स॒जोष᳚सो॒ यम᳚र्य॒मा मि॒त्रो नय᳚न्ति॒ वरु᳚णो॒ अति॒ द्विषः᳚ ॥
पदपाठः (Word-by-word)
स॒॑जोष᳚सः । यम् । अ॒र्य॒मा । मि॒त्रः । नय᳚न्ति । वरु᳚णः । अति᳚ । द्विषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
न तमित्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो वा। वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्ता उपरिष्टाद्बृहत्यः। त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती। अनु. ७-४। इति हि तल्लक्षणम् । तथा चानुक्रान्तम्। न तं शैलूषः कुल्मलबर्हिषो वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुबिति। गतो विनियोगः॥
हे देवासो देवाः। आज्जसेरसुक्। तं मर्त्यं मनुष्यमंहः पापं दुरितं तत्फलरूपं दुर्गमनं च नाष्ट। न प्राप्नोति। अशेश्छान्दसे लुङि झलोझलीति सिचो लोपः। अडभावश्छान्दसः। अरीन्न्नियच्छतीत्यर्यमा प्रमीतेस्त्रायको देवो मित्रः पापानां निवारयिता देवो वरुणः। एते त्रयो देवाः सजोषसः सङ्गताः समानं प्रीयमाणा वा भवन्तो द्विषो द्वेष्टॄञ्शत्रूनतिक्रम्य यं स्तोतारं नयन्त्यभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः॥१॥