दशमं मण्डलम् - सूक्तम् 174

5 ऋचः

ऋषिः: अभीवर्तः देवता: राज्ञस्तुतिः छन्दः: अनुष्टुप्

सूक्तम् 10.174 - सम्पूर्णम्

1 / 5
ऋक्: 10.174.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.174.1
अ॒भी॒व॒र्तेन᳚ ह॒विषा॒ येनेन्द्रो᳚ अभिवावृ॒ते ।
तेना॒स्मान्ब्र᳚ह्मणस्पते॒॑भि रा॒ष्ट्राय᳚ वर्तय ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑व॒र्तेन᳚ । ह॒विषा᳚ । येन᳚ । इन्द्रः᳚ । अ॒भि॒॑व॒वृ॒ते ।
तेन᳚ । अ॒स्मान् । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि । रा॒ष्ट्राय᳚ । व॒र्त॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभीवर्तेनेति पञ्चर्चं त्रयोविंशं सूक्तमाङ्गिरसस्याभीवर्ताख्यस्यार्षमानुष्टुभम्। पूर्ववद्राजस्तुतिर्देवता। तथा चानुक्रान्तम्। अभीवर्तेन पञ्चाभीवर्त इति। पुरोहित इदं सूक्तं राजानं युद्धाय कृतसंनाहं वाचयीत। सूत्र्यते हि। अथैनं सारयमाणमुपारुह्याभीवर्तं वाचयति। आ. गृ. ३-१२-१२। इति॥

अभीवर्तेन अभिगच्छत्यनेनेत्यभीवत्रः। करने घञ्। थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम्। उपसर्गस्य घञ्यमनुष्ये बहुलम्। पा. ६-३-१२२। इति दीर्घः। ईदृशेन येन हविषा साधनेनेन्द्रोऽभिववृते सर्वमभिजगाम तेन हविषेष्टवतोऽस्मान् हे ब्रह्मणस्पते राष्ट्राय राज्यं प्राप्तुमभिवर्तय। अभिगमय॥१॥

10.174.2
अ॒भि॒वृत्य᳚ स॒पत्ना᳚न॒भि या नो॒ अरा᳚तयः ।
अ॒भि पृ᳚त॒न्यन्तं᳚ तिष्ठा॒भि यो न᳚ इर॒स्यति᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑वृत्य᳚ । स॒॑पत्ना᳚न् । अ॒भि । याः । नः॒ । अरा᳚तयः ।
अ॒भि । पृ॒त॒न्यन्त᳚म् । ति॒ष्ठ॒ । अ॒भि । यः । नः॒ । इ॒र॒स्यति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् सपत्नान् शत्रून् अभिवृत्य अभितो गमयित्वा नः अस्माकं याः अरातयः अदानशीलाः प्रजाः सन्ति त अपि अभि तिष्थ अभिभव। पृतन्यन्तं पृतनाः सेना आत्मन इच्छन्तं युयुत्सुं च अभि तिष्ठ। पृतनाशब्दात् क्यचि कव्यध्वरपृतनस्य इत्यन्तलोपः। यः च नः अस्मभ्यं इरस्यति ईर्ष्यति। इरस् तिरस् ईर्ष्यायां कण्ड्वादिः। तमपि अभि तिष्ठ। यद्वा। प्रकृतो ब्रह्मणस्पतिरेवात्रापि सम्बोध्यः॥२॥

10.174.3 समानपद
अ॒भि त्वा᳚ दे॒वः स᳚वि॒ताभि सोमो᳚ अवीवृतत् ।
अ॒भि त्वा॒ विश्वा᳚ भू॒तान्य᳚भीव॒र्तो यथास᳚सि ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । दे॒वः । स॒वि॒ता । अ॒भि । सोमः᳚ । अ॒वी॒वृ॒त॒त् ।
अ॒भि । त्वा॒ । विश्वा᳚ । भू॒तानि᳚ । अ॒भि॒॑व॒र्तः । यथा᳚ । अस᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् देवो दानादिगुणयुक्तः सविता त्वा त्वामभ्यवीवृतत्। अभिवर्तयतु। अभिगमयतु राष्ट्रम्। सोमश्चाभिवर्तयतु। विश्वा विश्वानि सर्वाण्यपि भूतानि पृथिव्यादीनि त्वामभि वर्तयन्तु। यथा येन प्रकारेण त्वमभीवर्तोऽसि। अभितः सर्वत्र वर्तमानो भवसि। अस्तेश्छान्दसः शपो लुगभावः॥३॥

10.174.4
येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ᳚वद्द्यु॒म्न्यु᳚त्त॒मः ।
इ॒दं तद᳚क्रि देवा असप॒त्नः किला᳚भुवम् ॥
▶ पदपाठः (Word-by-word)
येन᳚ । इन्द्रः᳚ । ह॒विषा᳚ । कृ॒त्वी । अभ᳚वत् । द्यु॒म्नी । उ॒त्॑त॒मः ।
इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्नः । किल᳚ । अ॒भु॒व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

येन हविषास्माभिर्दत्तेन माद्यन्निन्द्रः कृत्वी वृत्रवधादेः कर्मणः कर्ता भवत् द्युम्नी। द्युम्नं द्योततेर्यशो वान्नं वा। तद्वान् अत एवोत्तम उत्कृष्टतमश्चाभवत् तदिदं हविर्हे देवाः अक्रि। अकारि। यद्वा। अहमकार्षम्। अत एवाहमसपत्नः किलाभुवम्। शत्रुरहितोऽप्यभवं खलु॥४॥

10.174.5
अ॒स॒प॒त्नः स᳚पत्न॒हाभिरा᳚ष्ट्रो विषास॒हिः ।
यथा॒हमे᳚षां भू॒तानां᳚ वि॒राजा᳚नि॒ जन᳚स्य च ॥
▶ पदपाठः (Word-by-word)
अ॒स॒प॒त्नः । स॒प॒त्न॒॑हा । अ॒भि॑रा᳚ष्ट्रः । वि॒॑स॒स॒हिः ।
यथा᳚ । अ॒हम् । ए॒षाम् । भू॒ताना᳚म् । वि॒॑राजा᳚नि । जन᳚स्य । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सपत्नहा सपत्नानां शत्रूणां हन्ता अत एवासपत्नः शत्रुरहितोऽहमभूवम्। अभिराष्ट्रोऽभिगतराष्ट्रः प्राप्तराज्यः सन् विषासहिः शत्रूणां विशेषेणाभिभविता चाभूवम्। यथा येन प्रकारेणाहमेषां दृश्यमानानां सर्वेषां भूतानां प्राणिनां जनस्य च सेवकस्यामत्यादेश्च विराजानि यथेश्वरो भवानि तथा सपत्नहा विषासहिश्चा भूवमित्यर्थः॥५॥