श्रवणम्

10.68.3
सा॒ध्व॒र्या अ᳚ति॒थिनी᳚रिषि॒राः स्पा॒र्हाः सु॒वर्णा᳚ अनव॒द्यरू᳚पाः ।
बृह॒स्पति॒ः पर्व᳚तेभ्यो वि॒तूर्या॒ निर्गा ऊ᳚पे॒ यव᳚मिव स्थि॒विभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
सा॒धु॒॑अ॒र्याः । अ॒ति॒थिनीः᳚ । इ॒षि॒राः । स्पा॒र्हाः । सु॒॑वर्णाः᳚ । अ॒न॒व॒द्य॑रू᳚पाः ।
बृह॒स्पतिः᳚ । पर्व᳚तेभ्यः । वि॒॑तूर्य᳚ । निः । गाः । ऊ॒पे॒ । यव᳚म्॑इव । स्थि॒वि॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

साध्वर्याः साधूनां कल्याणानां पयसां नेत्रिरतिथिणीः सततं गच्छन्तीरिषिरा एशणीयाः स्पार्हाः स्पृहणीयाः सुवर्णाः शोभनशुक्लादिवर्णोपेता अनवद्यरूपाः प्रशस्यरूपा एता गाः पर्वतेभ्यो वलसंबन्धिभ्यो वितूर्य निर्गमय्योपे। देवसमीपे निर्वपति। प्रापयति। तत्र दृष्टान्तः। यवमिव यथा यवं स्थिविभ्यः कुसिदेभ्य आदाय निर्वपति। डुवप् बीजसन्ताने। लिटि रूपम्। यद्वा। साधुनयनादि गुणयुक्ता गाः अपः पर्वतेभ्यो मेघेभ्य आहृत्य सर्वत्र वर्षति॥३॥