श्रवणम्

10.68.7
बृह॒स्पति॒रम᳚त॒ हि त्यदा᳚सां॒ नाम᳚ स्व॒रीणां॒ सद᳚ने॒ गुहा॒ यत् ।
आ॒ण्डेव᳚ भि॒त्त्वा श᳚कु॒नस्य॒ गर्भ॒मुदु॒स्रिया॒ः पर्व᳚तस्य॒ त्मना᳚जत् ॥
▶ पदपाठः (Word-by-word)
बृह॒स्पतिः᳚ । अम᳚त । हि । त्यत् । आ॒सा॒म् । नाम᳚ । स्व॒रीणा᳚म् । सद᳚ने । गुहा᳚ । यत् ।
आ॒ण्डा॑इ᳚व । भि॒त्त्वा । श॒कु॒नस्य᳚ । गर्भ᳚म् । उत् । उ॒स्रियाः᳚ । पर्व᳚तस्य । त्मना᳚ । आ॒ज॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहस्पतिर्गुहा गुहायां सदने स्थाने स्वरीणां शब्दायमानानामासां गवां त्यत्तत्प्रसिद्धं नाम नामधेयं यद्यदामत हि ज्ञातवान्खलु। मनु अवबोधने। लुङि तनादिभ्यस्तथासोः। पा. २-४-७९। इति सिचो लुक्। तदानीं पर्वतस्यान्तः स्थिता उस्रिया गास्त्मनात्मनैवासहायेन पर्वतं भित्त्वोदाजत्। उदगमयत्। तत्र दृष्टान्तः। आण्डेव यथा शकुनस्य पक्षिण आण्डानि भित्त्वा तत्र स्थितं गर्भमुद्गमयति तद्वत्॥७॥