स॒तो नू॒नं क᳚वय॒ः सं शि᳚शीत॒ वाशी᳚भि॒र्याभि᳚र॒मृता᳚य॒ तक्ष᳚थ ।
वि॒द्वांसः᳚ प॒दा गुह्या᳚नि कर्तन॒ येन᳚ दे॒वासो᳚ अमृत॒त्वमा᳚न॒शुः ॥
वि॒द्वांसः᳚ प॒दा गुह्या᳚नि कर्तन॒ येन᳚ दे॒वासो᳚ अमृत॒त्वमा᳚न॒शुः ॥
पदपाठः (Word-by-word)
स॒तः । नू॒नम् । क॒व॒यः॒ । सम् । शि॒शी॒त॒ । वाशी᳚भिः । याभिः᳚ । अ॒मृता᳚य । तक्ष᳚थ ।
वि॒द्वांसः᳚ । प॒दा । गुह्या᳚नि । क॒र्त॒न॒ । येन᳚ । दे॒वासः᳚ । अ॒मृ॒त॒॑त्वम् । आ॒न॒शुः ॥
वि॒द्वांसः᳚ । प॒दा । गुह्या᳚नि । क॒र्त॒न॒ । येन᳚ । दे॒वासः᳚ । अ॒मृ॒त॒॑त्वम् । आ॒न॒शुः ॥
सायणभाष्यम् (Sayana Commentary)
हे कवयो मेधाविनस्त्वष्टुर्मम शिष्या ऋभवः सतः। सन्त इत्यर्थः। प्रशस्ताः यूयं नूनमिदानीं सं शिशीत अत्यर्थं तीक्ष्णीकुरुत वाशीः। याभिर्वाशीभिः पात्राण्यमृताय सोमाय। तत्पानायेत्यर्थः। यद्वा । युष्माकममृतत्वाय तदर्थम् तक्शत। सम्पादयथ। हे कवयो विद्वांसः यूयं गुह्यानि गोपनीयानि पदा पदानि निवासस्थानानि कर्तन। कुरुत। येन स्थानकरनेन देवासो देवाः यूयममृतत्वमानशुः प्राप्ता यूयम् । एवं स्वशिष्यानाह॥१०॥