अ॒क्षास॒ इद᳚ङ्कु॒शिनो᳚ नितो॒दिनो᳚ नि॒कृत्वा᳚न॒स्तप᳚नास्तापयि॒ष्णवः᳚ ।
कु॒मा॒रदे᳚ष्णा॒ जय᳚तः पुन॒र्हणो॒ मध्वा॒ सम्पृ᳚क्ताः कित॒वस्य᳚ ब॒र्हणा᳚ ॥
कु॒मा॒रदे᳚ष्णा॒ जय᳚तः पुन॒र्हणो॒ मध्वा॒ सम्पृ᳚क्ताः कित॒वस्य᳚ ब॒र्हणा᳚ ॥
पदपाठः (Word-by-word)
अ॒क्षासः᳚ । इत् । अ॒ङ्कु॒शिनः᳚ । नि॒॑तो॒दिनः᳚ । नि॒॑कृत्वा᳚नः । तप᳚नाः । ता॒प॒यि॒ष्णवः᳚ ।
कु॒मा॒र॑दे᳚ष्णाः । जय᳚तः । पु॒नः॒॑हनः᳚ । मध्वा᳚ । सम्॑पृ᳚क्ताः । कि॒त॒वस्य᳚ । ब॒र्हणा᳚ ॥
कु॒मा॒र॑दे᳚ष्णाः । जय᳚तः । पु॒नः॒॑हनः᳚ । मध्वा᳚ । सम्॑पृ᳚क्ताः । कि॒त॒वस्य᳚ । ब॒र्हणा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अक्षासइत् अक्षाएव अंकुशिनोंकुशवंतोनितोदिनोनितोदितवंतश्च पुरुषे च कृषौ प्रवर्त माने निकृत्वानः पराजये निकर्तनशीलाः छेत्तारोवा तपनाः पराजये कित्वस्य संतापकाः तापयिष्णवः सर्वस्वहारकत्वेन कुटुंबस्य संतापनशीलाश्च भवंति । किंच जयतः कितवस्य कुमारदेष्णाधनदानेन धन्यतां लंभयंतः कुमाराणां दातारोभवंति । अपिच मध्वा मधुना संपृक्ताः प्रतिकितवेन बर्हणा परिवृद्धेन सर्वस्वहरणेन कितवस्य पुनर्हणः पुनर्हंतारोभवंति ॥ ७ ॥