श्रवणम्

10.126.4
यू॒यं विश्वं॒ परि᳚ पाथ॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
यु॒ष्माकं॒ शर्म᳚णि प्रि॒ये स्याम᳚ सुप्रणीत॒यो॑ति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । विश्व᳚म् । परि᳚ । पा॒थ॒ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
यु॒ष्माक᳚म् । शर्म᳚णि । प्रि॒ये । स्याम᳚ । सु॒॑प्र॒नी॒त॒यः॒ । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा वरुणादयः यूयं विश्वं सर्वं जगत्परि पाथ। परितो रक्षथ। हे सुप्रणीतयः शोभनप्रणयना मित्रादयः युश्माकं युश्मदीये युश्माभिर्दत्ते प्रियेऽनुकूले वेद्ये शर्मणि सुखे वयं स्याम। भवेम। द्विषोद्वेष्टॄंश्चाति क्रामेम॥४॥