सोषाम᳚विन्द॒त्स स्व१॒᳚ः सो अ॒ग्निं सो अ॒र्केण॒ वि ब᳚बाधे॒ तमां᳚सि ।
बृह॒स्पति॒र्गोव᳚पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व᳚णो जभार ॥
बृह॒स्पति॒र्गोव᳚पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व᳚णो जभार ॥
पदपाठः (Word-by-word)
सः । उ॒षाम् । अ॒वि॒न्द॒त् । सः । स्व१॒᳚रिति᳚ स्वः᳚ । सः । अ॒ग्निम् । सः । अ॒र्केण᳚ । वि । ब॒बा॒धे॒ । तमां᳚सि ।
बृह॒स्पतिः᳚ । गो॑व᳚पुषः । व॒लस्य᳚ । निः । म॒ज्जान᳚म् । न । पर्व᳚णः । ज॒भा॒र॒ ॥
बृह॒स्पतिः᳚ । गो॑व᳚पुषः । व॒लस्य᳚ । निः । म॒ज्जान᳚म् । न । पर्व᳚णः । ज॒भा॒र॒ ॥
सायणभाष्यम् (Sayana Commentary)
स बृहस्पतिस्तत्र पर्वतविवरे गवां दर्शनायोषमुशसमविन्दत्। आलभत। स एव स्वरादित्यं सोऽग्निं लब्ध्वार्केणार्चनीयेन तेजसा तमांसि वि बबाधे। अत्यर्थं बाधितवान्। ततः स गोवपुशो गोरूपशरीरस्य पशुभिः परिवृतस्य वलस्य पर्वणः पर्वतात्ता गा निर्जभार। बलेन निर्जहार बलादाहरने द्रुष्टान्तः। मज्जानं न पर्वणः अस्थ्नो मज्जानं कथतिक्लेशेन निर्हरन्ति तद्वत्॥९॥