यदा॒दीध्ये॒ न द᳚विषाण्येभिः परा॒यद्भ्यो॑व᳚ हीये॒ सखि᳚भ्यः ।
न्यु᳚प्ताश्च ब॒भ्रवो॒ वाच॒मक्र᳚त{4}॒ एमीदे᳚षां निष्कृ॒तं जा॒रिणी᳚व ॥
न्यु᳚प्ताश्च ब॒भ्रवो॒ वाच॒मक्र᳚त{4}॒ एमीदे᳚षां निष्कृ॒तं जा॒रिणी᳚व ॥
पदपाठः (Word-by-word)
यत् । आ॒॑दीध्ये᳚ । न । द॒वि॒षा॒णि॒ । ए॒भिः॒ । प॒रा॒यत्॑भ्यः᳚ । अव᳚ । हीये᳚ । सखि᳚॑भ्यः ।
नि॑उ᳚प्ताः । च॒ । ब॒भ्रवः᳚ । वाच᳚म् । अक्र᳚त । एमि᳚ । इत् । ए॒षा॒म् । निः॒॑कृ॒तम् । जा॒रिणी᳚॑इव ॥
नि॑उ᳚प्ताः । च॒ । ब॒भ्रवः᳚ । वाच᳚म् । अक्र᳚त । एमि᳚ । इत् । ए॒षा॒म् । निः॒॑कृ॒तम् । जा॒रिणी᳚॑इव ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदाहमादीध्ये ध्यायामि तदानीं एभिरक्षैः न दविषाणि न दविषाणि न दूषये न परितपामि यद्वा न दविषाणि न देविष्याणीत्यर्थः । न द्वेषये परायद्भ्यः स्वयमेव पराग- च्छद्भ्यः सखिभ्यः सखिभूतेभ्यः कितवेभ्योवहीये अवहितोभवामि नाहं प्रथममक्षान् विसृ जामीति । किंच बभ्रवोबभ्रुवर्णाअक्षाः न्युप्ताः कितवैरवक्षिप्ताः संतोवाचमक्रत शब्दं कुर्वंति तदा संकल्पं परित्यज्य अक्षव्यसनेनाभिभूयमानोहमेषामक्षाणां निष्कृतं स्थानं जारिणीव यथा कामव्यसनेनाभिभूयमाना स्वैरिणी संकेतस्थानं याति तद्वदेमीत् गच्छाम्येव ॥ ५ ॥