दशमं मण्डलम् - सूक्तम् 53

11 ऋचः

ऋषिः: देवाः देवता: अग्निः सौचीकः छन्दः: त्रिष्टुप्

सूक्तम् 10.53 - सम्पूर्णम्

1 / 11
ऋक्: 10.53.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.53.1
यमैच्छा᳚म॒ मन᳚सा॒ सो॒३॒᳚॑यमागा᳚द्य॒ज्ञस्य᳚ वि॒द्वान्परु᳚षश्चिकि॒त्वान् ।
स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚या॒न्नि हि षत्स॒दन्त᳚र॒ः पूर्वो᳚ अ॒स्मत् ॥
▶ पदपाठः (Word-by-word)
यम् । ऐच्छा᳚म । मन᳚सा । सः । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य᳚ । वि॒द्वान् । परु᳚षः । चि॒कि॒त्वान् ।
सः । नः॒ । य॒क्ष॒त् । दे॒व॑ता᳚ता । यजी᳚यान् । नि । हि । स॒त्स॒त् । अन्त᳚रः । पूर्वः᳚ । अ॒स्मत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमैच्छामेत्येकादशर्चमेकादशं सूक्तम् । देवानां वाक्यत्वाद्देवा ऋषयः। तदद्येति तृचस्य सौचीकोऽग्निरृषिः। तन्तुं तन्वन्नित्याद्या अष्टमीवर्जिता जगत्यः। अष्टमी शिष्टाश्च त्रिष्टुभः। तथा चानुक्रान्तम्। तन्तुमाद्या जगत्योऽष्टमीवर्जमिति। शिष्टमुक्तम्। गतः सूक्तविनियोगः॥

यमग्निमैच्छाम अनिष्तवन्तो वयं मनसा हविष्प्रापण बुद्ध्या। मह्यं हविः प्रापयत्विति बुद्ध्येत्यर्थः। सोऽयमग्निरागात्। आजगाम। कीदृशोऽग्निः। यज्ञस्य यज्ञं विद्वान् तथा पुरुषः परूंषि सन्धातव्यान्यङ्गानि चिकित्वानभिगच्छन्। सोऽग्निर्यजीयान्यष्टृतमो नोऽस्मान्देवताता देवतातौ यज्ञे यक्षत्। यजतु। निहि षत्सत्। न्यसीदत्खलु वेद्यामिति शेशः। कीदृशः सन्। अन्तर ऋत्विजां यष्टव्यानां देवानां च मध्ये सञ्चरन् अस्मत्पूर्वोऽस्मत्तो देवेभ्यः पूर्वभावी सन्। अग्निं समिध्य पश्चाद्धि देवा आह्वयन्ते॥१॥

10.53.2
अरा᳚धि॒ होता᳚ नि॒षदा॒ यजी᳚यान॒भि प्रयां᳚सि॒ सुधि᳚तानि॒ हि ख्यत् ।
यजा᳚महै य॒ज्ञिया॒न्हन्त᳚ दे॒वा{4} ईळा᳚महा॒ ईड्या{4}॒ आज्ये᳚न ॥
▶ पदपाठः (Word-by-word)
अरा᳚धि । होता᳚ । नि॒॑सदा᳚ । यजी᳚यान् । अ॒भि । प्रयां᳚सि । सु॑धि᳚तानि । हि । ख्यत् ।
यजा᳚महै । य॒ज्ञिया᳚न् । हन्त᳚ । दे॒वान् । ईळा᳚महै । ईड्या᳚न् । आज्ये᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

दर्शपूर्णमासयोः पुराराधीत्येषा जप्या। सूत्रमुदाहृतम्।

अयमग्निर्होता होमनिश्पादको यजीयान् यष्टृतमश्च सन्निपदावेद्यां निषदनेनाराधि। सिद्धोऽभूत्। आहुतियोग्योऽभूदित्यर्थः। तथाभूतोऽयं सुधितानि सुष्ठु निहितानि प्रयांसि चरुपुरॊडाशाद्यन्नान्यभि हि खत्। अभिचष्टे। सर्वतः पश्यति। हीति पादपुरणः। कया बुद्ध्येति। यज्ञियान्यष्टव्यानाहुतिभाजो देवान् हन्त शीघ्रमाज्येन याजमहै तथीड्यान् स्तुतिभाजो देवान् स्तुत्येळामहा इति बुद्ध्येति शेषः॥२॥

10.53.3
सा॒ध्वीम᳚कर्दे॒ववी᳚तिं नो अ॒द्य य॒ज्ञस्य᳚ जि॒ह्वाम᳚विदाम॒ गुह्या᳚म् ।
स आयु॒रागा᳚त्सुर॒भिर्वसा᳚नो भ॒द्राम᳚कर्दे॒वहू᳚तिं नो अ॒द्य ॥
▶ पदपाठः (Word-by-word)
सा॒ध्वीम् । अ॒कः॒ । दे॒व॑वी᳚तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य᳚ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या᳚म् ।
सः । आयुः᳚ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा᳚नः । भ॒द्राम् । अ॒कः॒ । दे॒व॑हू᳚तिम् । नः॒ । अ॒द्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्यजमाने जीवति मृतशब्दो जायते तस्य सुरभिमतीष्टिः कर्तव्या। साध्वीमकरित्येषा तत्र याज्या। सूत्रितं च। अग्निर्होता न्यसिदद्यजीयान् साध्वीमकर्देववीतिं नो अद्य। आ. ३-१३। इति॥

अयमग्निरद्य नोऽस्माकं देववीतिं देवानामागमनवन्तं देवानां हविर्भक्षणोपेतं वा यज्ञं साध्वीमकः। साधुमकरोत्। वयं च यज्ञस्य जिह्वां गुह्यां गूढतरां जिह्वामविदाम। लब्धवन्तः स्म। अग्निर्हि यज्ञस्य जिह्वा तेन देवानां पानाज्जिह्वात्वेनोपचारः। स तादृशोऽग्निः सुरुभिः सुगन्ध आयुर्देवैर्दत्तमायुष्यं वसान आच्छादयन्नागात् आगच्छति। आगत्य च नोऽस्मदर्थं देवहूतिं देवानामाह्वानवन्तं यज्ञं भद्रामकः। कल्याणं कृतवान्। आद्येदानीम्॥३॥

10.53.4
तद॒द्य वा॒चः प्र᳚थ॒मं म᳚सीय॒ येनासु᳚रा{4} अ॒भि दे॒वा असा᳚म ।
ऊर्जा᳚द उ॒त य᳚ज्ञियास॒ः पञ्च᳚ जना॒ मम᳚ हो॒त्रं जु᳚षध्वम् ॥
▶ पदपाठः (Word-by-word)
तत् । अ॒द्य । वा॒चः । प्र॒थ॒मम् । म॒सी॒य॒ । येन᳚ । असु᳚रान् । अ॒भि । दे॒वाः । असा᳚म ।
ऊर्ज᳚॑अदः । उ॒त । य॒ज्ञि॒या॒सः॒ । पञ्च᳚ । ज॒नाः॒ । मम᳚ । हो॒त्रम् । जु॒ष॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दर्शपूर्णमासयोः सामिधेन्यर्थं प्रेषितेन होत्रा तदद्य वाच इत्येषाजप्या। स्रुगादापनात्पूर्वमपि जप्या। सूत्रितं च। तदद्य वाचः प्रथमं मसीयेति समाप्य। आ. १-२। इति॥

इदमुत्तरं चाग्नेर्वाक्यमित्युक्तम् । आद्येदानीं प्रथमम् । मुख्यानामैतत्। वाचां मुख्यं तद्वाचो वचो वचनं मसीय। मंसीय। उच्चारयामि। येन वचसाहं देवाश्च वयमसुरानभ्यसाम। अभिभवेम। किं तत्प्रथमं वचनमिति उच्यते। ऊर्जादो हे अनाद उतापि च यज्ञियासो यज्ञार्हा हे पञ्च जना देवमनुष्यादयः यूयं मम होत्रं जुषध्वम् । सेवध्वमिति। एवं बहूच्यमानेऽग्निमनूद्यन्ति सर्वे देवा इत्यभिप्रायः। अत्र तदद्य चाच इत्यादि निरुक्तं द्रष्टव्यम्। नि. ३-८॥४॥

10.53.5
पञ्च॒ जना॒ मम᳚ हो॒त्रं जु᳚षन्तां॒ गोजा᳚ता उ॒त ये य॒ज्ञिया᳚सः ।
पृ॒थि॒वी न॒ः पार्थि᳚वात्पा॒त्वंह᳚सो॒॑न्तरि᳚क्षं दि॒व्यात्पा᳚त्व॒स्मान् ॥
▶ पदपाठः (Word-by-word)
पञ्च᳚ । जनाः᳚ । मम᳚ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गो॑जा᳚ताः । उ॒त । ये । य॒ज्ञिया᳚सः ।
पृ॒थि॒वी । नः॒ । पार्थि᳚वात् । पा॒तु॒ । अंह᳚सः । अ॒न्तरि᳚क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्च जना देवादयो मम होत्रं हवमाह्वानं जुषन्ताम्। सेवन्ताम्। अपि च गोजाता भूम्यामुत्पन्नाः। यद्वा। गोशब्देन तज्जं पय आदिकमुच्यते। हविरर्थं प्रादुर्भूता इत्यर्थः। तादृशे ये सन्ति। उतापि च ये यज्ञियासो यज्ञार्हाः सन्ति ते मम होत्रं जुषन्ताम्। किञ्च पृथिवी पृथिवीदेवता पार्थिवात्पृथिवीसम्बन्धान्नोऽस्मानंहसः पापात्पातु। रक्शतु। तथान्तरिक्षमन्तरिक्षदेवता दिव्यादान्तरिक्षादंहसः पापसकाशादस्मान्पातु॥५॥

10.53.6
तन्तुं᳚ त॒न्वन्रज᳚सो भा॒नुमन्वि᳚हि॒ ज्योति᳚ष्मतः प॒थो र᳚क्ष धि॒या कृ॒तान् ।
अ॒नु॒ल्ब॒णं व᳚यत॒ जोगु᳚वा॒मपो॒ मनु᳚र्भव ज॒नया॒ दैव्यं॒ जन᳚म् ॥
▶ पदपाठः (Word-by-word)
तन्तु᳚म् । त॒न्वन् । रज᳚सः । भा॒नुम् । अनु᳚ । इ॒हि॒ । ज्योति᳚ष्मतः । प॒थः । र॒क्ष॒ । धि॒या । कृ॒तान् ।
अ॒नु॒ल्ब॒णम् । व॒य॒त॒ । जोगु᳚वाम् । अपः᳚ । मनुः᳚ । भ॒व॒ । ज॒नय᳚ । दैव्य᳚म् । जन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गार्हपत्यादारभ्याहवनीयाद्वेदिं वेदतृणैरास्तृणाति तन्तुमित्यनया। सूत्रितं च। अविधून्वन् सन्ततं स्तृणन् सव्येन गार्हपत्यादाहवनीयमेति तन्तुम् तन्वन्रजसो भानुमन्विहि। आ. ११-१। इति। अग्निहोत्रहोमेऽप्यनयोदकधारा स्रावणीया। सुत्रितञ्च। गार्हपत्यदविच्छिन्नामुदकधारां हेरेत्तन्तुं तन्वन्रजसो भानुमन्विहि। आ. २-२-। इति । अग्न्यन्तराले श्वातिक्रमणेऽनया गार्हपत्याहवनीययोर्मध्य उदकेन भस्मना चापुरयेत्। सूत्रितं च। गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च सन्तनुयात्। आ. ३-१०। इति। आग्निमारुतेऽप्येषा धाय्या। सुत्रितं च। तन्तुं तन्वन्रजसो भानुमन्विह्येवान इन्द्रो मघवाविरप्शी। आ. ५-२०। इति॥

हे अग्ने तन्तुं यज्ञं तन्वन्विस्तारयन्रजसो रञ्जनात्मकस्य लोकस्य भानुं भासकमादित्यमन्विहि। अनुगच्छ। रश्मिद्वारा सुर्यमण्डलं प्रविशेत्यर्थः। किञ्च ज्योतिष्मतः। प्रकाशवतो यज्ञस्य पथो गमनमार्गान् अथवा ज्योतिष्मतो दीप्तिमतः स्वर्गस्य पथो मार्गान्देवयानान् रक्ष। पालय। कीदृशान्मार्गान्। धिया कर्मणा कृतान् सम्पादितान्। किञ्च सोऽग्निर्जोगुवां स्तोतृणामपः। कर्मनामैतत्। क्रियया व्याप्यं कर्मानुल्बणमनतिरिक्तं वयत। करोतु। यदेव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः। तै. सं. ३-४-३--७। इति हि ब्राह्मणम् । स त्वं मनुर्भव। मन्तव्यो भव। स्तुत्यो भवेत्यर्थः। किञ्च दैव्यं जनं देवसङ्घं जनय। उत्पादय। यज्ञाभिगमनवन्तं कुर्वित्यर्थः॥६॥

10.53.7 समानपद
अ॒क्षा॒नहो᳚ नह्यतनो॒त सो᳚म्या॒ इष्कृ᳚णुध्वं रश॒ना ओत पिं᳚शत ।
अ॒ष्टाव᳚न्धुरं वहता॒भितो॒ रथं॒ येन᳚ दे॒वासो॒ अन᳚यन्न॒भि प्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
अ॒क्ष॒॑नहः᳚ । न॒ह्य॒त॒न॒ । उ॒त । सो॒म्याः॒ । इष्कृ᳚णुध्वम् । र॒श॒नाः । आ । उ॒त । पिं॒श॒त॒ ।
अ॒ष्टा॑व᳚न्धुरम् । व॒ह॒त॒ । अ॒भितः᳚ । रथ᳚म् । येन᳚ । दे॒वासः᳚ । अन᳚यन् । अ॒भि । प्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र यज्ञजिगमिषवो देवाः परस्परं ब्रुवते। हे सोम्याः सोमार्हा देवाः यूयमक्षानहोऽक्षेषु नह्यान् बन्धनीयानश्वान्नह्यतन। नह्यत। बध्नीत रथे। उतापि च रशना अश्वबन्धनप्रग्रहानिष्कृणुध्वम्। इश्कुरुत। सम्यक् संस्कुरुत। नकारलोपश्छान्दसः। उतापि चापिंशत। पिश अवयवे। अश्वानलङ्कुरुतेत्यर्थः। अष्टावन्धुरम्। वन्धुरं सारथिनिवासस्थानम्। अष्टसङ्ख्याकवन्धुरोपेतं रथं सूर्यसम्बन्धिनमभितः सर्वतो वहत। सूर्यरथेन साकं युष्मदीयान्रथान्यज्ञं प्रतिगमयतेत्यर्थः। येन देवासो देवाः प्रियमस्माननयन् अभिगमयन्ति तं रथमभितो वहतेति सम्बन्धः। यद्वा। तं यज्ञं प्रति वहतेति योज्यम्॥७॥

10.53.8
अश्म᳚न्वती रीयते॒ सं र᳚भध्व॒मुत्ति᳚ष्ठत॒ प्र त᳚रता सखायः ।
अत्रा᳚ जहाम॒ ये अस॒न्नशे᳚वाः शि॒वान्व॒यमुत्त᳚रेमा॒भि वाजा᳚न् ॥
▶ पदपाठः (Word-by-word)
अश्म᳚न्॑वती । री॒य॒ते॒ । सम् । र॒भ॒ध्व॒म् । उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒यः॒ ।
अत्र᳚ । ज॒हा॒म॒ । ये । अस᳚न् । अशे᳚वाः । शि॒वान् । व॒यम् । उत् । त॒रे॒म॒ । अ॒भि । वाजा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैवाहिके प्रयाणे यदि नावा तार्या नदी स्यात् तदानीमश्मन्वतीत्यर्धर्चेन वधूं नावामारोहयेत् उत्तरेणार्धर्चेन नदीमुत्क्रमयेत्। सूत्रितं च। अश्मन्वती रीयते सं रभध्वमित्यर्धर्चेन नावमारोहयेदुत्तरेणोत्क्रमयेत्। आ. गृ. १-८-२, ३। इति॥

अनयापि देवा यज्ञजिगमिषवः परस्परं ब्रुवते। अश्मन्वती नाम नदी रीयते। गच्छति। री गतिरेषणयोः। तां यज्ञगमनायोत्तरीतुमुत्तिष्ठत। उद्गच्छत। तथा कृत्वा प्रतरत। तां नदीमुल्लङ्घयत। हे सखायो यजमानस्य सखि भूता इति देवानां सम्बोधनम् । अत्रास्यां नद्यां जहाम। परित्यजाम। कानिति उच्यते। येऽशेवाः। शेवमिति सुखनाम। येऽसुखभूता आसन् अभवन् अस्मानाश्रित्य वर्तन्ते ताञ्जहाम। तथा कृत्वा शिवान् सुखकराणि वाजानन्नानि हवींष्यभिप्राप्तुमुत्तरेम॥८॥

10.53.9 समानपद
त्वष्टा᳚ मा॒या वे᳚द॒पसा᳚म॒पस्त᳚मो॒ बिभ्र॒त्पात्रा᳚ देव॒पाना᳚नि॒ शंत᳚मा ।
शिशी᳚ते नू॒नं प᳚र॒शुं स्वा᳚य॒सं येन᳚ वृ॒श्चादेत᳚शो॒ ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वष्टा᳚ । मा॒या । वे॒त् । अ॒पसा᳚म् । अ॒पः॑त᳚मः । बिभ्र᳚त् । पात्रा᳚ । दे॒व॒॑पाना᳚नि । शम्॑त᳚मा ।
शिशी᳚ते । नू॒नम् । प॒र॒शुम् । सु॒॑आ॒य॒सम् । येन᳚ । वृ॒श्चात् । एत᳚शः । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं त्वष्टा देवशिल्पी मायाः। कर्मनामैतत्। कर्माणि पात्रनिर्माण विषयाणि वेत्। वेत्ति। जानाति। स च त्वष्टापसां शोभनकर्मवतां मध्येऽपस्तमोऽतिशयेन शोभनकर्मा देवपानानि देवाः पिबन्ति येशु तानि पात्रा सोमपात्राणि बिभ्रद्दारयन्वर्तत इति शेषः। स च त्वष्टा नूनमिदानीमग्नौ हविर्वहनायाङ्गीकृते सति स्वायसं शोभनायः सारभूतं परशुं शिशिते। तीक्ष्णयति। त्वष्टा पात्रसम्पादनार्थं येन परशुनैतश एतशवर्णो ब्रह्मणस्पतिर्बह्मणो मन्त्रस्य पाता पात्रादिसम्पादनरूपस्य कर्मणः स्वामी वा वृश्चात् वृश्चति॥९॥

10.53.10
स॒तो नू॒नं क᳚वय॒ः सं शि᳚शीत॒ वाशी᳚भि॒र्याभि᳚र॒मृता᳚य॒ तक्ष᳚थ ।
वि॒द्वांसः᳚ प॒दा गुह्या᳚नि कर्तन॒ येन᳚ दे॒वासो᳚ अमृत॒त्वमा᳚न॒शुः ॥
▶ पदपाठः (Word-by-word)
स॒तः । नू॒नम् । क॒व॒यः॒ । सम् । शि॒शी॒त॒ । वाशी᳚भिः । याभिः᳚ । अ॒मृता᳚य । तक्ष᳚थ ।
वि॒द्वांसः᳚ । प॒दा । गुह्या᳚नि । क॒र्त॒न॒ । येन᳚ । दे॒वासः᳚ । अ॒मृ॒त॒॑त्वम् । आ॒न॒शुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवयो मेधाविनस्त्वष्टुर्मम शिष्या ऋभवः सतः। सन्त इत्यर्थः। प्रशस्ताः यूयं नूनमिदानीं सं शिशीत अत्यर्थं तीक्ष्णीकुरुत वाशीः। याभिर्वाशीभिः पात्राण्यमृताय सोमाय। तत्पानायेत्यर्थः। यद्वा । युष्माकममृतत्वाय तदर्थम् तक्शत। सम्पादयथ। हे कवयो विद्वांसः यूयं गुह्यानि गोपनीयानि पदा पदानि निवासस्थानानि कर्तन। कुरुत। येन स्थानकरनेन देवासो देवाः यूयममृतत्वमानशुः प्राप्ता यूयम् । एवं स्वशिष्यानाह॥१०॥

10.53.11
गर्भे॒ योषा॒मद᳚धुर्व॒त्समा॒सन्य᳚पी॒च्ये᳚न॒ मन᳚सो॒त जि॒ह्वया᳚ ।
स वि॒श्वाहा᳚ सु॒मना᳚ यो॒ग्या अ॒भि सि᳚षा॒सनि᳚र्वनते का॒र इज्जिति᳚म् ॥
▶ पदपाठः (Word-by-word)
गर्भे᳚ । योषा᳚म् । अद᳚धुः । व॒त्सम् । आ॒सनि᳚ । अ॒पी॒च्ये᳚न । मन᳚सा । उ॒त । जि॒ह्वया᳚ ।
सः । वि॒श्वाहा᳚ । सु॒॑मनाः᳚ । यो॒ग्याः । अ॒भि । स॒सा॒सनिः᳚ । व॒न॒ते॒ । का॒रः । इत् । जिति᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते मरुतो गर्भे मृताया गोर्मध्ये ग्राहके चर्मणि मृताया गोः सम्बन्धिनि योशां काञ्चिद्गामदधुः। धारितवन्तः। निश्चर्मणॊ गामरिणीत धीतिभिः। ऋ. १-१६१-७। इत्युक्तम्। तथासनि मृताया आस्ये वत्समदधुः। केन साधनेन। अपीच्येन मनसा देवत्वमाकाङ्क्षतोतापि च जिह्वया। साद्रुश्यप्रधानोऽयं निर्देशः। जिह्वावदायतय वाश्येत्यर्थः। यद्वा जिह्वया युक्तां योषामिति सम्बन्धः। सिषासनिः सम्भजनशीलः स ऋभुसङ्घो विश्वाहा सर्वेष्वहः सु सर्वदा योग्याः स्वोचिताः सुमनाः स्तितीरभिवनते। स च सङ्घो जितिं शत्रुजयं कामं कार इत् कर्तैव। शत्रुजयकर्तैव॥११॥