श्रवणम्

10.126.7
शु॒नम॒स्मभ्य᳚मू॒तये॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
शर्म᳚ यच्छन्तु स॒प्रथ᳚ आदि॒त्यासो॒ यदीम᳚हे॒ अति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । अ॒स्मभ्य᳚म् । ऊ॒तये᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
शर्म᳚ । य॒च्छ॒न्तु॒ । स॒॑प्रथः᳚ । आ॒दि॒त्यासः᳚ । यत् । ईम᳚हे । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणादयो देवा ऊतये रक्षायै शुनं सुखमस्मभ्यं स्तोतृभ्यः प्रयच्छन्तु। तथादित्यासोऽदितेः पुत्रास्ते सप्रथः सर्वतः पृठु विस्तीर्णं शर्म सुखं च यच्छन्तु। अस्मभ्यं ददतु। यच्छर्म वयमीमहे याचामहे। द्विषश्चाति नयन्तु॥७॥