श्रवणम्

10.98.9 समानपद
त्वां पूर्व॒ ऋष᳚यो गी॒र्भिरा᳚य॒न्त्वाम᳚ध्व॒रेषु᳚ पुरुहूत॒ विश्वे᳚ ।
स॒हस्रा॒ण्यधि᳚रथान्य॒स्मे आ नो᳚ य॒ज्ञं रो᳚हिद॒श्वोप᳚ याहि ॥
▶ पदपाठः (Word-by-word)
त्वाम् । पूर्वे᳚ । ऋष᳚यः । गीः॒॑भिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु᳚ । पु॒रु॒॑हू॒त॒ । विश्वे᳚ ।
स॒हस्रा᳚णि । अधि᳚॑रथानि । अ॒स्मे इति᳚ । आ । नः॒ । य॒ज्ञम् । रो॒हि॒त्॑अ॒श्व॒ । उप᳚ । या॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वां पूर्व ऋषयो गीर्भि स्तुतिभिरायन्। आगच्छन्। तथा हे पुरुहूत बहुभिराहूताग्ने विश्वे सर्वेऽपिदानींतना यजमाना अध्वरेषु यज्ञेषु स्तुतिभिर्गच्छन्तीति शेषः। किञ्च सहस्राणि सहस्रसङ्ख्याकानि गोयूथान्यधिरथानि रथाधिकान्यस्मे अस्माकं शन्तनुना दक्षिणात्वेन सङ्कल्पितानि भवन्त्विति शेशः। हे रोहिदश्व नो यज्ञमुप याहि। उपागच्छा॥९॥