श्रवणम्

10.98.7
यद्दे॒वापि॒ः शंत᳚नवे पु॒रोहि᳚तो हो॒त्राय᳚ वृ॒तः कृ॒पय॒न्नदी᳚धेत् ।
दे॒व॒श्रुतं᳚ वृष्टि॒वनिं॒ ररा᳚णो॒ बृह॒स्पति॒र्वाच᳚मस्मा अयच्छत् ॥
▶ पदपाठः (Word-by-word)
यत् । दे॒व॑आ᳚पिः । शम्॑त᳚नवे । पु॒रः॑हि᳚तः । हो॒त्राय᳚ । वृ॒तः । कृ॒पय᳚न् । अदी᳚धेत् ।
दे॒व॒॑श्रुत᳚म् । वृ॒ष्टि॒॑वनि᳚म् । ररा᳚णः । बृह॒स्पतिः᳚ । वाच᳚म् । अ॒स्मै॒ । अ॒य॒च्छ॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा देवापिरार्ष्टिषेणः शन्तनवे स्वभ्रात्रे कौरव्याय पुरोहितः सन् होत्राय होत्रार्थं व्रुतः सन् देवश्रुतम्। देवा एनं शृण्वन्तीति देवश्रुत्। तं तथा वृष्टिवनिं व्रुष्टियाचिनं ब्रुहस्पतिमदीधेत् अन्वध्यायत् स च रराणो रममाणो बृहस्पतिर्देवोऽस्मै देवापये वाचमयच्छत्॥७॥