श्रवणम्

10.34.12
यो वः᳚ सेना॒नीर्म᳚ह॒तो ग॒णस्य॒ राजा॒ व्रात᳚स्य प्रथ॒मो ब॒भूव᳚ ।
तस्मै᳚ कृणोमि॒ न धना᳚ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व᳚दामि ॥
▶ पदपाठः (Word-by-word)
यः । वः॒ । से॒ना॒॑नीः । म॒ह॒तः । ग॒णस्य᳚ । राजा᳚ । व्रात᳚स्य । प्र॒थ॒मः । ब॒भूव᳚ ।
तस्मै᳚ । कृ॒णो॒मि॒ । न । धना᳚ । रु॒ण॒ध्मि॒ । दश᳚ । अ॒हम् । प्राचीः᳚ । तत् । ऋ॒तम् । व॒दा॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअक्षावोयुष्माकं महतोगणस्य संघस्य योक्षः सेनानीर्नेता बभूब भवति व्रातस्य च गणव्रातयोरल्पोभेदः राजेश्वरः प्रथमोमुख्योबभूव तस्माअक्षाय कृणोम्यहं अंजलिं करोमि अतःपरं धना धनान्यक्षार्थं अहं न रुणध्मि न संपादयामीत्यर्थः । एतदेव दर्शयति—अहं दशसंख्याकाअंगुलीः प्राचीः प्राङ्मुखीः करोमि तदेतदहं ऋतं सत्यमेव वदामि नानृतं ब्रवीमित्यर्थः ॥ १२ ॥