दशमं मण्डलम् - सूक्तम् 176

4 ऋचः

ऋषिः: सूनुरार्भवः देवता: ऋभवः छन्दः: अनुष्टुप्

सूक्तम् 10.176 - सम्पूर्णम्

1 / 4
ऋक्: 10.176.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
10.176.1
प्र सू॒नव᳚ ऋभू॒णां बृ॒हन्न᳚वन्त वृ॒जना᳚ ।
क्षामा॒ ये वि॒श्वधा᳚य॒सो॑श्न᳚न्धे॒नुं न मा॒तर᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । सू॒नवः᳚ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना᳚ ।
क्षाम᳚ । ये । वि॒श्व॑धा᳚यसः । अश्न᳚न् । धे॒नुम् । न । मा॒तर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र सूनव इति चतुऋचं पञ्चविंशं सूक्तम्। ऋभुपुत्रः सूनुर्नामर्षिः। द्वितीया गायत्री शिष्टास्तिस्रोऽनुष्टुभः। आद्यर्भुदेवत्या शिष्टा आग्नेय्यः। तथा चानुक्रान्तम्। प्र सूनवः सूनुरार्भव आग्नेयमानुष्टुभम् द्वितीयं गायत्र्या द्यार्भवीति। गतो विनियोगः॥

सूनव एतत्संज्ञा ऋभूणाम्। ऋभिर्विभ्वा वाज इति त्रयाणामपि प्रथमेन व्यपदेशः। तेषां पुत्रा बृहत्प्रभूतं वृजना। सङ्ग्रामनामैतत्। वृजनं सङ्ग्रामं प्र नवन्त। नवतिर्गतिकर्मा। प्रगच्छन्ति। प्रकर्षेण गच्छन्ति। प्रकृष्टगमनेन जयो लक्ष्यते। तत्र शत्रूञ्जयन्तीत्यर्थः। सूनुर्नामर्षिरात्मानमेव परोक्षेण निरदिशत्। एकस्मिन्नपि पूजार्थं बहुवचनं य ऋभवो विश्वधायसो विश्वस्य धारकाः क्षाम भूममश्नन् व्याप्नुवन्। अशू व्याप्तौ। व्यत्ययेन श्ना। धेनुं न। धेनुः प्रीणयित्री हौः। तामिव तेषामृभूणामित्यन्वयः। यद्वा। सूर्यरश्मयोऽप्यृभव उच्यन्ते। य उरु भासमानाः सूर्यरश्मयो विश्वधायसो विश्वं सर्वं रसं धयन्तः पिबन्तः। यद्वा। व्रुष्ट्यादिप्रदानेन सर्वस्य धारकाः। एवं भूताः सन्तः क्षाम भूमिमश्नन् अभुञ्जत तदीयं सर्वं रसमपिबन्। तत्र दृष्टान्तः। मातरं जननीं धेनुं पयस्विनीं गां यथा वत्सः पबति तथा । य ऋभवोऽश्नन्ति तेषामृभूणामित्यन्वयः॥१॥

10.176.2
प्र दे॒वं दे॒व्या धि॒या भर᳚ता जा॒तवे᳚दसम् ।
ह॒व्या नो᳚ वक्षदानु॒षक् ॥
▶ पदपाठः (Word-by-word)
प्र । दे॒वम् । दे॒व्या । धि॒या । भर᳚त । जा॒त॑वे᳚दसम् ।
ह॒व्या । नः॒ । व॒क्ष॒त् । आ॒नु॒षक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नि प्रणयने प्र देवमिति तृचोऽनुवक्तव्यः। सूत्रितं च। प्रेषितोऽग्निप्रणनीयाः प्रतिपद्यते प्र देवं देव्या धियेति तिस्रः। आ. २-१२। इति॥

हे ऋत्विग्यजमानाः देवं दानादिगुणयुक्तं जातवेदसं जातानां वेदितारं जातप्रज्ञम् जातधनं वेममग्निं प्र भरत। प्रकर्षेण हरत। यद्वा। प्राञ्चं नयत। केन साधनेनेति तदाह। देव्या दीप्तया धिया प्रज्ञया कर्मणा वा। यद्वा। एषा सहयोगे तृतीया। देव्या धिया युक्तम्। किं प्रयोजनमिति चेत्। नोऽस्माकं हव्या हव्यानि हवींष्यानुषगानुपूर्व्यादनुक्रमेण वक्षत्। अयमग्निर्वहेत्। देवान्प्रापयेत्। वहेर्लेटि सिब्बहुलमिति सिप्॥२॥

10.176.3
अ॒यमु॒ ष्य प्र दे᳚व॒युर्होता᳚ य॒ज्ञाय᳚ नीयते ।
रथो॒ न योर॒भीवृ᳚तो॒ घृणी᳚वाञ्चेतति॒ त्मना᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ऊं॒ इति᳚ । स्यः । प्र । दे॒व॒॑युः । होता᳚ । य॒ज्ञाय᳚ । नी॒य॒ते॒ ।
रथः᳚ । न । योः । अ॒भि॑वृ᳚तः । घृणि᳚॑वान् । चे॒त॒ति॒ । त्मना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमु अयमेव स्य सोऽग्निर्देवयुर्देवान्यष्टुमिच्छन्भवति। देवशब्दात्क्यचि न छन्दस्य पुत्रेतीत्वदीर्घयोः प्रतिषेधः। अयमेव होता देवानामाह्वाता। अयमेव यज्ञाय यागार्थं पणीयते। आहवनीयदेशं प्रति प्रकर्षेण नीयते। अपि च रथो रंहणशीलः सूर्यो रथवान्वा। छान्दसो मत्वर्थीयस्य लोपः। स यधा घृणीवान्दीप्तिमान् तद्वद्दीप्तो योर्मिश्रयिता हिविषां देव्यैः सङ्गमयिता। यौतेरन्येभ्योऽपि द्रुश्यन्त इति विच्। अभीव्रुत ऋत्विग्यजमानैरावेष्टितः। वृणोतेः कर्मण्यन्येषामपीति पूर्वपदस्य दीर्घः। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। एवं भुतोऽग्निस्त्मनात्मना। स्वयमेव चेतति। सम्यग्देवान्यष्टुं जानाति। मन्त्रेष्वाङ्यादेरात्मन इत्याकारलोपः॥३॥

10.176.4
अ॒यम॒ग्निरु᳚रुष्यत्य॒मृता᳚दिव॒ जन्म᳚नः ।
सह᳚सश्चि॒त्सही᳚यान्दे॒वो जी॒वात᳚वे कृ॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता᳚त्॑इव । जन्म᳚नः ।
सह᳚सः । चि॒त् । सही᳚यान् । दे॒वः । जी॒वात᳚वे । कृ॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निरमृतादमरणाद्देवनिमित्ताद्भयादिव जन्मनो जायमानान्मनुष्यनिमित्ताद्भयादप्युरुष्यति। तस्माद्रक्षति। उरुष्यती रक्षाकर्मेति यास्कः। नि. ५-२३। भाववाचिनोऽम्रुतशब्दस्य नञा बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम्। भीत्रार्थानाम्। पा. १-४-२५। इत्यपादानसंज्ञा। अपि चायं देवः सहसश्चित्। सह इति बलनाम। तस्मादुत्तरस्य मत्वर्थीयस्य बहुलं छन्दसीति लुक्। चिच्छब्दोऽप्यर्थः। सहस्वतो बलवतोऽपि सहीयान् बलवत्तरः। सहस्विशब्दादीयसुनि विन्मतोरिति विनो लुक्। टेरिति टिलोपः। एवंभूतो देवो जीवातवे जीवनहेतवे यागाय कृतः। ब्रह्मना सृष्टः॥४॥