दशमं मण्डलम् - सूक्तम् 46

10 ऋचः

ऋषिः: वत्सप्रिः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.46 - सम्पूर्णम्

1 / 10
ऋक्: 10.46.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
10.46.1
प्र होता᳚ जा॒तो म॒हान्न᳚भो॒विन्नृ॒षद्वा᳚ सीदद॒पामु॒पस्थे᳚ ।
दधि॒र्यो धायि॒ स ते॒ वयां᳚सि य॒न्ता वसू᳚नि विध॒ते त᳚नू॒पाः ॥
▶ पदपाठः (Word-by-word)
प्र । होता᳚ । जा॒तः । म॒हान् । न॒भः॒॑वित् । नृ॒॑सद्वा᳚ । सी॒द॒त् । अ॒पाम् । उ॒प॑स्थे᳚ ।
दधिः᳚ । यः । धायि᳚ । सः । ते॒ । वयां᳚सि । य॒न्ता । वसू᳚नि । वि॒ध॒ते । त॒नू॒॑पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अच्छम इति चतुर्थेऽनुवाकेऽष्टादश सूक्तानि। तत्र प्र होतेति दशर्चं चतुर्थं सूक्तम्। प्र होता दशेत्यनुक्रान्तम्। अनुवर्तमानाद्भालन्दनस्य वत्सप्रेरार्षम्। अनादेशपरिभाषया त्रैष्तुभम्। आग्नेयम्। पूर्वसूक्तेन सहोक्तो विनियोगः॥

यो नृषद्वाग्निरपाम् । अन्तरिक्षनामैतत्। अन्तरिक्षस्योपस्थ उत्सङ्गे वैद्युतरूपेण निषण्णोऽभुत्। स इदानीं होता यजमानानां होमनिष्पादको जातः प्रादुर्भूतो महान् गुणैः पूज्यो नभोविदन्तरिक्षस्य वेत्ता। यतस्तत्रोत्पन्नः अतस्तस्य ज्ञाता। न्रुषद्वा नृषु सीदन्। सदेः क्वनिप् कृत्स्वरः। प्र सीदत्। वेद्यां प्रसीदति। अपामुपस्थे महिषा आगृभ्णत। ऋग्वे ८-४-१। इति हि निगमः। यद्वा। अपाम् । अपसामित्यर्थः। कर्मणामुपस्थ उपस्थाने समीपे वेद्यामुक्तलक्षणः सन्। अथवा। अपामुदकानामुपस्थे मध्ये योऽग्नेर्हविर्वोढुमसहमानो निगूढः स देवैः पुनः प्रार्थित उक्तविधः सन् वेद्यां प्रसीदति। योऽग्निर्दधिर्धाता यज्ञस्य धारकः सन् धायि वेद्यां निहितोऽभुत् सोऽग्निर्हे वत्सप्रे विधते परिचरते ते तुभ्यं वयांस्यन्नानि वसूनि धनानि च यन्ता। नियमिता भवतु। किञ्च तनूपास्ते तन्वः पाता च भवत्विति शेषः॥१॥

10.46.2
इ॒मं वि॒धन्तो᳚ अ॒पां स॒धस्थे᳚ प॒शुं न न॒ष्टं प॒दैरनु᳚ ग्मन् ।
गुहा॒ चत᳚न्तमु॒शिजो॒ नमो᳚भिरि॒च्छन्तो॒ धीरा॒ भृग᳚वो॑विन्दन् ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । वि॒धन्तः᳚ । अ॒पाम् । स॒ध॑स्थे᳚ । प॒शुम् । न । न॒ष्टम् । प॒दैः । अनु᳚ । ग्म॒न् ।
गुहा᳚ । चत᳚न्तम् । उ॒शिजः᳚ । नमः᳚॑भिः । इ॒च्छन्तः᳚ । धीराः᳚ । भृग᳚वः । अ॒वि॒न्द॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इममग्निमपामुदकानां सधस्थे सहस्थाने मध्ये निगूधं विधन्तः परिचरन्तः उपचारं वदन्तो ऋषयश्च पदैः पलायनमार्गव्यञ्जकैर्नष्टं चोरादिभिरपहृतम् पशुमिवानुग्मन्। अनुजग्मुः। गमेर्लुजि मन्त्रे घसेति च्लेर्लुक्। तेषु मध्ये गुहा गुहायां चतन्तम्। चतिर्गतिकर्मा। अप्सुविलीनमित्यर्थः। उशिजः कामयमाना नमोभिर्नमस्कारैः स्तोत्रैर्वेच्छन्त आत्मन इच्छन्तो धीरा धीमन्तो भृगवोऽविन्दन्। लब्धवन्तः। अग्नेर्हविर्वोढुमसहमानस्य पलाय्याप्सु प्रवेशो देवानामन्वेशनं चाग्नेस्त्रयो ज्यायांस इत्यर्त्र स्पष्टमाम्नातम्। तै. स. २-६-६। अन्वेशनं कुर्वतां मध्ये भृगूणामग्निलाभ इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगव इत्यत्रोक्तम्। ऋ. २-४-२॥२॥

10.46.3
इ॒मं त्रि॒तो भूर्य᳚विन्ददि॒च्छन्वै᳚भूव॒सो मू॒र्धन्यघ्न्या᳚याः ।
स शेवृ᳚धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा᳚ भवति रोच॒नस्य᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । त्रि॒तः । भूरि᳚ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भु॒॑व॒सः । मू॒र्धनि᳚ । अघ्न्या᳚याः ।
सः । शे॑वृ᳚धः । जा॒तः । आ । ह॒र्म्येषु᳚ । नाभिः᳚ । युवा᳚ । भ॒व॒ति॒ । रो॒च॒नस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमं भूरि महान्तमग्निं वैभूवसो विभूवसः पुत्रस्त्रित ऋषिरिच्छल्लब्धुमिच्छन्नघ्न्यायाः। अघ्न्या भूमिः। तस्या भूम्या मूर्धनि। भूम्यामित्यर्थः। तत्वाविन्दत्। लब्धवान्। सोऽग्निः शेवृधः सुखस्य वर्धयिता सन् हर्म्येषु यजमानगृहेष्वा सर्व्तो जातः प्रादुर्भूतः तद्रोचनस्य रोचमानस्य स्वर्गाख्यस्य फलस्योक्तलक्शणस्य यज्ञस्यादित्यस्य वा नाभिर्बन्धको भवति॥३॥

10.46.4
म॒न्द्रं होता᳚रमु॒शिजो॒ नमो᳚भि॒ः प्राञ्चं᳚ य॒ज्ञं ने॒तार᳚मध्व॒राणा᳚म् ।
वि॒शाम᳚कृण्वन्नर॒तिं पा᳚व॒कं ह᳚व्य॒वाहं॒ दध᳚तो॒ मानु᳚षेषु ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रम् । होता᳚रम् । उ॒शिजः᳚ । नमः᳚॑भिः । प्राञ्च᳚म् । य॒ज्ञम् । ने॒तार᳚म् । अ॒ध्व॒राणा᳚म् ।
वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒॑वाह᳚म् । दध᳚तः । मानु᳚षेषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिजः कामयमाना ऋत्विजो मन्द्रं मादनीयं होतारं होमनिष्पादकं प्राञ्चं गार्हपत्यादाहवनीयं प्रति प्रागञ्चन्तं यज्ञं यजनीयमध्वराणां यागानां नेतारं प्रापयितारमरतिं गन्तारं सर्वदा यागगृहे वर्तमानं पावकं शोधकं हव्यवाहं हविषो वोढारं मानुषेषु मनुष्येषु मध्ये दधतो दधाना ऋत्विजो विशां यजमानानामर्थायि। यद्वा। विशां प्रजानामरतिमर्यम् । स्वामिनमित्यर्थः। नमोभिर्नमस्करैः। स्तुतिभिरित्यर्थः। अकृण्वन्। अकुर्वन्। सुप्रीतं कृतवन्तः॥४॥

10.46.5 समानपद
प्र भू॒र्जय᳚न्तं म॒हां वि᳚पो॒धां मू॒रा अमू᳚रं पु॒रां द॒र्माण᳚म् ।
नय᳚न्तो॒ गर्भं᳚ व॒नां धियं᳚ धु॒र्हिरि᳚श्मश्रुं॒ नार्वा᳚णं॒ धन᳚र्चम् ॥
▶ पदपाठः (Word-by-word)
प्र । भूः॒ । जय᳚न्तम् । म॒हान् । वि॒पः॒॑धाम् । मू॒राः । अमू᳚रम् । पु॒राम् । द॒र्माण᳚म् ।
नय᳚न्तः । गर्भ᳚म् । व॒नाम् । धिय᳚म् । धुः॒ । हिरि᳚॑श्मश्रुम् । न । अर्वा᳚णम् । धन᳚॑अर्चम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः त्वं जयन्तं जेतव्याञ्शत्रूञ्जयन्तं महां महान्तम् विपिधां मेधाविनो धर्तारमग्निं प्र भूः। प्रभव। समर्थो भव। स्तोतुमिति शेषः। उद्गीथस्तु भूर्जयन्तमित्येकपदं मत्वा भूरादील्लोकाञ्जयन्तमिति व्याचकार। न केवलं त्वमेक एव अपि तु मूरा मूढाः सर्वेऽपि पुरुषा अमूरममूढं पुरां दर्माणं दारकम् । औणादिको मनिः। प्रत्ययस्वरः। गर्भमरण्य़ोर्गर्भभूतं वनां वननीयम् । वा छन्दसि। पा. ६-१-१-६-१-७। इति वचनादमि पूर्वाभावः। हिरिश्मश्रुं नार्वाणम् । नेत्युपमार्थीयः। श्मश्रुशब्दोऽत्र रोमसामान्यवचनः। हरितरोमोपेतमर्वाणमरणशीलमश्वमिव। उक्तलक्षणाश्ववद्धरितकेशस्थानीयज्वालोपेतं धनर्चं प्रीणनस्तुतिम्। शकन्ध्वादित्वात्पररूपत्वम्। ईदृशमग्निं नयन्तो हविर्भिः प्रापयन्तो धियं कर्म स्तोत्रं वा धुः। प्रापयन्ति। गातिस्थेति सिचो लुक्॥५॥

10.46.6 समानपद
नि प॒स्त्या᳚सु त्रि॒तः स्त᳚भू॒यन्परि᳚वीतो॒ योनौ᳚ सीदद॒न्तः ।
अतः᳚ सं॒गृभ्या᳚ वि॒शां दमू᳚ना॒ विध᳚र्मणाय॒न्त्रैरी᳚यते॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
नि । प॒स्त्या᳚सु । त्रि॒तः । स्त॒भु॒॑यन् । परि᳚॑वीतः । योनौ᳚ । सी॒द॒त् । अ॒न्तरिति᳚ ।
अतः᳚ । स॒म्॑गृभ्य᳚ । वि॒शाम् । दमू᳚नाः । वि॑ध᳚र्मणा । अ॒य॒न्त्रैः । ई॒य॒ते॒ । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रितस्त्रिषु स्थानिषु गार्हपत्यादिषु तायमानः स्तभूयन् यजमानगृहान् स्तम्भयितुमिच्छन्। इच्छार्थे क्यचि तदन्ताच्छतरि रूपम् । परिवीतः परितो ज्वालाभिव्याप्तः सन् पस्त्यासु यागगृहेषु योनावन्तः स्वीये वेद्यात्मके स्थाने निषीदत्। निशीदति। अतोऽस्मात्स्थानाद्विशां प्रजानां सम्बन्धीनि हवींषि संगृभ्य संगृह्येन्द्रादीनुद्दिश्य व्रत्तानि चरुपुरोडाशादीनि स्वीकृत्य दमूना देवेभ्यो दानमना यजमानाय वाभिमतप्रदानमना विधर्मणा तासां विविधेन कर्मणा निमित्तेन दानमना देवेभ्यो दानपक्षे विविधगमनरूपेण कर्मणायन्त्रैः शत्रूणां नियमनैः सह नृन्देवानीयते। गच्छति॥६॥

10.46.7 समानपद
अ॒स्याजरा᳚सो द॒माम॒रित्रा᳚ अ॒र्चद्धू᳚मासो अ॒ग्नयः᳚ पाव॒काः ।
श्वि॒ती॒चयः᳚ श्वा॒त्रासो᳚ भुर॒ण्यवो᳚ वन॒र्षदो᳚ वा॒यवो॒ न सोमा᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । अ॒जरा᳚सः । द॒माम् । अ॒रित्राः᳚ । अ॒र्चत्॑धू᳚मासः । अ॒ग्नयः᳚ । पा॒व॒काः ।
श्वि॒ती॒चयः᳚ । श्वा॒त्रासः᳚ । भु॒र॒ण्यवः᳚ । व॒न॒॑सदः᳚ । वा॒यवः᳚ । न । सोमाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र बहुत्वेन स्तूयते। अस्य यजमानस्य सम्बन्धिनोऽजरासो जरारहिता डमां दमनीयानां रक्षः प्रभृतीनाम् । दमेः क्विपि सावेकाच इति विभक्तेरुदात्तत्वम् । तेषामरित्रास्तारका अर्चद्धूमासोऽर्चन्तोऽर्चनीया धूमा धूमोपलक्शिता ज्वाला वा एषां ते तथोक्ताः पावकाः शोधकाः श्वितीचयः श्वेतिमानमञ्चन्तः। श्वितिः श्वेतः। औणादिक इः। श्वात्रासः। क्षिप्रनामैतत्। क्षिप्रधर्मका भुरण्यवो भरणशीला वनर्षदो वनेषु सीदन्तः। संहितायां छान्दसं रुत्वम् । वायवो न सोमा गन्तारः सोमा इव। हविर्दातुर्यजमानस्य शिघ्रा भवन्तीति॥७॥

10.46.8
प्र जि॒ह्वया᳚ भरते॒ वेपो᳚ अ॒ग्निः प्र व॒युना᳚नि॒ चेत᳚सा पृथि॒व्याः ।
तमा॒यवः᳚ शु॒चय᳚न्तं पाव॒कं म॒न्द्रं होता᳚रं दधिरे॒ यजि᳚ष्ठम् ॥
▶ पदपाठः (Word-by-word)
प्र । जि॒ह्वया᳚ । भ॒र॒ते॒ । वेपः᳚ । अ॒ग्निः । प्र । व॒युना᳚नि । चेत᳚सा । पृ॒थि॒व्याः ।
तम् । आ॒यवः᳚ । शु॒चय᳚न्तम् । पा॒व॒कम् । म॒न्द्रम् । होता᳚रम् । द॒धि॒रे॒ । यजि᳚ष्ठम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्जिह्वया ज्वालया वेपः। कर्मनामैतत्। कर्म प्र भरते तथा योऽग्निर्वयुनानि प्रज्ञानानि स्तोत्राणि पृथिव्या रक्षणाय चेतसानुग्रहयुक्तेन मनसा प्र भरते तमग्निमायवो गन्तारो मनुष्याः शुचयन्तं दीप्यमानं पावकं शोधकं मन्द्रं स्तुत्यं होतारमाह्वातारं होमनिष्पादकं वा यजिष्ठमतिशयेन यष्टव्यं यष्टृतमं वा दधिरे। धारयन्ति॥८॥

10.46.9
द्यावा॒ यम॒ग्निं पृ᳚थि॒वी जनि᳚ष्टा॒माप॒स्त्वष्टा॒ भृग᳚वो॒ यं सहो᳚भिः ।
ई॒ळेन्यं᳚ प्रथ॒मं मा᳚त॒रिश्वा᳚ दे॒वास्त᳚तक्षु॒र्मन᳚वे॒ यज᳚त्रम् ॥
▶ पदपाठः (Word-by-word)
द्यावा᳚ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति᳚ । जनि᳚ष्टाम् । आपः᳚ । त्वष्टा᳚ । भृग᳚वः । यम् । सहः᳚॑भिः ।
ई॒ळेन्य᳚म् । प्र॒थ॒मम् । मा॒त॒रिश्वा᳚ । दे॒वाः । त॒त॒क्षुः॒ । मन᳚वे । यज᳚त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमग्निं द्यावापृथिवी व्यावापृधिव्यौ जनिष्टां अजनीषाताम् । जनेर्लुङ् व्यत्ययेन परस्मै पदम् । अपश्च यमुदपादयन् वैद्युतरूपेण त्वष्टा च यमजनयत् भृगवश्च यं सहोभिर्बलैः स्तोत्रादिसाधनैर्लब्धवन्तः। भृगवोऽविन्दन्निति ह्युक्तम् । ऋ. १०-४६-२। ईळेन्यं स्तुत्यं यं प्रथमं मातरिश्वा वायुरुपदादयत् अन्ये देवाश्च मनवे राज्ञे मनोरर्थाय यजत्रं यष्टव्यमग्निं ततक्षुः। निष्पादितवन्तः॥९॥

10.46.10
यं त्वा᳚ दे॒वा द᳚धि॒रे ह᳚व्य॒वाहं᳚ पुरु॒स्पृहो॒ मानु᳚षासो॒ यज᳚त्रम् ।
स याम᳚न्नग्ने स्तुव॒ते वयो᳚ धा॒ः प्र दे᳚व॒यन्य॒शस॒ः सं हि पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒॑वाह᳚म् । पु॒रु॒॑स्पृहः᳚ । मानु᳚षासः । यज᳚त्रम् ।
सः । याम᳚न् । अ॒ग्ने॒ । स्तु॒व॒ते । वयः᳚ । धाः॒ । प्र । दे॒व॒॑यन् । य॒शसः᳚ । सम् । हि । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने हव्यवाहं यं त्वा त्वां देवा दधिरे धारितवन्तः मानुषासो मनुष्याश्च पुरुस्पृहो बहुकामान् स्पृहयन्तो यजत्रं यष्टव्यं दधिरे धारितवन्तः हे अग्ने स त्वं यमन् यामिनि यज्ञे स्तुवते मह्यं वयोऽन्नंधा। देहि। हे अग्ने त्वत्त्तो देवयन् देवकामो यजमानः पूर्वीर्बह्वीर्बहूनि यशसो यशांसि सं हीत्युपसर्गश्रुतेर्योग्यक्रियाध्याहारः। सम्प्राप्नोति खलु॥१०॥