त्रि॒प॒ञ्चा॒शः क्री᳚ळति॒ व्रात᳚ एषां दे॒व इ᳚व सवि॒ता स॒त्यध᳚र्मा ।
उ॒ग्रस्य᳚ चिन्म॒न्यवे॒ ना न᳚मन्ते॒ राजा᳚ चिदेभ्यो॒ नम॒ इत्कृ᳚णोति ॥
उ॒ग्रस्य᳚ चिन्म॒न्यवे॒ ना न᳚मन्ते॒ राजा᳚ चिदेभ्यो॒ नम॒ इत्कृ᳚णोति ॥
पदपाठः (Word-by-word)
त्रि॒॑प॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः᳚ । ए॒षा॒म् । दे॒वः॑इ᳚व । स॒वि॒ता । स॒त्य॑ध᳚र्मा ।
उ॒ग्रस्य᳚ । चि॒त् । म॒न्यवे᳚ । न । न॒म॒न्ते॒ । राजा᳚ । चि॒त् । ए॒भ्यः॒ । नमः᳚ । इत् । कृ॒णो॒ति॒ ॥
उ॒ग्रस्य᳚ । चि॒त् । म॒न्यवे᳚ । न । न॒म॒न्ते॒ । राजा᳚ । चि॒त् । ए॒भ्यः॒ । नमः᳚ । इत् । कृ॒णो॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
एषामक्षाणां त्रिपंचाशः त्र्यधिकपंचाशत्संख्याकोव्रातः संघः क्रीळति अस्फारे विहरति अक्षिकाः प्रायेण तावद्भिरक्षैर्दीव्यंति हि । तत्रदृष्टांतः—सत्यधर्मा सविता सर्वस्य जगतः प्रेरकः सूर्योदेवइव यथा सविता देवोजगति विहरति तद्वदक्षाणां संघआस्फारे विहरतीत्य- र्थः । किंच उग्रस्य चित् कूरस्यापि मन्यवे क्रोधाय एते अक्षाः न नमंते न प्रह्वीभवंति न वशे वर्तंते तं नमयंतीत्यर्थः । राजा चित् जगतईश्वरोपि एभ्योनमइत् नमस्कारमेव देवनवेलायां कृणोति नावज्ञां करोतीत्यर्थः ॥ ८ ॥