दशमं मण्डलम् - सूक्तम् 179

3 ऋचः

ऋषिः: शिबिरौशीनरः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 10.179 - सम्पूर्णम्

1 / 3
ऋक्: 10.179.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
10.179.1
उत्ति᳚ष्ठ॒ताव᳚ पश्य॒तेन्द्र᳚स्य भा॒गमृ॒त्विय᳚म् ।
यदि᳚ श्रा॒तो जु॒होत᳚न॒ यद्यश्रा᳚तो मम॒त्तन᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । ति॒ष्ठ॒त॒ । अव᳚ । प॒श्य॒त॒ । इन्द्र᳚स्य । भा॒गम् । ऋ॒त्विय᳚म् ।
यदि᳚ । श्रा॒तः । जु॒होत᳚न । यदि᳚ । अश्रा᳚तः । म॒म॒त्तन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत्तिष्ठतेति तृचमष्टाविंशम् सूक्तमैन्द्रम्। आद्यानुष्टुप् शिष्टे त्रिषुभौ। उशीनरपुत्रः शिविर्नाम राजा प्रथमाया ऋषिः। काशीनामधिपतिः प्रतर्दनो नाम द्वितीयायाः। रोहिदश्वपुत्रो वसुमना नाम तृतीयायाः । तथा चानुक्रान्तम्। उत्तिष्ठतैकर्चाः शिबिरौशीनरः काशिराजः प्रतर्दनो रौहिदश्वो वसुमना आद्यानुष्टुबिति। दधिघर्म आद्या वक्तव्या। सूत्रितम् च। होतर्वदस्वेत्युक्त उत्तिष्थताव पश्यतेत्याह॥ आ. ५-१३। इति॥

हे ऋत्विजः उत्तिष्थत। आसनादूर्ध्वमुत्तिष्थत। नोपविशत। ऊर्ध्वकर्मत्वादात्मनेपदाभावः। पा. १-३-२४। उत्थायर्त्वियमृतौ वसन्तादिकाले भवमिन्द्रस्य भागम् भजनीयं दधिघर्मं पच्यमानमव पश्यत। निरीक्षध्वम्। ऋतुशब्दाद्भवार्थे छन्दसि घस्। सिति चेति पदसंज्ञया भसंज्ञाया बाधादोर्गुणाभावः। भजेः कर्मनि घञन्तो भागशब्दः। कर्षात्वत इत्यन्तोदात्तद्वम्। यदि स भागः श्रातः पक्वः रथि जुहोतन। इन्द्रार्थमग्नौ जुहुत। तप्तनप्तनथनाश्चेति तस्य तनबादेशः। भीह्रीत्यादिना। पा. ६-१-१९२। पिति प्रत्ययात्पूर्वस्योदात्तत्वम्। यद्यश्रातोऽपक्वः तर्हि ममत्तन। माद्यत। यद्वा । स्तुतिभिर्मादयत। अत्र तेनैव सुत्रेण तनबादेशः॥१॥

10.179.2
श्रा॒तं ह॒विरो ष्वि᳚न्द्र॒ प्र या᳚हि ज॒गाम॒ सूरो॒ अध्व᳚नो॒ विम᳚ध्यम् ।
परि᳚ त्वासते नि॒धिभि॒ः सखा᳚यः कुल॒पा न व्रा॒जप᳚तिं॒ चर᳚न्तम् ॥
▶ पदपाठः (Word-by-word)
श्रा॒तम् । ह॒विः । ओ इति᳚ । सु । इ॒न्द्र॒ । प्र । या॒हि॒ । ज॒गाम᳚ । सूरः᳚ । अध्व᳚नः । वि॑म᳚ध्यम् ।
परि᳚ । त्वा॒ । आ॒स॒ते॒ । नि॒धि॑भिः᳚ । सखा᳚यः । कु॒ल॒॑पाः । न । व्रा॒ज॑प᳚तिम् । चर᳚न्तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्यैव दधिघर्मस्य श्रातं हविरित्येषानुवाक्या। सूत्रितं च। श्रातं हविरित्युक्तः श्रातं हविरित्यन्वाह। आ. ५-१३। इति॥

हे इन्द्र हविर्दधिघर्माख्यं त्वदीयं श्रातम्। पक्वम्। श्रीञ् पाक इत्यस्मान्निष्थायामपस्पृधेथामित्यादौ श्राभावो निपात्यते। ओ आ उ सु सुष्थु प्र याहि। प्रकर्षेण शीघ्रमागच्छ। सुरः सूर्योऽध्वनो गन्तव्यस्य मार्गस्य विमध्यं विकलमध्यमिषदूनं मध्यभागं जगाम। गतवान्। तव यागार्थं मध्याह्नो जात इत्यर्थः। सखायः समानख्याना ऋत्विजश्च निधिभिर्निहितैरभिन्यासादितैः सोमैः सार्धं त्वा त्वां पर्यासते। पर्युपासते। तत्र दृष्टान्तः। कुलपा न कुलस्य वंशस्य रक्षकाः पुत्रा यथा व्राजपतिम्। व्राजा गन्तव्या गृहाः। तेषां पतिं चरन्तं गच्छन्तमुपासते तथेत्यर्थः। व्रज गतौ। अस्मात्कर्मणि घञ्। अजिव्रज्योश्च। पा. ७-३-६०। इति कुत्वनिषेधः। कर्षात्वत इत्यन्तोदात्तत्वे पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम्॥२॥

10.179.3
श्रा॒तं म᳚न्य॒ ऊध᳚नि श्रा॒तम॒ग्नौ सुश्रा᳚तं मन्ये॒ तदृ॒तं नवी᳚यः ।
माध्यं᳚दिनस्य॒ सव᳚नस्य द॒ध्नः पिबे᳚न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥
▶ पदपाठः (Word-by-word)
श्रा॒तम् । म॒न्ये॒ । ऊध᳚नि । श्रा॒तम् । अ॒ग्नौ । सु॑श्रा᳚तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी᳚यः ।
माध्य᳚न्दिनस्य । सव᳚नस्य । द॒ध्नः । पिब᳚ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒॑कृ॒त् । जु॒षा॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्यैव दधिघर्मस्य श्रातं मन्य इत्येषा याज्या। सूत्र्यते हि। श्रातं मन्य ऊधनि श्रातमग्नाविति यजति। आ. ५-१३। इति॥

ऊधनि गोरूधस्येतद्धधिघर्ममाख्यं हविः पयोरूपेण श्रातं पक्वमिति मन्ये। जाने। पुनश्च दुग्धं पयोऽग्नावपि श्रातं पक्वम्। इदानीं दध्यवस्थमप्यग्नौ पच्यते। अतः सुश्रातं सुपक्वमिति मन्ये। जाने अत एतद्धविरृतं सत्यभूतं नवीयो नवतरं प्रत्यग्रतरं भवति। हे वज्रिन् वज्रवन् हे पुरुकृद्बहुकर्मक्रुदिन्द्र जुषाणः प्रीयमाणस्त्वं माध्यन्दिनस्य माध्यन्दिने भवस्य सवनस्य सोमस्य सम्बन्धिनो दध्नः। कर्मणि षष्ठी। दधिघर्माख्यं हविः पिब॥३॥