श्रवणम्

10.34.6
स॒भामे᳚ति कित॒वः पृ॒च्छमा᳚नो जे॒ष्यामीति᳚ त॒न्वा॒३॒᳚ शूशु᳚जानः ।
अ॒क्षासो᳚ अस्य॒ वि ति᳚रन्ति॒ कामं᳚ प्रति॒दीव्ने॒ दध᳚त॒ आ कृ॒तानि᳚ ॥
▶ पदपाठः (Word-by-word)
स॒भाम् । ए॒ति॒ । कि॒त॒वः । पृ॒च्छमा᳚नः । जे॒ष्यामि᳚ । इति᳚ । त॒न्वा᳚ । शूशु᳚जानः ।
अ॒क्षासः᳚ । अ॒स्य॒ । वि । ति॒र॒न्ति॒ । काम᳚म् । प्र॒ति॒॑दीव्ने᳚ । दध᳚तः । आ । कृ॒तानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तन्वा शरीरेण शूशुजानः शोशुचानोदीप्यमानः कितवः कोत्रास्ति धनिकः तं जेष्यामी- ति पृच्छमानः पृच्छन् सभां कितवसंबंधिनीमेति गच्छति तत्र प्रतिदीन्ने प्रतिदेवित्रे कित वाय कृतानि देवनोपयुक्तानि कर्माण्यादधतोजयार्थमाभिमुख्येन मर्यादया वा दधतोस्य कितवस्य काममिच्छामक्षासोक्षाः वितिरंति वर्धयंति ॥ ६ ॥