ऋक्: 10.75.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.75.1 समानपद
प्र सु व᳚ आपो महि॒मान᳚मुत्त॒मं का॒रुर्वो᳚चाति॒ सद᳚ने वि॒वस्व᳚तः ।
प्र स॒प्तस᳚प्त त्रे॒धा हि च᳚क्र॒मुः प्र सृत्व᳚रीणा॒मति॒ सिन्धु॒रोज᳚सा ॥
▶ पदपाठः (Word-by-word)
प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान᳚म् । उ॒त्॑त॒मम् । का॒रुः । वो॒चा॒ति॒ । सद᳚ने । वि॒वस्व᳚तः ।
प्र । स॒प्त॑स᳚प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व᳚रीणाम् । अति᳚ । सिन्धुः᳚ । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र सु व इति नवर्चं सप्तमं सूक्तम्। प्रियमेधपुत्रस्य सुन्धुक्षित आर्षम् जागतं नदीदेवताकम्। तथा चानुक्रान्तम्। प्र सु नव सिन्धुक्षित्प्रैयमेधो नदीस्तुतिर्जागतं त्विति। गतो विनियोगः॥

हे आपः वो युष्माकम् महिमानं महत्त्वं स्तोत्रमत्तममुत्कृष्टतमं कारुः स्तोता सिन्धुक्षिदहं विवस्वतः परिचरणवतो यजमानस्य सदने यज्ञगृहे सु सुष्ठु प्र वोचाति। प्रब्रवीमि। ता नद्यः सप्तसप्त भूत्वा त्रेधा पृथिव्यामन्तरिक्षे दिवि चेति त्रिधा त्रिः प्रकारम् चक्रमुः। प्रावहन्। सृत्वरीणामासां मध्ये सिन्धुरेतन्नामिका नद्योजसा स्वबलेनाति सर्वा अपि नदीरतिक्रम्यप्रवहतीति शेषः॥१॥

10.75.2
प्र ते᳚॑रद॒द्वरु᳚णो॒ यात᳚वे प॒थः सिन्धो॒ यद्वाजा{4}᳚ अ॒भ्यद्र᳚व॒स्त्वम् ।
भूम्या॒ अधि᳚ प्र॒वता᳚ यासि॒ सानु᳚ना॒ यदे᳚षा॒मग्रं॒ जग᳚तामिर॒ज्यसि᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । अ॒र॒द॒त् । वरु᳚णः । यात᳚वे । प॒थः । सिन्धो॒ इति᳚ । यत् । वाजा᳚न् । अ॒भि । अद्र᳚वः । त्वम् ।
भूम्याः᳚ । अधि᳚ । प्र॒॑वता᳚ । या॒सि॒ । सानु᳚ना । यत् । ए॒षा॒म् । अग्र᳚म् । जग᳚ताम् । इ॒र॒ज्यसि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सिन्धो देवि ते तव यातवे गमनाय वरुणो देवः पथो मार्गान्प्रारदत्। प्राचीनं व्यलिखत्। सा हि प्राक् प्रवहति। अथवा प्रकृष्टमितरनदीभ्योऽप्यत्यन्तं विस्तृतं व्यदारयत्। यद्यस्माद्दे सिन्धो वाजानन्नान्यभिलक्ष्य त्वमभ्यद्रवः अभ्यगच्छः। किञ्च त्वं भूम्यां अध्युपरि सानुना समुच्छ्रितेन प्रवतामार्गेण यासि। गच्छसि। सिन्धुः खलु पर्वतान्विभिद्य गता। यद्येन समुच्छ्रितेन मार्गेन गच्छन्ती त्वमेषां सर्वेषां जगतां जङ्गमानां प्राणिनामग्रं प्रत्यक्षमिरज्यसि ईशिषे॥२॥

10.75.3 समानपद
दि॒वि स्व॒नो य᳚तते॒ भूम्यो॒पर्य᳚न॒न्तं शुष्म॒मुदि᳚यर्ति भा॒नुना᳚ ।
अ॒भ्रादि᳚व॒ प्र स्त᳚नयन्ति वृ॒ष्टय॒ः सिन्धु॒र्यदेति᳚ वृष॒भो न रोरु᳚वत् ॥
▶ पदपाठः (Word-by-word)
दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या᳚ । उ॒परि᳚ । अ॒न॒न्तम् । शुष्म᳚म् । उत् । इ॒य॒र्ति॒ । भा॒नुना᳚ ।
अ॒भ्रात्॑इ᳚व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः᳚ । सिन्धुः᳚ । यत् । एति᳚ । वृ॒ष॒भः । न । रोरु᳚वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भूम्योपरि भूमेरुपरि प्रवर्तमानः स्वनो दिवि यतते। गच्छ्ति। दिवं प्राप्नोति। सेयं सिन्धुरनन्तमपर्यन्तं शुष्मं वेगं भानुना दीप्तेनोर्मिणोदियर्ति। उद्गमयति।अभ्रादिवान्तरिक्षाद्यथा व्रुष्टयः प्र स्तनयन्ति तद्वदस्याह् शब्दाः प्रादुर्भवन्ति। यद्यदा सिन्धुरियं रोरुवद्भृशं शब्दयन् वृषभो न वृषभ इवैति गच्छति तदैवं भवति॥३॥

10.75.4 समानपद
अ॒भि त्वा᳚ सिन्धो॒ शिशु॒मिन्न मा॒तरो᳚ वा॒श्रा अ᳚र्षन्ति॒ पय᳚सेव धे॒नवः᳚ ।
राजे᳚व॒ युध्वा᳚ नयसि॒ त्वमित्सिचौ॒ यदा᳚सा॒मग्रं᳚ प्र॒वता॒मिन᳚क्षसि ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । सिन्धो॒ इति᳚ । शिशु᳚म् । इत् । न । मा॒तरः᳚ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय᳚सा॑इव । धे॒नवः᳚ ।
राजा᳚॑इव । युध्वा᳚ । न॒य॒सि॒ । त्वम् । इत् । सिचौ᳚ । यत् । आ॒सा॒म् । अग्र᳚म् । प्र॒॑वता᳚म् । इन᳚क्षसि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सिन्धो त्वा त्वाम् शिशुमिन्न मातरः पुत्रमिव वाश्राः शब्दयन्त्य इतरा नद्योऽभ्यर्षन्ति। अभिगच्छन्ति। पयसेव धेनवः पयसा युक्ता नवप्रसूतिका गाव इव। किञ्च युध्वा युद्धकृद्राजेव त्वमित्त्वमेव सिचौ सिच्यमानौ तटौ नयस्युदकं पूरं यद्यदासां प्रवतां त्वया सह गच्छन्तीनामग्रमग्र इनक्षसि व्याप्नोषि सर्वासां पुरतो गच्छसि॥४॥

10.75.5
इ॒मं मे᳚ गङ्गे यमुने सरस्वति॒ शुतु᳚द्रि॒ स्तोमं᳚ सचता॒ परु॒ष्ण्या ।
अ॒सि॒क्न्या म᳚रुद्वृधे वि॒तस्त॒यार्जी᳚कीये शृणु॒ह्या सु॒षोम᳚या ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । मे॒ । ग॒ङ्गे॒ । य॒मु॒ने॒ । स॒र॒स्व॒ति॒ । शुतु᳚द्रि । स्तोम᳚म् । स॒च॒त॒ । परु᳚ष्णि । आ ।
अ॒सि॒क्न्या । म॒रु॒त्॑वृ॒धे॒ । वि॒तस्त᳚या । आर्जी᳚कीये । शृ॒णु॒हि । आ । सु॒॑सोम᳚या ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र प्रधानभूताः सप्त नद्यस्तदवयवभूता नव्यस्तिस्रः स्तूयन्ते। हे गंगे हे यमुने हे सरस्वति हे शुतुद्रि हे परुष्णि। हे असिक्न्यावयवभूतया सहिते मरुद्वृधे हे वितस्तया सुषोमया च सहित अर्जीकीये त्वं च एवं सप्त नद्यः यूयम् मे स्तोमं स्तोत्रमस्मदीयमा सचत। असेवध्वम् । शृणुहि। शृणुत। अर्जीकीयाया वितस्तया सुषोमया च साहित्यं निरुक्त उक्तम्। वितस्तया चार्जीकीय आ शृणुहि सुषोमया चेति। अत्र गंगा गमनादित्यादि निरुक्तं द्रष्टव्यम् ।९-२६॥५॥

10.75.6
तृ॒ष्टाम᳚या प्रथ॒मं यात᳚वे स॒जूः सु॒सर्त्वा᳚ र॒सया᳚ श्वे॒त्या त्या ।
त्वं सि᳚न्धो॒ कुभ᳚या गोम॒तीं क्रुमुं᳚ मेह॒त्न्वा स॒रथं॒ याभि॒रीय᳚से ॥
▶ पदपाठः (Word-by-word)
तृ॒ष्ट॑अ᳚मया । प्र॒थ॒मम् । यात᳚वे । स॒॑जूः । सु॒॑सर्त्वा᳚ । र॒सया᳚ । श्वे॒त्या । त्या ।
त्वम् । सि॒न्धो॒ इति᳚ । कुभ᳚या । गो॒॑म॒तीम् । क्रुमु᳚म् । मे॒ह॒त्न्वा । स॒॑रथ᳚म् । याभिः᳚ । ईय᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सिन्धो त्वं क्रुमुं क्रमणशीलां गोमतीं नदीं यातवे प्रतियातुं पर्वतादवरूढा प्रथमं तृष्तामया नद्या सजूः सङ्गतासि। पश्चात्सुसर्त्वा रसया श्वेत्या त्या कुभया मेहत्न्वा च सह सजूर्भव याभिस्त्वं सरथम् समानं रथमारुह्येयसे। गच्छसि॥६॥

10.75.7
ऋजी॒त्येनी॒ रुश᳚ती महि॒त्वा परि॒ ज्रयां᳚सि भरते॒ रजां᳚सि ।
अद᳚ब्धा॒ सिन्धु᳚र॒पसा᳚म॒पस्त॒माश्वा॒ न चि॒त्रा वपु᳚षीव दर्श॒ता ॥
▶ पदपाठः (Word-by-word)
ऋजी᳚ती । एनी᳚ । रुश᳚ती । म॒हि॒॑त्वा । परि᳚ । ज्रयां᳚सि । भ॒र॒ते॒ । रजां᳚सि ।
अद᳚ब्धा । सिन्धुः᳚ । अ॒पसा᳚म् । अ॒पः॑त᳚मा । अश्वा᳚ । न । चि॒त्रा । वपु᳚षी॑इव । द॒र्श॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋजीत्यृजगामिन्येनी श्वेतवर्णा रुशती दीप्यमाना सिन्धुर्ज्रयांसि वेगवन्ति रजांस्युदकानि परि भरते। प्रभरति। तादृश्यदब्धाहिंसिता सिम्धुरपसां कर्मवतीनां मध्येऽपस्तमा वेगाख्यकर्मवती भवति। अश्वा न वडवेव चित्रा चायनीया वपुषी वपुष्मती योषिदिव दर्शता दर्शनीया भवति॥७॥

10.75.8
स्वश्वा॒ सिन्धु᳚ः सु॒रथा᳚ सु॒वासा᳚ हिर॒ण्ययी॒ सुकृ᳚ता वा॒जिनी᳚वती ।
ऊर्णा᳚वती युव॒तिः सी॒लमा᳚वत्यु॒ताधि᳚ वस्ते सु॒भगा᳚ मधु॒वृध᳚म् ॥
▶ पदपाठः (Word-by-word)
सु॒॑अश्वा᳚ । सिन्धुः᳚ । सु॒॑रथा᳚ । सु॒॑वासाः᳚ । हि॒र॒ण्ययी᳚ । सु॑कृ᳚ता । वा॒जिनी᳚॑वती ।
ऊर्णा᳚॑वती । यु॒व॒तिः । सी॒लमा᳚॑वती । उ॒त । अधि᳚ । व॒स्ते॒ । सु॒॑भगा᳚ । म॒धु॒॑वृध᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सेयं सिन्धुः स्वश्व्वा शोभनाश्वोपेता सुरथा शोभनरथा सुवासाः शोभनवस्त्रोपेता हिरण्ययी हिरण्मयाभारणा सुकृता वाजिनीवत्यन्नवत्यूर्णावती। तस्याः समीपदेशे हि सन्त्यूर्णा यासां रोमभिः कम्बलाः क्रियन्ते। युवतिर्नित्य तरुणी सर्वदाहीनोदका सीलमावती। सीराणि ययौषध्या रज्जुभूतया बध्यन्ते सा सीलमेति निगद्यते कृषीवल्यैः। तादृगोषध्युपेता। उतापि च सुभगा सिन्धुर्मधुवृधं मधुवर्धकं निर्गुण्ड्यादिकमधि वस्ते। आच्छादयति। तस्यास्तीरे निर्गुण्ड्यादीनि बहूनि सन्ति॥८॥

10.75.9
सु॒खं रथं᳚ युयुजे॒ सिन्धु᳚र॒श्विनं॒ तेन॒ वाजं᳚ सनिषद॒स्मिन्ना॒जौ ।
म॒हान्ह्य᳚स्य महि॒मा प᳚न॒स्यते॑द᳚ब्धस्य॒ स्वय᳚शसो विर॒प्शिनः᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒खम् । रथ᳚म् । यु॒यु॒जे॒ । सिन्धुः᳚ । अ॒श्विन᳚म् । तेन᳚ । वाज᳚म् । स॒नि॒ष॒त् । अ॒स्मिन् । आ॒जौ ।
म॒हान् । हि । अ॒स्य॒ । म॒हि॒मा । प॒न॒स्यते᳚ । अद᳚ब्धस्य । स्व॑य᳚शसः । वि॒॑र॒प्शिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धुर्देवता सुखं सुखकरं शोभनद्वारं वाश्विनमश्ववन्तं रथं युयुजे। युनक्ति। तेन रथेन वाजमन्नं सनिषत्। प्रयच्छतु। अस्मिन्नाजौ सङ्ग्रामे यज्ञे वास्य सिन्धुरथस्य महिमा महाह्नि पनस्यते। स्तूयते। कीदृशस्यास्य। अदब्धस्यान्यैरहिंस्यस्य स्वयशसः स्वायत्तकीर्तेर्विरप्शिनः महन्नामैतत्। महतः।७॥ ९॥