आ॒दि॒त्यैर्वा॒ यद्वसु᳚भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत᳚नवे वृषाय ॥
पदपाठः (Word-by-word)
आ॒दि॒त्यैः । वा॒ । यत् । वसु᳚॑भिः । म॒रुत्वा᳚न् । सः । प॒र्जन्य᳚म् । शम्॑त᳚नवे । वृ॒ष॒य॒ ॥
सायणभाष्यम् (Sayana Commentary)
बृहस्पते प्रतिति द्वादशर्चमष्टमं सूक्तं त्रैष्टुभम् बृहस्पतिमित्रादिसर्वदेवताकम्। ऋष्टिषेणपुत्रो देवापिर्नामर्षिः। तथा चानुक्रान्तम्। बृहस्पते द्वादशार्ष्टिषेणो देवापिर्वृष्टिकामो देवाम्स्तुष्टाव। गतह् सुक्तविनियोगः। अस्य सूक्तस्याख्यानं निरुक्तकारः प्रदर्शयति। देवापिश्चार्ष्तिशेनः शन्तनुश्च कौरव्यौ भ्रातरौ बभूवतुः। स शन्तनुः कनीयानभिषेचयाम्चक्ते देवापिस्तपः प्रतिपदे। ततः शन्तनो राज्ये द्वादशवर्षाणि देवो न ववर्ष। तमूचुर्ब्राह्मणा अधर्मस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्याभिशेचितम् तस्मात्ते देवो न वर्षतीति। स शन्तनुर्देवापिं शिशिक्श राज्येन। तमुवाच देवापिः पुरोहितस्तेऽसानि याजयानि च त्वेति। तस्यै तद्वर्षकामसूक्तम्। नि. २-१०। इति॥
तत्र ब्रह्मत्वे प्रवृत्तो बृहस्पतिमनुधावति। हे ब्रुहस्पते मे मम वृष्ट्यर्थं प्रति देवतां प्रतीहि। प्रतिगच्छ। यष्टव्या देवताः प्रतिगच्छ। यदि त्वं मित्रो वासि अथवा वरुणोऽसि यद्वा पूषासि अथवादित्यैर्द्वादशादित्यैररुणादिभिर्वसुभिर्वासकैरष्टवसुभिर्धरध्रुवादिभिः सह मरुत्वान्। मरुतो देवाः । तद्वानसि। स त्वं पर्जन्यं तर्पयितारं मेघं शन्तनवे राज्ञे व्रुषाय। वर्षय॥ छन्दसि शायजपीति व्यत्ययेन शपोऽपि शायजादेशः॥१॥