श्रवणम्

10.98.4 समानपद
आ नो᳚ द्र॒प्सा मधु᳚मन्तो विश॒न्त्विन्द्र᳚ दे॒ह्यधि᳚रथं स॒हस्र᳚म् ।
नि षी᳚द हो॒त्रमृ᳚तु॒था य᳚जस्व दे॒वान्दे᳚वापे ह॒विषा᳚ सपर्य ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । द्र॒प्साः । मधु᳚॑मन्तः । वि॒श॒न्तु॒ । इन्द्र᳚ । दे॒हि । अधि᳚॑रथम् । स॒हस्र᳚म् ।
नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒॑था । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒॑आ॒पे॒ । ह॒विषा᳚ । स॒प॒र्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोऽस्मान्द्रप्सा वृष्टिसंस्त्यया मधुमन्तो माधुर्योपेता आ विशन्तु। हे इन्द्र परमेश्वर बृहस्पते अधिरथं रथस्याध्युपरि वर्तमानं सहस्रं सहस्रसङ्ख्याकं धनं देहि। धेहि। यद्वा। रथमधिकं यस्य सहस्रस्य तादृशं गोसहस्रम्। हे देवापे नि षीद होत्रम्। आर्त्विज्ये निषीद। निशण्णश्च त्वमृतुथा काले काले यजस्व यष्टव्यान्देवान् स्तुत्या हविशा च सपर्य। परिचर॥४॥