गि॒रि॒भ्रजो॒ नोर्मयो॒ मद᳚न्तो॒ बृह॒स्पति᳚म॒भ्य१॒᳚र्का अ᳚नावन् ॥
पदपाठः (Word-by-word)
गि॒रि॒॑भ्रजः᳚ । न । ऊ॒र्मयः᳚ । मद᳚न्तः । बृह॒स्पति᳚म् । अ॒भि । अ॒र्काः । अ॒ना॒व॒न् ॥
सायणभाष्यम् (Sayana Commentary)
उदप्रुत इति द्वादशर्चमष्टमं सूक्तम् । ऋष्याद्याः पूर्ववत्। उदप्रुत इत्यनुक्रान्तम्। उक्थे ब्राह्मणच्छन्ंसिन एतत्सूक्तम्। सूत्रितं च। प्र मंहिष्थायोदप्रुतोऽच्छाम इन्द्रम्॥ आ. ६-१-। इति॥
उदप्रुत उदकस्योद्गमयितारो वयह् पक्षिणः पक्वात्सस्याद्रक्षमाणाः कृषीवलाः। न उपमार्थे। यथा शब्दायन्ते। यथा च वावदतः पुनः पुनः शब्दाय मानस्याभ्रियस्येवाभ्रसमूहस्य घोषाः शब्दा यथा भवन्ति। किञ्चगि रिभ्रजो गिरिभ्यो मेघेभ्यो भ्रष्टा निर्गता उर्मयोऽप्समूहा यथा मदन्तः शब्दायमाना भवन्ति। तथार्क अर्चकाः स्तोतारो बृहस्पतिमभ्यनावन्। अभिष्तुवन्ति। नु स्तवने॥१॥