श्रवणम्

10.155.5 समानपद
परी॒मे गाम᳚नेषत॒ पर्य॒ग्निम᳚हृषत ।
दे॒वेष्व᳚क्रत॒ श्रव॒ः क इ॒मा{4} आ द᳚धर्षति ॥
▶ पदपाठः (Word-by-word)
परि᳚ । इ॒मे । गाम् । अ॒ने॒ष॒त॒ । परि᳚ । अ॒ग्निम् । अ॒हृ॒ष॒त॒ ।
दे॒वेषु᳚ । अ॒क्र॒त॒ । श्रवः᳚ । कः । इ॒मान् । आ । द॒ध॒र्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे विश्वे देवा गाम्। जात्यभिप्रायमेकवचनम्। पणिभिरपहृताः सर्वा देवगवीः पर्यनेषत। पर्यनयन्। यष्टॄनङ्गिरसः परिप्रापयन्। ततोऽग्निः च पर्यहृषत। परितो व्यहरन्। यागार्थम् तत्र तत्र गार्हपत्यादिरूपेण स्थापितवन्त इत्यर्थः। एवं कृत्वा देवेषु यष्टव्येष्विद्रादिषु श्रवोऽन्नमक्रत। अकृषत। कः शत्रुरसुरादिरिमान्विश्वान्देवाना दधर्षति। अभिभवितुं शक्नोति। न कश्चिदित्यर्थः॥५॥