दशमं मण्डलम् - सूक्तम् 172

4 ऋचः

ऋषिः: संवर्तः देवता: उषाः छन्दः: द्विपदा विराट्

सूक्तम् 10.172 - सम्पूर्णम्

1 / 4
ऋक्: 10.172.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
10.172.1
आ या᳚हि॒ वन᳚सा स॒ह गावः᳚ सचन्त वर्त॒निं यदूध᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । वन᳚सा । स॒ह । गावः᳚ । स॒च॒न्त॒ । व॒र्त॒निम् । यत् । ऊध᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ याहीति चतुरृचमेकविंशं सूक्तमाङ्गिरसस्य संवर्तस्यार्षमुषोदेवताकम्। चतस्रोऽपि विंशतिका द्विपदा विराजः। तथा चानुक्रान्तम्। आ याहि संवर्त उषस्यं द्वैपदमिति। प्रथमे छन्दोमे वैश्वदेवसूक्तात्पूर्वमिदं सूक्तम्। सूत्रितं च। आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपादासूक्तानि। आ. ८-७। इति। महाव्रतेऽपि निष्केवल्य एतत्। तथैव पञ्चमारण्यके सूत्रितम् । ऐ. आ. ५-२-२॥

हे उषः वनसा वननीयेन तेजसा धनेन सार्धमा याहि। आगच्छ। गाव उषसो वाहनभूता वर्तनिं रथं सचन्त। सेवन्ते। अतस्तेन रथेनायाहीत्यर्थः। यद्या गाव ऊधभिरुपलक्शिताः प्रभूताः। पीना इत्यर्थः। ता गाव इति सम्बन्धः॥१॥

10.172.2
आ या᳚हि॒ वस्व्या᳚ धि॒या मंहि᳚ष्ठो जार॒यन्म᳚खः सु॒दानु᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । वस्व्या᳚ । धि॒या । मंहि᳚ष्ठः । जा॒र॒यत्॑म᳚खः । सु॒दानु᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषः वस्व्या प्रशस्तया धियानुग्रहबुद्ध्या कर्मना स्तुत्या वा सार्धमायाहि। आगच्छ। स चोषः कालः सुदानुभिः शोभनदानैर्दातृभिः पुरुषैर्मंहिष्ठो धनानां दातृतमः अत एव जारयन्मखः समापयद्यज्ञश्च भवति॥२॥

10.172.3
पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान᳚व॒ः प्रति᳚ दध्मो॒ यजा᳚मसि ॥
▶ पदपाठः (Word-by-word)
पि॒तु॒॑भृतः᳚ । न । तन्तु᳚म् । इत् । सु॒॑दान᳚वः । प्रति᳚ । द॒ध्मः॒ । यजा᳚मसि ॥
▶ सायणभाष्यम् (Sayana Commentary)

पितृभृतो नान्नस्य भर्तार इव सुदानवः शोभनदाना वयं तन्तुमित्तन्तुं विस्तीर्णमेव प्रति दध्मः। उषसं प्रत्युपायनरूपेण धारयामः। तेन च यज्ञेन तामुषसं यजामसि॥३॥

10.172.4
उ॒षा अप॒ स्वसु॒स्तम॒ः सं व᳚र्तयति वर्त॒निं सु᳚जा॒तता᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒षाः । अप᳚ । स्वसुः᳚ । तमः᳚ । सम् । व॒र्त॒य॒ति॒ । व॒र्त॒निम् । सु॒॑जा॒तता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशमेऽहनि प्रातरनुवाक उषस्ये क्रतावुषो भद्रेभिरित्यस्याः स्थान उषा अप स्वसुरित्येषा। सूत्रितं च। उषा आप स्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये। आ. ८-१२। इति॥

इयमुषाः स्वसुर्भगिन्या रात्रेः सम्बन्धि तमोऽन्धकारमप सं वर्तयति। आत्मीयेन तेजसापगमयति। सुजातता सुजातत्वमात्मनः सुप्रजातत्वम् च वर्तनिं रथं प्रापयति॥४॥