स्त्रियं᳚ दृ॒ष्ट्वाय᳚ कित॒वं त᳚तापा॒न्येषां᳚ जा॒यां सुकृ᳚तं च॒ योनि᳚म् ।
पू॒र्वा॒ह्णे अश्वा᳚न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते᳚ वृष॒लः प᳚पाद ॥
पू॒र्वा॒ह्णे अश्वा᳚न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते᳚ वृष॒लः प᳚पाद ॥
पदपाठः (Word-by-word)
स्त्रिय᳚म् । दृ॒ष्ट्वाय᳚ । कि॒त॒वम् । त॒ता॒प॒ । अ॒न्येषा᳚म् । जा॒याम् । सु॑कृ᳚तम् । च॒ । योनि᳚म् ।
पू॒र्वा॒ह्णे । अश्वा᳚न् । यु॒यु॒जे । हि । ब॒भ्रून् । सः । अ॒ग्नेः । अन्ते᳚ । वृ॒ष॒लः । प॒पा॒द॒ ॥
पू॒र्वा॒ह्णे । अश्वा᳚न् । यु॒यु॒जे । हि । ब॒भ्रून् । सः । अ॒ग्नेः । अन्ते᳚ । वृ॒ष॒लः । प॒पा॒द॒ ॥
सायणभाष्यम् (Sayana Commentary)
कितवं कितवोविभक्तिव्यत्ययः अन्येषां स्वव्यतिरिक्तानां पुरुषाणां जायां जायाभूतां स्त्रियं नारीं सुखेन वर्तमानां सुकृतं सुष्ठु कृतं योनिं गृहं दृष्ट्वा मज्जाया दुःखिता गृहं चासंस्कृतमिति ज्ञात्वा तताप तप्यते पुनः पूर्वाह्णे प्रातःकाले बभ्रून् बभ्रूवर्णानश्वान् व्या- पकानक्षान् युयुजे युनक्ति पुनश्च वृषलोवृषलकर्मा सकितवोरात्रावग्नेरंते समीपे पपाद शीतार्तः सन् शॆते ॥ ११ ॥