श्रवणम्

10.98.2 समानपद
आ दे॒वो दू॒तो अ᳚जि॒रश्चि᳚कि॒त्वान्त्वद्दे᳚वापे अ॒भि माम᳚गच्छत् ।
प्र॒ती॒ची॒नः प्रति॒ मामा व᳚वृत्स्व॒ दधा᳚मि ते द्यु॒मतीं॒ वाच᳚मा॒सन् ॥
▶ पदपाठः (Word-by-word)
आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒॑आ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् ।
प्र॒ती॒ची॒नः । प्रति᳚ । माम् । आ । व॒वृ॒त्स्व॒ । दधा᳚मि । ते॒ । द्यु॒॑मती᳚म् । वाच᳚म् । आ॒सन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देव कश्चिद्दुतोऽजिरो गमनशीलश्चिकित्वांश्चेतनावान् हे देवापे त्वत् त्वत्तः सकाशात्त्वया प्रेषितः सन् मामभ्यागच्छत्। अभ्यागच्छतु। हे बृहस्पते प्रतीचीनोऽस्मदभिमुखो मां प्रत्या ववृत्स्व। मां प्रत्यागच्छ। ते तुभ्यं त्वदर्थं द्युमतीं दीप्तियुक्तां वाचं स्तुतिरूपं दधाम्यासन्नास्येऽस्मदीये॥२॥