दशमं मण्डलम् - सूक्तम् 141

6 ऋचः

ऋषिः: अग्निस्तापसः देवता: विश्वेदेवाः छन्दः: अनुष्टुप्

सूक्तम् 10.141 - सम्पूर्णम्

1 / 6
ऋक्: 10.141.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.141.1 समानपद
अग्ने॒ अच्छा᳚ वदे॒ह नः᳚ प्र॒त्यङ्न᳚ः सु॒मना᳚ भव ।
प्र नो᳚ यच्छ विशस्पते धन॒दा अ᳚सि न॒स्त्वम् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । अच्छ᳚ । व॒द॒ । इ॒ह । नः॒ । प्र॒त्यङ् । नः॒ । सु॒॑मनाः᳚ । भ॒व॒ ।
प्र । नः॒ । य॒च्छ॒ । वि॒शः॒ । प॒ते॒ । ध॒न॒॑दाः । अ॒सि॒ । नः॒ । त्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्न इति षडृचं त्रयोदशं सूक्तम्। तापसगुनविशिष्टस्याग्नेरार्षं वैश्वदेवमानुष्टुभम्। तथा चानुक्रान्तम्। अग्नेऽच्छाग्निस्तापसो वैश्वदेवमानुष्टुभं हीति। गतो विनियोगः॥

हे अग्ने इहास्मिन्देशे नोऽस्मानच्छ वद। आभिमुख्येन प्रियं ब्रूहि। तथा प्रत्यङ्नोऽस्मान्प्रत्यञ्चन् सुमनाः शोभनमनस्को भव। हे विशस्पते यजमानलक्षणायाः प्रजायाः पालयितः नोऽस्मभ्यं प्र यच्छ धनानि प्रदेहि यतस्त्वं नोऽस्माकं धनदा असि धनानां दाता भवसि॥१॥

10.141.2
प्र नो᳚ यच्छत्वर्य॒मा प्र भग॒ः प्र बृह॒स्पति᳚ः ।
प्र दे॒वाः प्रोत सू॒नृता᳚ रा॒यो दे॒वी द᳚दातु नः ॥
▶ पदपाठः (Word-by-word)
प्र । नः॒ । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्र । भगः᳚ । प्र । बृह॒स्पतिः᳚ ।
प्र । दे॒वाः । प्र । उ॒त । सू॒नृता᳚ । रा॒यः । दे॒वी । द॒दा॒तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्यमारीणाम् नियन्तार्याणां निर्माता वैतत्संज्ञो देवो नोऽस्मभ्यं प्र यच्छतु धनम्। तथा भग एत्संज्ञको देवश्च प्रयच्छतु। बृहस्पतिश्च प्रयच्छतु। सर्वे देवाश्च प्रयच्छन्तु। उतापि च सूनृता प्रियसत्यवाग्रूपा देवी देवनशीला सरस्वती रायो धनानि नोऽस्मभ्यं प्र ददातु। ऊडिदमित्यादिना रायो विभक्तिरुदात्ता॥२॥

10.141.3 समानपद
सोमं॒ राजा᳚न॒मव᳚से॒॑ग्निं गी॒र्भिर्ह᳚वामहे ।
आ॒दि॒त्यान्विष्णुं॒ सूर्यं᳚ ब्र॒ह्माणं᳚ च॒ बृह॒स्पति᳚म् ॥
▶ पदपाठः (Word-by-word)
सोम᳚म् । राजा᳚नम् । अव᳚से । अ॒ग्निम् । गीः॒॑भिः । ह॒वा॒म॒हे॒ ।
आ॒दि॒त्यान् । विष्णु᳚म् । सूर्य᳚म् । ब्र॒ह्माण᳚म् । च॒ । बृह॒स्पति᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

राजानं राजमानमीश्वरं वा सोममग्निं च गीर्घिः स्तुतिभिरवसे रक्षणार्थम् हवामहे। आह्वयामहे। तथादित्यानदितेः पुत्रान् मित्रादीन् विष्णुं सूर्यं ब्रह्माणं प्रजापतिं ब्रुहस्पतिं च रक्षणार्थमाह्वयामहे॥३॥

10.141.4
इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ सु॒हवे॒ह ह᳚वामहे ।
यथा᳚ न॒ः सर्व॒ इज्जन॒ः संग᳚त्यां सु॒मना॒ अस᳚त् ॥
▶ पदपाठः (Word-by-word)
इ॒न्द्र॒वा॒यू इति᳚ । बृह॒स्पति᳚म् । सु॒॑हवा᳚ । इ॒ह । ह॒वा॒म॒हे॒ ।
यथा᳚ । नः॒ । सर्वः᳚ । इत् । जनः᳚ । सम्॑ग᳚त्याम् । सु॒॑मनाः᳚ । अस᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रश्च वायुश्चेन्द्रवायू। उभयत्र वायोः प्रतिषेधो वक्तव्यः। पा. ६-३-२६-१। इत्यानङः प्रतिषेधः। नोत्तरपदेऽनुदात्तादाविति देवताद्वन्द्वे चेति प्राप्तस्योभयपदप्रकृतिस्वरस्य निषेधः। समासस्येत्यन्तोदात्तत्वम्। बृहस्पतिं बृहतां देवानां पालकम्। तद्बृहतोः करपत्योः। पा. ६-१-५७। इति सुट् तलोपौ। वनस्पत्यादित्वादुभयपदप्रकृतिस्वरत्वम्। सुहवा सुहवौ सुह्वनाविन्द्रवायू बृहस्पतिं चेहास्मिन्कर्मणि हवामहे। आह्वयामहे। यथा नोऽस्माकं सर्व इत् सर्व एव जनः सङ्गत्यां सङ्गमने धनस्य प्राप्तौ सुमना असत् शोभनमनस्को भवेत् तथाह्वयामह इत्यर्थः। अस्तेर्लेट्यडागमः॥४॥

10.141.5
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना᳚य चोदय ।
वातं॒ विष्णुं॒ सर᳚स्वतीं सवि॒तारं᳚ च वा॒जिन᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒र्य॒मण᳚म् । बृह॒स्पति᳚म् । इन्द्र᳚म् । दाना᳚य । चो॒द॒य॒ ।
वात᳚म् । विष्णु᳚म् । सर᳚स्वतीम् । स॒वि॒तार᳚म् । च॒ । वा॒जिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः अर्यमादीन्देवान्दानाय धनप्रदानाय चोदय। स्तुत्या प्रेरय। तथा वातं वायुं विष्णुं सरस्वतीं वाजिनमन्नवन्तं बलवन्तं वा सवितारं च दानाय प्रेरय॥५॥

10.141.6
त्वं नो᳚ अग्ने अ॒ग्निभि॒र्ब्रह्म᳚ य॒ज्ञं च᳚ वर्धय ।
त्वं नो᳚ दे॒वता᳚तये रा॒यो दाना᳚य चोदय ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ग्नि॑भिः᳚ । ब्रह्म᳚ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ।
त्वम् । नः॒ । दे॒व॑ता᳚तये । रा॒यः । दाना᳚य । चो॒द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमग्निभिस्त्वद्विभूतिभूतैरन्यैरग्निभिः सार्धं नोऽस्माकं ब्रह्मस्तोत्रं यज्ञं च वर्धय। तथा त्वं नोऽस्माकं देवतातये। यज्ञनामैतत्। यागार्थं रायो धनस्य दानाय प्रदानाय चोदय। दातॄन्प्रेरय॥६॥