इन्द्र᳚स्य॒ यस्य॒ सुम᳚खं॒ सहो॒ महि॒ श्रवो᳚ नृ॒म्णं च॒ रोद᳚सी सप॒र्यतः᳚ ॥
पदपाठः (Word-by-word)
इन्द्र᳚स्य । यस्य᳚ । सु॑म᳚खम् । सहः᳚ । महि᳚ । श्रवः᳚ । नृ॒म्णम् । च॒ । रोद᳚सी॒ इति᳚ । स॒प॒र्यतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
प्रवो मह इति सप्तर्चमष्टमं सूक्तम् । आदितो द्वे जगत्यौ। के ते नर इत्यादिके द्वे अभिसारिण्यौ। आदितो द्वौ दशाक्षरौ ततो द्वौ द्वादशकौ साभिसारिणी। तदुक्तम् । वैराजौ जागतौ चाभिसारिणी। अनु. ९-४। इति । ततो द्वे जगतौ। पूर्ववदृषिदेवते। तथा चानुक्रान्तम् । प्र वो महे सप्त द्विजगत्याद्यन्तं केतेऽभिसारिण्याविति। महाव्रते निष्केवल्य एतत्सूक्तं निविद्धानम् । सूत्रितं च। प्र वो महे मन्दमानायान्धस इति निविद्धानम् । ऐ. आ. ५-३-१। इति॥
हे स्तोतः वस्त्वम् । पूजार्थे बहुवचनम् । महे महतेऽन्धसः। आन्धसेत्यर्थः। सोमेन मन्दमानाय मोदमानाय विश्वानराय सर्वस्य नेत्रे। नरे संज्ञायामिति दीर्घः। विश्वाभुवे सर्वस्य भावयित्रे मह्यमिन्द्राय प्रार्च। अर्चतिः स्तुतिकर्मा। प्रोच्चारय। यस्य ममेन्द्रस्य सुमखं सुष्ठु मंहनीयं सहो बलं महि महच्छ्रवोऽन्नं नृम्णं सुखं च रोदसी द्यावापृथिव्यौ सपर्यतः। पूजयतः। तस्मा इन्द्रायार्चेति समन्वयः॥१॥