श्रवणम्

10.50.4 समानपद
भुव॒स्त्वमि᳚न्द्र॒ ब्रह्म᳚णा म॒हान्भुवो॒ विश्वे᳚षु॒ सव᳚नेषु य॒ज्ञियः᳚ ।
भुवो॒ नॄ{4}श्च्यौ॒त्नो विश्व᳚स्मि॒न्भरे॒ ज्येष्ठ᳚श्च॒ मन्त्रो᳚ विश्वचर्षणे ॥
▶ पदपाठः (Word-by-word)
भुवः᳚ । त्वम् । इ॒न्द्र॒ । ब्रह्म᳚णा । म॒हान् । भुवः᳚ । विश्वे᳚षु । सव᳚नेषु । य॒ज्ञियः᳚ ।
भुवः᳚ । नॄन् । च्यौ॒त्नः । विश्व᳚स्मिन् । भरे᳚ । ज्येष्ठः᳚ । च॒ । मन्त्रः᳚ । वि॒श्व॒॑च॒र्ष॒णे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भुवस्त्वमिन्द्रेति दर्शपूर्णमासयोर्माहेन्द्रस्य हविषो याज्या। सूत्रितं च। महाम् इन्द्रो य ओजसा भुवस्त्वमिन्द्र ब्रह्मना महान्। आ. १-६। इति। देवसुवां हविःष्विन्द्रस्य ज्येष्ठस्यैषैव याज्या। भुवस्त्वमिन्द्र ब्रह्मणा महाननमीवास इळया। आ. ४-११। इति हि सूत्रितम्। एषैव भूनाम्न्येकाहे निष्केवल्ये सूक्तमुखीया। सूत्रितं च। शस्यमुक्तं बृहस्पतिसवेन त्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्र ब्रह्मणा महान्। आ. ९-५। इति॥

हे इन्द्र त्वं ब्रह्मणस्मत्कृतेन परिवृढेन स्तोत्रेण महान्भुवः। अभवः। भवतेर्लेटि भूसुवोस्तिङेति गुणप्रतिषेध उवङादेशः। तथा विश्वेषु सर्व्वेषु सवनेषु यज्ञियो यष्यव्यो भुवः। अभवः। तथा विश्वस्मिन्भरे सङ्ग्रामे नॄन् नेतॄणां शत्रूणां च्यौत्नश्च्यावयिताभवः। हे विश्वचर्षने सर्वस्य द्रष्टरिन्द्र मन्त्रो मन्त्रयितव्यस्त्वं ज्येष्ठश्चाभवः सर्वेषां मध्ये॥४॥