सोम᳚स्येव मौजव॒तस्य᳚ भ॒क्षो वि॒भीद᳚को॒ जागृ᳚वि॒र्मह्य᳚मच्छान् ॥
पदपाठः (Word-by-word)
सोम᳚स्य॑इव । मौ॒ज॒॑व॒तस्य᳚ । भ॒क्षः । वि॒॑भीद᳚कः । जागृ᳚विः । मह्य᳚म् । अ॒च्छा॒न् ॥
सायणभाष्यम् (Sayana Commentary)
बृहतोमहतोविभीतकस्य फलत्वेन संबंधिनः प्रवातेजाः प्रवणे देशे जाताः इरिणे आ- स्फारे वर्वृतानाः प्रवर्तमानाः प्रावेपाः प्रवेपिनः कंपनशीलाः अक्षाः मा मां मादयंति हर्ष यंति । किंच जागृविः जयपराजयोर्हर्षशोकाभ्यां कितवानां जागरणस्य कर्ता विभीदकोबि- भीतकविकाराक्षोमह्यं मां अच्छान् अचच्छदत् अत्यर्थं मादयति । तत्र दृष्टांतः—सोमस्येव यथा सोमस्य मौजवति पर्वते जातोमौजवतस्तस्य तत्र ह्युत्तमः सोमोजायते । भक्षः पानं यजमानान् देवांश्च मादयति तद्वदित्यर्थः । तथाच यास्कः—प्रवेपिणोमामहतोबिभीत् कस्य फलानिमादयंति प्रवातेजाः प्रवणेजा इरिणे वर्तमानाइरिणद्ं निरृर्णं ऋणातेरपार्णं भवत्य परताअस्मादोषधयइति वासोमस्येव मौजवतस्य भक्षोमौजवतोमूजवति जातोमुजवान् पर्व तोमुंजवान् मुंजोविमुंचतीषीकामिषीकैषतेर्गतिकर्मणइयमपीतरेषीकैतस्मादेवबिभीतकोबिभेद नात् जागृविर्जा गरणात् मह्यमवच्छददिति ॥ १ ॥