दशमं मण्डलम् - सूक्तम् 155

5 ऋचः

ऋषिः: शिरिंबिठो भारद्वाजः देवता: अलक्ष्मीघ्नं छन्दः: अनुष्टुप्

सूक्तम् 10.155 - सम्पूर्णम्

1 / 5
ऋक्: 10.155.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.155.1
अरा᳚यि॒ काणे॒ विक᳚टे गि॒रिं ग᳚च्छ सदान्वे ।
शि॒रिम्बि᳚ठस्य॒ सत्व᳚भि॒स्तेभि᳚ष्ट्वा चातयामसि ॥
▶ पदपाठः (Word-by-word)
अरा᳚यि । काणे᳚ । वि॑क᳚टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ ।
शि॒रिम्बि᳚ठस्य । सत्व᳚॑भिः । तेभिः᳚ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरायीति प्र्ञ्चर्चं चतुर्थं सूक्तं भरद्वाजपुत्रस्य शिरिम्बिठस्यार्षमानुष्टुभम्। जपहोमादिभिरिदं सूक्तमश्रीनाशकरम्। तत्राद्योपांत्ययोस्तादृशोऽर्थ एव देवता। द्वितीयातृतीये ब्राह्मणस्पत्ये। पञ्चमी वैश्वदेवी। अनुक्रम्यते हि। अरायि श्रिम्बिठो भारद्वाजोऽलक्ष्मीघ्नम् द्वितीयातृतीये ब्राह्मणस्पत्ये अन्त्या वैश्वदेवीति। गतो विनियोगः॥

हे अराय्यदायिनि दानविरोधिनि हे काणे कुत्सितशब्दकारिणि कुत्सितदर्शने वा हे विकटे विकृतगमने विकृताङ्गे वा हे सदान्वे सदानोनुवे सर्वदा क्रोशकारिणि दुर्भिक्षादिदेवते गिरिं पर्वतं निर्जनदेशं गच्छ। अस्मान्मा बाधिष्ठाः। शिरिम्बिथस्य। भिठमन्तरिक्षम्। शीर्यते बिठेऽन्तरिक्ष इति शिरिम्बिठो मेघः। तस्य स्वथिरन्तर्वर्तमानैरुदकैस्तॆभिस्तैस्त्वा त्वाम् चातयामसि। चातयामः। विनाशयामः। यद्वा। शिरिम्बठस्यैतत्संज्ञकस्य भरद्वाजपुत्रस्य तेभिस्तैरनुष्ठितैः सत्वभिः कर्मभिर्हे अलक्ष्मि त्वां विनाशयामः। इतस्त्वमेव शीघ्रं गिरिं गच्छ॥१॥

10.155.2
च॒त्तो इ॒तश्च॒त्तामुत॒ः सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ ।
अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण᳚शृण्गोदृ॒षन्नि᳚हि ॥
▶ पदपाठः (Word-by-word)
च॒त्तो इति᳚ । इ॒तः । च॒त्ता । अ॒मुतः᳚ । सर्वा᳚ । भ्रू॒णानि᳚ । आ॒रुषी᳚ ।
अ॒रा॒य्य᳚म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । तीक्ष्ण᳚॑शृङ्ग । उ॒त्॑ऋ॒षन् । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सालक्ष्मीरितोऽस्माल्लोकाच्चत्तो चत्तैवास्माभिर्नाशितैवामुतोऽमुष्मादपि लोकाच्चत्ता हिंसिता भवतु। यालक्श्मीः सर्वा सर्वाणि भ्रूणानि गर्भजातानि सर्वासामोषधीनामङ्कुराणि या दुर्भिक्षाधिदेवतारुष्याहन्त्री भवति अराय्यम् दानविरोधिनीं तां हे ब्रह्मनस्पते मन्त्रपालयितर्देव हे तीक्ष्णशृङ्ग तीक्श्ण तेजस्क उदृषन्नस्मात्स्थानादुद्गमयन्निहि। गच्छ॥२॥

10.155.3 समानपद
अ॒दो यद्दारु॒ प्लव᳚ते॒ सिन्धो᳚ः पा॒रे अ᳚पूरु॒षम् ।
तदा र᳚भस्व दुर्हणो॒ तेन᳚ गच्छ परस्त॒रम् ॥
▶ पदपाठः (Word-by-word)
अ॒दः । यत् । दारु᳚ । प्लव᳚ते । सिन्धोः᳚ । पा॒रे । अ॒पु॒रु॒षम् ।
तत् । आ । र॒भ॒स्व॒ । दु॒र्ह॒नो॒ इति᳚ दुः॑हनो । तेन᳚ । ग॒च्छ॒ । प॒रः॒॑त॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदो विप्रकृष्टदेशे वर्तमानमपूरुषं निर्मात्रा पुरुषेण रहितं यद्दारुदारुमयं पुरुषोत्तमाख्यं देवताशरीरं सिन्धोः पारे समुद्रतीरे प्लवते जलस्योपरि वर्तते तद्दारु हे दुर्हणो दुःखेन हननीय केनापि हन्तुमशक्य हे स्तोतः आ रभस्व। आलम्बस्व। उपास्स्वेत्यर्थः। तेन दारुमयेण देवेनोपास्यमानेन परस्तरमतिशयेन तरणीयमुत्कृष्टं वैष्णवं लोकं गच्छ। अपर अह। हे दुर्हणो दुःखेन हननीये दुष्टहनुयुक्ते वा हे अलक्ष्मि सिन्धोः पारे समुद्रतीरप्रान्तेऽपूरुषं पुरुषैर्जनैर्वियुक्तमदोऽस्मत्तो दूरे देशे वर्तमानं यद्दारु दारुमयी नौः प्लवते तद्दार्वा रभस्व। परिगृहान। गृहीत्वा च तेन दारुणा परस्तरमतिशयेन तरणीयं ब्रह्मणस्पतिना प्रेरिता सती द्वीपान्तरं गच्छा॥३॥

10.155.4
यद्ध॒ प्राची॒रज᳚ग॒न्तोरो᳚ मण्डूरधाणिकीः ।
ह॒ता इन्द्र᳚स्य॒ शत्र᳚व॒ः सर्वे᳚ बुद्बु॒दया᳚शवः ॥
▶ पदपाठः (Word-by-word)
यत् । ह॒ । प्राचीः᳚ । अज᳚गन्त । उरः᳚ । म॒ण्डू॒र॒॑धा॒णि॒कीः॒ ।
ह॒ताः । इन्द्र᳚स्य । शत्र᳚वः । सर्वे᳚ । बु॒द्बु॒द॑या᳚शवः ॥
▶ सायणभाष्यम् (Sayana Commentary)

षष्ठेऽहनि तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे यद्ध प्राचीरित्येषा। सूत्रितं च। कपृन्नरो यद्ध प्राचीरजगन्तेति चैते। आ. ८-३। इति॥

हे मण्डूरधणिकीर्मण्डूरवत्कुत्सितशब्दकारिण्यो मन्दनस्य धनस्य धरयित्र्यो वालक्ष्म्य उरः। उर्वी हिंसार्थः। अस्मात्क्विपि राल्लोप इति वलोपः। ततो जसि रूपवेतत्। हिंसित्र्यो यूयं प्राचीः प्रकर्षेणांचन्त्यः प्रकृष्टगमनाः सत्यो यद्ध यदा खल्वजगन्त अगच्छत। गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः तप्तनप्तनथनाश्चेति तस्य तनबादेशः। अत एव ङित्वाभावदनुनासिकलोपो न भवति। तदानीमेव सर्व इन्द्रस्य शत्रवो बुद्बुदयाशवः। यान्ति गच्छन्तीति याः। अश्नुवत इत्याशवः। याश्च त आशवश्च याशवः। बुद्बुदवद्यतारो व्यापनशीलाश्च सन्तो हता नष्टा आसन्॥४॥

10.155.5 समानपद
परी॒मे गाम᳚नेषत॒ पर्य॒ग्निम᳚हृषत ।
दे॒वेष्व᳚क्रत॒ श्रव॒ः क इ॒मा{4} आ द᳚धर्षति ॥
▶ पदपाठः (Word-by-word)
परि᳚ । इ॒मे । गाम् । अ॒ने॒ष॒त॒ । परि᳚ । अ॒ग्निम् । अ॒हृ॒ष॒त॒ ।
दे॒वेषु᳚ । अ॒क्र॒त॒ । श्रवः᳚ । कः । इ॒मान् । आ । द॒ध॒र्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे विश्वे देवा गाम्। जात्यभिप्रायमेकवचनम्। पणिभिरपहृताः सर्वा देवगवीः पर्यनेषत। पर्यनयन्। यष्टॄनङ्गिरसः परिप्रापयन्। ततोऽग्निः च पर्यहृषत। परितो व्यहरन्। यागार्थम् तत्र तत्र गार्हपत्यादिरूपेण स्थापितवन्त इत्यर्थः। एवं कृत्वा देवेषु यष्टव्येष्विद्रादिषु श्रवोऽन्नमक्रत। अकृषत। कः शत्रुरसुरादिरिमान्विश्वान्देवाना दधर्षति। अभिभवितुं शक्नोति। न कश्चिदित्यर्थः॥५॥