स॒त्येनोत्त᳚भिता॒ भूमि॒ः सूर्ये॒णोत्त᳚भिता॒ द्यौः ।
ऋ॒तेना᳚दि॒त्यास्ति᳚ष्ठन्ति दि॒वि सोमो॒ अधि᳚ श्रि॒तः ॥
स॒त्येन᳚ । उत्त᳚भिता । भूमिः᳚ । सूर्ये᳚ण । उत्त᳚भिता । द्यौः ।
ऋ॒तेन᳚ । आ॒दि॒त्याः । ति॒ष्ठ॒न्ति॒ । दि॒वि । सोमः᳚ । अधि᳚ । श्रि॒तः ॥
सप्तमेऽनुवाके षट् सूक्तानि। तत्र सत्येनेति सप्तचत्वारिंशदृचं प्रथमं सूक्तं सवितृसुतायाः सूर्याया आर्षम्। नवोनव इति तिस्रोऽनृक्षरा इति द्वे गृभ्णामीति द्वे यदश्विना पृच्छमानावित्येषा पुष त्वेतो नयत्वित्येकाघोरचक्षुरिति चैवमेता दशर्चस्त्रुष्टुभः। तृष्टनेतदित्येषोरोबृहत्यष्टकद्वादशद्व्यष्टकवती। पूर्वापरं चरत इह प्रियं प्रजया नः प्रजां जनयत्वित्येतास्तिस्रो जगत्यः। शिष्टास्त्रयस्त्रिंशदनुष्टुभः। आदितः पञ्चानामृचां सोमो देवत तत एकादशभिः सुर्या स्वविवाहं स्तुतवती। अतस्तत्र योऽर्थः प्रतिपाद्यते स एव देवतात्वेन विज्ञेयः। या तेनोच्यते सा देवतिति न्यायात्। सप्तदश्या देवा देवता। आष्टा दश्याः सोमार्कौ। एकोनविंश्याश्चन्द्रमाः। सुकिंशुकमित्याद्या नवर्चो विवाहमन्त्रा आशिआहः प्रतिपादकाः। अतस्तत्र तत्र प्रतिपाद्योऽर्थो देवता। परा देह्यश्रीरा तनूरिति द्वे वध्वा विवाहकाले परिहितस्य वाससः संस्पर्शनिन्दयित्र्यौ। ये वध्वश्चन्द्रमिति दम्पत्योः क्शयरोगस्य नाशिनी। अतस्तद्देवाताका। परिशिष्टानाम् षोडशानां सूर्या देवता। तथा चानुक्रान्तम्। सत्येन सप्तचत्वारिंशत् सर्वमनुक्रान्तम्। सूक्तविनियोगो लैङ्गिकः॥
सत्येन ब्रह्मणानन्तात्मना। ब्रह्मा खलु देवानां मध्ये सत्यभूतः। तेनाधः स्थितेन भुमिरुत्तभिता। उपरि स्तम्भिता। यथाधो न पतेत्तथ कृता। यद्वा। सत्येनानृतप्रतियोगिना धर्मेण भूमिरुत्तभितोद्धृता फलिता भवतित्यर्थः। असति सत्ये भूम्यां सस्यादयो न फलन्ति। तथा सूर्येण देवेन द्यौरुत्तभिता। सूर्यो हि द्युस्थानत्वाद्दिवं दधार। ऋतेन यज्ञेनादित्या अदितेः पुत्रा देवास्तिष्ठन्ति। यज्ञेन यजमानदत्तेन खल्वाहुत्या देवा उपजीवन्ति। दिवि द्युलोके सोमो देवानामाप्यायनकारी वल्लीरूपो देवतारूपश्चाधि श्रितः। अधितिष्थति। इति स्वपतिं सोमं सूर्या स्तौति॥१॥
सोमे᳚नादि॒त्या ब॒लिन॒ः सोमे᳚न पृथि॒वी म॒ही ।
अथो॒ नक्ष᳚त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि᳚तः ॥
सोमे᳚न । आ॒दि॒त्याः । ब॒लिनः᳚ । सोमे᳚न । पृ॒थि॒वी । म॒ही ।
अथो॒ इति᳚ । नक्ष᳚त्राणाम् । ए॒षाम् । उ॒प॑स्थे᳚ । सोमः᳚ । आ॑हि᳚तः ॥
सोमेनादित्या अदितेः पुत्रा इन्द्रादयो बलिनो भवन्ति। ऐन्द्रवायवादिग्रहपरिग्रहादिति भावः। तथा सोमेनाहुत्यात्मनाग्नौ हुतेन पृथिवी भूमिर्मही महती भवति। आहुत्या वृष्टिद्वारेण सस्यादिसम्पत्तेः। अथो अपि चायं सोमो नक्षत्रानामेषाम् । न क्षं त्रायन्त इति सक्षत्रा ग्रहचमसादयः। तेषामेषामुपस्थे सोमो रसात्मक आहितः। यद्वा। सिद्धानामेव सक्षत्राणामुपस्थ उपस्थाने द्युलोके सोम आहितः। तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्। तै. ब्रा. ३-२-१-१। इत्यादिश्रुतेः। देवतारूपसोमपक्षे। सोमेनादित्या देवा बलिनो बलवन्तो भवन्ति तस्यैकैककलास्वादनात्। प्रथमां पिबते वह्निर्दितीयां पिबते रविरित्यादिस्मृतेः। सोमेन पृथिवी मही। अम्रुतसेकेनौषद्याअद्यभिवृद्ध्या पृथिव्या बलवत्त्वम् । चन्द्रस्य नक्षत्राणामुपस्थे स्थितिः प्रसिद्धा॥२॥
सोमं᳚ मन्यते पपि॒वान्यत्स᳚म्पिं॒षन्त्योष᳚धिम् ।
सोमं॒ यं ब्र॒ह्माणो᳚ वि॒दुर्न तस्या᳚श्नाति॒ कश्च॒न ॥
सोम᳚म् । म॒न्य॒ते॒ । प॒पि॒॑वान् । यत् । स॒म्॑पिं॒षन्ति᳚ । ओष᳚धिम् ।
सोम᳚म् । यम् । ब्र॒ह्माणः᳚ । वि॒दुः । न । तस्य᳚ । अ॒श्ना॒ति॒ । कः । च॒न ॥
सोमं मन्यते। कः। यः पपिवान्। मैथुनकामार्थं चिकित्साद्यर्थं पीतः सोमो येन। यद्यमित्यर्थः। यं सोममोषधिं वल्लीरूपं सम्पिम्षन्ति। सामर्त्याद्रासायनिकाः। न च स साक्षात्सोमः। तर्हि कः। उच्यते। सोमं हि तं मन्यते यं ब्रह्माणः। यद्ब्रह्मशब्दो ब्राह्मणशब्दपर्यायोऽस्ति कुतो नु चरसि ब्रह्मन् तस्मै मा ब्रूया निधिपाय ब्रह्मन्नित्यादि प्रयोगात्। ब्राह्मना इत्यर्थः। ते चर्त्विजो यजमानश्च यागसाधनभूतं संस्कर्तुं विदुः जानन्ति तस्यांशम्। यद्वा। कर्मणि षष्ठी। तं सोमं कश्चन नाश्नाति। कश्चिदप्ययज्वेति शेषः। यज्वैनं भक्षयितुमर्हति नान्य इत्यर्थः। एवमोषधिपक्षे। अथ चन्द्रपक्ष उच्यते। तं सोमं मन्यते पपिवान् पीतवान्यजमानो यद्यमोषधिरूपं सम्पिम्षन्त्यभिषवग्रावभिरध्वर्व्यादयो यजमानश्च। न च स सोमः कस्तर्हि। यम् ब्रह्माणो ब्राह्मणा अभिज्ञा दैवज्ञाविदुः कथयन्ति चन्द्रमसं न तस्याश्नाति कश्चनादेवो देवेभ्योऽन्यो मनुष्यादिः। देवा अग्न्यादयो रश्मयो वा। यज्ञार्हसोमस्यासोमत्वं न निन्दायै अपि त्वितरस्य स्तुत्या इति मन्तव्यम्। अपशवोऽन्ये गो अश्वेभ्य इत्यादिवत्। एवमत्र सोम्या उभयथा योज्याः॥३॥
आ॒च्छद्वि᳚धानैर्गुपि॒तो बार्ह᳚तैः सोम रक्षि॒तः ।
ग्राव्णा॒मिच्छृ॒ण्वन्ति᳚ष्ठसि॒ न ते᳚ अश्नाति॒ पार्थि᳚वः ॥
आ॒च्छत्॑वि᳚धानैः । गु॒पि॒तः । बार्ह᳚तैः । सो॒म॒ । र॒क्षि॒तः ।
ग्राव्णा᳚म् । इत् । शृ॒ण्वन् । ति॒ष्ठ॒सि॒ । न । ते॒ । अ॒श्ना॒ति॒ । पार्थि᳚वः ॥
हे सोम अच्छद्विधानैः। अच्छादयन्ति विधानानि येषां विद्यन्ते त आच्छद्विधानाः। तैर्गुपितः। तथा बार्हतैर्गुपितः। स्वानभ्राजाङ्घार्यादिभिः सप्तभिः सोमपालै रक्षितस्त्वम्। एते वा अमुष्मिल्लोके सोममरक्शन्। तै. सं. ६-१-१०-५। इति ब्राह्मणं ग्राव्णामिच्छृण्वन्नभिशवग्राव्णां ध्वनिं शृण्वन्नेव तिष्ठसि। ते त्वां पार्थिवः पार्थिवो जनो नाश्नाति। न हि द्युस्थश्चन्द्ररूपोऽत्रत्यैः पानयोग्यो भवति। चन्द्रमा वै सोमो देवानामन्नं तं पौर्णमास्या यामभिषुण्वन्तीति वाजसनेयकम्॥४॥
यत्त्वा᳚ देव प्र॒पिब᳚न्ति॒ तत॒ आ प्या᳚यसे॒ पुनः᳚ ।
वा॒युः सोम᳚स्य रक्षि॒ता समा᳚नां॒ मास॒ आकृ᳚तिः ॥
यत् । त्वा॒ । दे॒व॒ । प्र॒॑पिब᳚न्ति । ततः᳚ । आ । प्या॒य॒से॒ । पुन॒रिति᳚ ।
वा॒युः । सोम᳚स्य । र॒क्षि॒ता । समा᳚नाम् । मासः᳚ । आ॑कृ᳚तिः ॥
हे देव सोम यद्यदा त्वा त्वां प्रतिबन्त्योषधिरूपम् त्रिष्वपि सवनेषु ततोऽनन्तरमेव पुनरा प्यायसे। आ प्यायस्व सम् । ऋ. १-९१-१६। इति प्रातः सवने सं ते पयांसि। ऋ. १-९१-१८। इत्युत्तरयोः सवनयोराप्यायसे। किञ्च वायुस्तव सोमस्य रक्षिता। यथा न शुष्यति तथा। वायुः शोषकः प्रसिद्धो लोके। किञ्च मासः। परिमीयत इति मासः सोमः। स च समानां सम्वत्सराणामाकृतिराकर्ता व्यवच्छेदको भवति। संवत्सरे संवत्सरे वसन्तादिकालेष्टनुष्ठीयमानत्वाद्वसन्ते वसन्ते ज्योतिषा यजेतेति श्रुतेः। यद्वा। सोमधारवनस्पतिविकारग्रहद्वारेण वयुह् सोमरसस्य रक्षिता भवति। वायुगोपा वनस्पतय इति श्रुतेः। एवं वल्ली रूपसोमपक्षे योजना। चन्द्रपकॆहे तु हे देव सोम यद्यदा त्वा त्वां प्रपिबन्ति रश्मयोऽपरपक्षे ततोऽनन्तरमेव पूर्वपक्षे पुनराप्यायसे। वायुष्च सोमस्य तव रक्षिता। वाय्वधीनत्वाच्छन्द्रगतेः। किञ्च समानां संवत्सराणां मासः। षष्ठ्यॆकवचनमेतत्। मासस्याकृतिश्च कर्ता त्वं चासि। एकैककलाक्षयसंवृद्धिभ्यां हि मासः पूर्यते तैः सम्वत्सर इति॥५॥
रैभ्या᳚सीदनु॒देयी᳚ नाराशं॒सी न्योच᳚नी ।
सू॒र्याया᳚ भ॒द्रमिद्वासो॒ गाथ᳚यैति॒ परि᳚ष्कृतम् ॥
रैभी᳚ । आ॒सी॒त् । अ॒नु॒॑देयी᳚ । ना॒रा॒शं॒सी । नि॒॑ओच᳚नी ।
सू॒र्यायाः᳚ । भ॒द्रम् । इत् । वासः᳚ । गाथ᳚या । ए॒ति॒ । परि᳚॑कृतम् ॥
अभिः सूर्या स्वविवाहमस्तौदित्युक्तम्। सूर्या सावित्री ब्रूते। रैभी। रैभ्यः काश्चनर्चः। रैभीः शंसति रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकमायुन्नित्यादिब्राह्मणविहिता रैभ्यः। ऐ. ब्रा. ६-३२। सा रैभ्यनुदेय्यासीत्। दीयमानवधूविनोदनायानुदीयमाना वयस्यासीत्। तथा नाराशंसी। प्राता रत्नम् । ऋ. १-१२५-१। इत्यादिका मनुष्याणां स्तुतयो नाराशंस्यः। सा नाराशंसी न्योचनी। उचतिः सेवकर्मा। सा वधूशुश्रूषार्थं दीयमान दास्यभवत्। सूर्याय मम भद्रं वासो विचित्रं दुकूलादिकमाच्छादनयोग्यं वस्त्रं गाथया परिष्कृतमलङ्कृतमेति। गाथा गीयत इत्यादिब्राह्मणोक्ता गाथा। तया गाथया यत्परिष्कृतमस्ति तद्वासोऽभवदिति॥६॥
चित्ति᳚रा उप॒बर्ह᳚णं॒ चक्षु᳚रा अ॒भ्यञ्ज᳚नम् ।
द्यौर्भूमि॒ः कोश᳚ आसी॒द्यदया᳚त्सू॒र्या पति᳚म् ॥
चित्तिः᳚ । आः॒ । उ॒प॒॑बर्ह᳚णम् । चक्षुः᳚ । आः॒ । अ॒भि॒॑अञ्ज᳚नम् ।
द्यौः । भूमिः᳚ । कोशः᳚ । आ॒सी॒त् । यत् । अया᳚त् । सू॒र्या । पति᳚म् ॥
चित्तिर्देवतोपबर्हणमाः। आसीत्। चक्षुरभ्यञ्जनमाः। आसीत्। तथा हि। वृत्रस्य कनीनिका परापतत्त्रिककुन्नामपर्वते। तेन त्रैककुदेनाञ्जनसजतीयेन चक्षुषी आञ्जते। तच्चक्षुरेवाञ्जनमासिदिति। द्यौश्च भुमिश्च कोश आसीत्। कोषस्थानीये अभुताम्। यद्यदा सूर्या पतिं स्वकीयं नवभर्तारं सोम मयात् अगच्छत् तदैवमुपकरणान्यासन्॥७॥
स्तोमा᳚ आसन्प्रति॒धयः᳚ कु॒रीरं॒ छन्द᳚ ओप॒शः ।
सू॒र्याया᳚ अ॒श्विना᳚ व॒राग्निरा᳚सीत्पुरोग॒वः ॥
स्तोमाः᳚ । आ॒स॒न् । प्र॒ति॒॑धयः᳚ । कु॒रीर᳚म् । छन्दः᳚ । ओ॒प॒शः ।
सू॒र्यायाः᳚ । अ॒श्विना᳚ । व॒रा । अ॒ग्निः । आ॒सी॒त् । पु॒रः॒॑ग॒वः ॥
सूर्याया रथस्य सोत्मास्त्रिवृधादयः प्रतिधिय आसन्। प्रतिधीयन्त इति प्रतिधय ईषातिर्यगायतकाष्ठादयः। तथा कुरीरं छन्दः कुरीरनामकं छन्दोऽनस ऒपशोऽभवत्। येनोपशेरते स ओपशः। तादृशायाः सूर्याया अश्विनाश्विनौ वरा वरावास्तामिति शेषः। तस्या विवाहे पुरोगवः पुरोगन्ता पुरतोगन्ता यः पूर्वमेव प्रस्तावार्थं गच्छति तत्स्थानीयोऽग्निरासीत्। प्रजाप्रतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छन्नित्यादि हि ब्राह्मणम् । ऐ. ब्रा. ४-७। अत्रायमभिप्रायः। प्रजापतिः सविता स्वदुहितरं सोमाय प्रायच्छत्। सोमाय दास्यामिति मनीशामकरोत्। तस्मिन्समये पुत्र्या उपचारर्त्ज [रदानान्युक्त्वान्यभवन्। तथा च सत्यश्चिनौ प्रबलौ सन्तावाजिं पुरतो गत्वा तामलभेतामिति। उत्तरत्रापि सोमो वधूयुरभवदित्यादिनायमेवार्थः स्पष्टो भविष्यति। योषावृणीत जेन्येत्यादिकमुक्तम्। ऋ. १-११९-५॥८॥
सोमो᳚ वधू॒युर᳚भवद॒श्विना᳚स्तामु॒भा व॒रा ।
सू॒र्यां यत्पत्ये॒ शंस᳚न्तीं॒ मन᳚सा सवि॒ताद᳚दात् ॥
सोमः᳚ । व॒धू॒॑युः । अ॒भ॒व॒त् । अ॒श्विना᳚ । आ॒स्ता॒म् । उ॒भा । व॒रा ।
सू॒र्याम् । यत् । पत्ये᳚ । शंस᳚न्तीम् । मन᳚सा । स॒वि॒ता । अद᳚दात् ॥
सोमो वधूयुर्वधूकामो वरोऽभवत्। तस्मिन्समयेऽश्विनाश्विनावुभोधौ वरा वरावास्ताम्। अभुताम्। यद्यदा सूर्यां पत्ये शंसन्तीं पतिं कामयमानाम् । पर्याप्तयौवनामित्यर्थः। सूर्यां मनसा सहिताय सोमाय वराय सविता तत्पिताददात् प्रादात् दित्सां चकार॥९॥
मनो᳚ अस्या॒ अन᳚ आसी॒द्द्यौरा᳚सीदु॒त च्छ॒दिः ।
शु॒क्राव᳚न॒ड्वाहा᳚वास्तां॒ यदया᳚त्सू॒र्या गृ॒हम् ॥
मनः᳚ । अ॒स्याः॒ । अनः᳚ । आ॒सी॒त् । द्यौः । आ॒सी॒त् । उ॒त । छ॒दिः ।
शु॒क्रौ । अ॒न॒ड्वाहौ᳚ । आ॒स्ता॒म् । यत् । अया᳚त् । सू॒र्या । गृ॒हम् ॥
अस्याः सूर्यायाः पत्युर्गृहं गच्छन्त्या अनो रथो मन आसीत्। या पतिगृहं त्वया गच्छामीति मतिरस्ति सान आसित्। उतापि च तस्या अनसो द्यौर्द्युलोकश्छदिरुपर्यपिधानमासीत्। शुक्रौ दीप्तौ सूर्याचन्द्रमसावनड्वाहौ रथस्य वोढारावास्ताम्। अभवताम्। यद्यदा सूर्या गृहं सोममयात् आगात्॥१०॥
ऋ॒क्सा॒माभ्या᳚म॒भिहि᳚तौ॒ गावौ᳚ ते साम॒नावि᳚तः ।
श्रोत्रं᳚ ते च॒क्रे आ᳚स्तां दि॒वि पन्था᳚श्चराचा॒रः ॥
ऋ॒क्॑सा॒माभ्या᳚म् । अ॒भि॑हि᳚तौ । गावौ᳚ । ते॒ । सा॒म॒नौ । इ॒तः॒ ।
श्रोत्र᳚म् । ते॒ । च॒क्रे इति᳚ । आ॒स्ता॒म् । दि॒वि । पन्थाः᳚ । च॒रा॒च॒रः ॥
हे सूर्ये देवि ते तवर्क्सामाभ्यामभिधानीस्थानाभ्यामभिहितौ गावौ गोस्थानीयौ सूर्याचन्द्रमसौ सामनौ समानौ सन्तावितः। गच्छतः। आनोवाहौ पत्युर्गृहं प्रति गच्छतः। ते तव श्रोत्रम्। श्रोते इत्यर्थः। वरस्य गुणग्राहिणी श्रोत्रे एव चक्रे अस्ताम्। मनोरूपस्य रथस्य श्रोत्रे चक्रे अभवतामित्यर्थः। दिवि पन्थाश्चराचरश्चलाचलोऽथन्तन्तं गमनसाधनभुतो मार्गोऽभुत्। रथसञ्चारप्रदेशो द्युलोक आसीत्॥११॥
शुची᳚ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह᳚तः ।
अनो᳚ मन॒स्मयं᳚ सू॒र्यारो᳚हत्प्रय॒ती पति᳚म् ॥
शुची॒ इति᳚ । ते॒ । च॒क्रे इति᳚ । या॒त्याः । वि॒॑आ॒नः । अक्षः᳚ । आ॑ह᳚तः ।
अनः᳚ । म॒न॒स्मय᳚म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒॑य॒ती । पति᳚म् ॥
यत्या गच्छन्त्यास्ते तवानसश्चक्ते चङ्क्रमणशीले रथाङ्गे शुची श्रोत्रे आस्ताम्। व्यानस्तव व्यानो वायुरक्षः। उभयरथचक्रच्छिद्रगामिनी या काष्ठा सा च रथस्य सर्वं भारं वहति। सोऽक्षो व्यानोऽभुत्। मनस्मयं मनोमयमनः शकटं सूर्या पतिं सोमं प्रतिप्रयती प्रकर्षॆण गच्छन्त्यारोहत्। आरूढवती। पतिं प्रति जिगमिषोर्मनोरूपस्य रथस्य पत्युर्गुणश्राविणी श्रोत्रे एव चक्रे अभूतां व्यानो धारको वायुश्चेष्टकोऽक्षोभूदित्यर्थः॥१२॥
सू॒र्याया᳚ वह॒तुः प्रागा᳚त्सवि॒ता यम॒वासृ᳚जत् ।
अ॒घासु᳚ हन्यन्ते॒ गावो॑र्जु᳚न्यो॒ः पर्यु᳚ह्यते ॥
सू॒र्यायाः᳚ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒॑असृ᳚जत् ।
अ॒घासु᳚ । ह॒न्य॒न्ते॒ । गावः᳚ । अर्जु᳚न्योः । परि᳚ । उ॒ह्य॒ते॒ ॥
सोमाय प्रदित्सितायाः सूर्याय वहतुः। कन्याप्रियार्थं दातव्यो गवादिपदार्थो वहतुः। अ च प्रागात्। तस्या अपि पूर्वमगच्छत्। यं वहतुं सवितास्याः पितावासृजत् अवसृष्टवान्। प्रादादित्यर्थः। कदा सागच्छत् कदा वहतुरित्युभयोः काल उच्यते। अघासु। मघास्वित्यर्थः। मघानक्षत्रेषु गावः सवित्रा दत्ता गावः सोमगृहं प्रति हन्यन्ते। दण्डैस्ताड्यन्ते प्रेरणार्थम्। अर्जुन्योः। फल्गुन्योरित्यर्थः। तयोर्नक्षत्रयोः सवितुः सकाशात् परिसोमगृहं प्रत्युह्यते। नीयते रथेन॥१३॥
यद᳚श्विना पृ॒च्छमा᳚ना॒वया᳚तं त्रिच॒क्रेण᳚ वह॒तुं सू॒र्याया᳚ः ।
विश्वे᳚ दे॒वा अनु॒ तद्वा᳚मजानन्पु॒त्रः पि॒तरा᳚ववृणीत पू॒षा ॥
यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा᳚नौ । अया᳚तम् । त्रि॒॑च॒क्रेण᳚ । व॒ह॒तुम् । सू॒र्यायाः᳚ ।
विश्वे᳚ । दे॒वाः । अनु᳚ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तरौ᳚ । अ॒वृ॒णी॒त॒ । पू॒षा ॥
हे अश्विनाश्विनौ यद्यदा पृच्छमानौ सवितारं प्रष्टुमयातम् आगच्छतम्। केन साधनेनायातं तदुच्यते। त्रिचक्रेण चक्रत्र ययुक्तेन रथेन। किं पृच्छमानौ। सूर्याय वहतुम्। विवाहमित्यर्थः। तत्तदानीं वां युवां सवितारं प्रति गच्छन्तौ विश्वे सर्वे देवा अन्वजानन्। अनुज्ञातवन्तः। तथा पितरौ पुत्रोऽश्विनोः पुत्रः पूषावृणीत। वृतवान्॥१४॥
यदया᳚तं शुभस्पती वरे॒यं सू॒र्यामुप᳚ ।
क्वैकं᳚ च॒क्रं वा᳚मासी॒त्क्व᳚ दे॒ष्ट्राय᳚ तस्थथुः ॥
यत् । अया᳚तम् । शु॒भः॒ । प॒ती॒ इति᳚ । व॒रे॒॑यम् । सू॒र्याम् । उप᳚ ।
क्व᳚ । एक᳚म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व᳚ । दे॒ष्ट्राय᳚ । त॒स्थ॒थुः॒ ॥
हे शुभस्पती उदकस्य स्वामिनौ यद्यावयातं आगच्छतम्। कं प्रति। वरेयं वरनीयायाः सूर्यायाः सम्बन्धिनं वरैर्याचितव्यं वा। सवितारमित्यर्थः। किमर्थम् । सूर्यामुप गन्तुम्। वां भवतोः सम्प्रति दृश्यमानमिदमेकं चक्रं क्वासीत्पुरा। क्व वां युवां देष्ट्राय दानाय प्रवृत्तौ तस्थथुरित्यश्विनोर्निवासं पृच्छति॥१५॥
द्वे ते᳚ च॒क्रे सू᳚र्ये ब्र॒ह्माण᳚ ऋतु॒था वि᳚दुः ।
अथैकं᳚ च॒क्रं यद्गुहा॒ तद᳚द्धा॒तय॒ इद्वि᳚दुः ॥
द्वे इति᳚ । ते॒ । च॒क्रे इति᳚ । सू॒र्ये॒ । ब्र॒ह्माणः᳚ । ऋ॒तु॒॑था । वि॒दुः॒ ।
अथ᳚ । एक᳚म् । च॒क्रम् । यत् । गुहा᳚ । तत् । अ॒द्धा॒तयः᳚ । इत् । वि॒दुः॒ ॥
अथ स्वयमेव स्मात्मानं प्रति सूर्या वदति। हे सूर्ये ते तव द्वे चक्रे प्रज्ञाते पुरा दृष्टे द्वे एव चन्द्रसूर्यात्मके ऋतुथर्तुषु विनिर्दिष्टे चक्रे ब्रह्माणो ब्राह्मणा विदुः। अथैकं चक्रं तृतीयं संवत्सरात्मकं गुहा गुहायां निहितं यदस्ति तदद्थातय इत्। एतन्मेधाविनामसु पठितम्। मेधाविन एव विदुः। चानन्ति॥१६॥
सू॒र्यायै᳚ दे॒वेभ्यो᳚ मि॒त्राय॒ वरु᳚णाय च ।
ये भू॒तस्य॒ प्रचे᳚तस इ॒दं तेभ्यो᳚॑करं॒ नमः᳚ ॥
सू॒र्यायै᳚ । दे॒वेभ्यः᳚ । मि॒त्राय᳚ । वरु᳚णाय । च॒ ।
ये । भू॒तस्य᳚ । प्र॑चे᳚तसः । इ॒दम् । तेभ्यः᳚ । अ॒क॒र॒म् । नमः᳚ ॥
सूर्यायै सूर्यस्य पत्न्यै देवेभ्योऽग्न्यादिभ्यो मित्राय वरुणाय च ये च भुतस्य भूतजातस्य प्रचेतसः सुमतयोऽभिमतप्रदा भवन्ति तेभ्यः सर्वेभ्य इदं नमो नमस्कारमकरम्। करोमि॥१७॥
पू॒र्वा॒प॒रं च᳚रतो मा॒ययै॒तौ शिशू॒ क्रीळ᳚न्तौ॒ परि᳚ यातो अध्व॒रम् ।
विश्वा᳚न्य॒न्यो भुव᳚नाभि॒चष्ट᳚ ऋ॒तू{4}र॒न्यो वि॒दध᳚ज्जायते॒ पुनः᳚ ॥
पू॒र्व॒॑अ॒प॒रम् । च॒र॒तः॒ । मा॒यया᳚ । ए॒तौ । शिशू॒ इति᳚ । क्रीळ᳚न्तौ । परि᳚ । या॒तः॒ । अ॒ध्व॒रम् ।
विश्वा᳚नि । अ॒न्यः । भुव᳚ना । अ॒भि॒॑चष्टे᳚ । ऋ॒तून् । अ॒न्यः । वि॒॑दध᳚त् । जा॒य॒ते॒ । पुन॒रिति᳚ ॥
कश्चित्पूर्वं गच्छति सूर्यः। अन्यस्तमनुचरति चन्द्रमाः। एवं पुर्वापरं पौर्वापर्येण मायया स्वप्रज्ञानेनैतावादित्यचन्द्रौ चरतः। गच्छतो दिवि। तौ शिशू। शिशुवद्भ्रमणाज्जायमानत्वाद्वा शिशू इत्युच्येते। शिशू सन्तौ क्रीळन्तावन्तरिक्षे विहरन्तावध्वरं परि यातः। यज्ञं प्रति गच्छतः। तयोरन्य आदित्यो विश्वानि भुवनान्यभिचष्टे। अभिपश्यति। ऋतूह्न्वसन्तादीनन्यश्चन्द्रमा विदधत्कुर्वन्मासानर्धमासांश्च कुर्वन्पुनर्बायते। यद्युभयोरपि पुनर्जातिरस्ति तथापि सूर्यस्य सर्वदा प्रवृद्धेरुदयो नाभिप्रेतः। चन्द्रस्य तु ह्रासवृद्धिसद्भावात्पुनः पुनर्जायत इत्युक्तिर्युक्ता। चन्द्रमा वै जायते पुनः। तै. ब्रा. ३-९-५-४। इत्यादिश्रुतेः॥१८॥
नवो᳚नवो भवति॒ जाय᳚मा॒नो॑ह्नां᳚ के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् ।
भा॒गं दे॒वेभ्यो॒ वि द᳚धात्या॒यन्प्र च॒न्द्रमा᳚स्तिरते दी॒र्घमायु᳚ः ॥
नवः᳚॑नवः । भ॒व॒ति॒ । जाय᳚मानः । अह्ना᳚म् । के॒तुः । उ॒षसा᳚म् । ए॒ति॒ । अग्र᳚म् ।
भा॒गम् । दे॒वेभ्यः᳚ । वि । द॒धा॒ति॒ । आ॒॑यन् । प्र । च॒न्द्रमाः᳚ । ति॒र॒ते॒ । दी॒र्घम् । आयुः᳚ ॥
अतिमूर्तिनाम्न्येकाहे शुक्लपक्षे चान्द्रमसीष्टिः। तत्र नवोनव इत्येषा याज्या। सुत्रितं च। नवो नवो भवति जायमानस्तरणिर्विश्वदर्शत। आ. ९-८। इति॥
अयं चन्द्रमा जायमानः प्रतिदिनं जायमान एकैककलाभिक्येनोत्पद्यमानः सन्नवोनवो भवति। प्रतिदिनं नूतन एव भवति। प्रतिदिनं नूतन एव भवति। एतत्पुर्वपक्षाद्यभिप्रायम् । तथाह्नां दिवसानां केतुः प्रज्ञापकः प्रतिपदादीनां तिथीनां चन्द्रकलाह्रासवृद्ध्यधीनत्वात्। तादृशश्चन्द्रमा उषसां प्रभातीनामग्रमेति। एतत्कृष्णपक्षान्ताभिप्रायम्। केचनैतं पादमादित्यदैवत्यमाहुः। तन्मिन्पक्षेऽह्नां केतुत्वमुषसामग्रगतिश्च प्रसिद्धे। देवेभ्यो भागं हविर्भागं वि दधाति। करोति। उभयपक्षान्ते। किं कुर्वन्। आयन् प्रतिदिनं ह्रासवृद्ध्या पक्षान्तमभिगच्छन्। एतदर्धमासाभिप्रायम् । चन्द्रमा उक्तलक्षणो देवो दीर्घमायुस्तिरते। वर्धयति॥१९॥
सु॒किं॒शु॒कं श᳚ल्म॒लिं वि॒श्वरू᳚पं॒ हिर᳚ण्यवर्णं सु॒वृतं᳚ सुच॒क्रम् ।
आ रो᳚ह सूर्ये अ॒मृत᳚स्य लो॒कं स्यो॒नं पत्ये᳚ वह॒तुं कृ᳚णुष्व ॥
सु॒॑किं॒शु॒कम् । श॒ल्म॒लिम् । वि॒श्व॑रू᳚पम् । हिर᳚ण्य॑वर्णम् । सु॒॑वृत᳚म् । सु॒॑च॒क्रम् ।
आ । रो॒ह॒ । सू॒र्ये॒ । अ॒मृत᳚स्य । लो॒कम् । स्यो॒नम् । पत्ये᳚ । व॒ह॒तुम् । कृ॒णु॒ष्व॒ ॥
सुकिंशुकं शोभनकिंशुकवृक्षनिर्मितं तथा शल्मलिं शल्मलिवृक्षनिर्मितं विश्वरूपं नानारूपं हिरण्यवर्णं हितरमणीयवर्णं हिरण्यालङ्कारयुक्तं वा सुवृतं सुष्ठुवर्तनं सुचक्रं शोभनचक्रोपेतं रथं हे सुर्य आ रोह। अमृतस्य लोकं स्थानं स्योनं सुखकरं पत्ये सोमाय वहतुं वहनमात्मनः प्रापणं कृणुष्व। कुरुष्व। अत्र निरुक्तम्। १२-८। द्रष्टव्यम्॥२०॥
उदी॒र्ष्वात॒ः पति᳚वती॒ ह्ये॒३॒᳚षा वि॒श्वाव᳚सुं॒ नम᳚सा गी॒र्भिरी᳚ळे ।
अ॒न्यामि᳚च्छ पितृ॒षदं॒ व्य᳚क्तां॒ स ते᳚ भा॒गो ज॒नुषा॒ तस्य᳚ विद्धि ॥
उत् । ई॒र्ष्व॒ । अतः᳚ । पति᳚॑वती । हि । ए॒षा । वि॒श्व॑व᳚सुम् । नम᳚सा । गीः॒॑भिः । ई॒ळे॒ ।
अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒॑सद᳚म् । वि॑अ᳚क्ताम् । सः । ते॒ । भा॒गः । ज॒नुषा᳚ । तस्य᳚ । वि॒द्धि॒ ॥
अभिर्नृणां विवाहः स्तूयते। हे विश्वावसो अतः स्थानत्कन्यासमीपादुदीर्ष्व। उत्तिष्थ। एषा कन्या पतिवती हि सञ्जाता। अत उदीष्वेति वातः शब्दो योज्यः। विश्वावसुमेतन्नामानं गन्धर्वं नमसा नमस्कारेण गीर्भिः स्तुतिभिश्चेळे। स्तौ मि। तर्ह्येनां विहाय कां स्वीकरोमीति यदि ब्रूषे तर्ह्यन्यां पितृषदं पितृकुले स्थितां व्यक्तामनूढेति परिस्फुटां विगतांजनां वा। स्तनोद्गमादिराहित्येनाप्रौढामित्यर्थः। स तादृशः पदार्थस्ते तव भागः कल्पितः। तस्य तं भागं विद्धि जानीहि जनुषा जन्मना। लभस्वेत्यर्थः॥२१॥
उदी॒र्ष्वातो᳚ विश्वावसो॒ नम᳚सेळा महे त्वा ।
अ॒न्यामि᳚च्छ प्रफ॒र्व्यं१॒᳚ सं जा॒यां पत्या᳚ सृज ॥
उत् । ई॒र्ष्व॒ । अतः᳚ । वि॒श्व॒व॒सो॒ इति᳚ विश्व॑वसो । नम᳚सा । ई॒ळा॒म॒हे॒ । त्वा॒ ।
अ॒न्याम् । इ॒च्छ॒ । प्र॒॑फ॒र्व्य᳚म् । सम् । जा॒याम् । पत्या᳚ । सृ॒ज॒ ॥
अतोऽस्माच्छयनाद्धेविश्वावसो कन्यास्वामिन्गन्धर्व उदीष्र्व। उद्गच्छ। ईर गतौ अदादिकः। अनुदात्तेत्। तस्य लोटि रूपम्। विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्यतः। लभामि तेन कन्यामिति हि मन्त्रः । स तादृश देव त्वां नमसा नमस्कारेणेळामहे। स्तुमः। स त्वमन्यां प्रघर्व्यं बृहन्नितंबां कन्यामिच्छ। जायां मां पत्या सह पुनः सं सृज॥२२॥
अ॒नृ॒क्ष॒रा ऋ॒जवः᳚ सन्तु॒ पन्था॒ येभि॒ः सखा᳚यो॒ यन्ति᳚ नो वरे॒यम् ।
सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त्सं जा᳚स्प॒त्यं सु॒यम᳚मस्तु देवाः ॥
अ॒नृ॒क्ष॒राः । ऋ॒जवः᳚ । स॒न्तु॒ । पन्थाः᳚ । येभिः᳚ । सखा᳚यः । यन्ति᳚ । नः॒ । व॒रे॒॑यम् ।
सम् । अ॒र्य॒मा । सम् । भगः᳚ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒॑प॒त्यम् । सु॒॑यम᳚म् । अ॒स्तु॒ । दे॒वाः॒ ॥
हे देवाः पन्थाः पन्थानो मार्गा अनृक्षराः। ऋक्षरः कण्टक उच्यते। कण्टकरहिता ऋजवोऽकुटिलाश्च सन्तु येभिर्यैः पथिभिर्नोस्माकं सखायो वरप्रेषिता वरेयं वरैर्याचितव्यम् पितरं प्रति यन्ति गच्छन्ति ते पन्था इति। किञ्चार्यमा देवो नोऽस्मान् सं निनीयात्। सम्यक् प्रापयेत्। तथा भगो देवः सं निनीयात्। हे देवाः आसङ्गतमस्तु पतिकुलमिति शेषः तथेदं जास्पत्यं जायापत्योर्युगलं सुयममस्तु। सुमिथुनमस्तु॥२३॥
प्र त्वा᳚ मुञ्चामि॒ वरु᳚णस्य॒ पाशा॒द्येन॒ त्वाब᳚ध्नात्सवि॒ता सु॒शेवः᳚ ।
ऋ॒तस्य॒ योनौ᳚ सुकृ॒तस्य᳚ लो॒के॑रि᳚ष्टां त्वा स॒ह पत्या᳚ दधामि ॥
प्र । त्वा॒ । मु॒ञ्चा॒मि॒ । वरु᳚णस्य । पाशा᳚त् । येन᳚ । त्वा॒ । अब᳚ध्नात् । स॒वि॒ता । सु॒॑शेवः᳚ ।
ऋ॒तस्य᳚ । योनौ᳚ । सु॒॑कृ॒तस्य᳚ । लो॒के । अरि᳚ष्टाम् । त्वा॒ । स॒ह । पत्या᳚ । द॒धा॒मि॒ ॥
पत्न्या योक्त्र विमोचने प्र त्वा मुञ्चामीत्येषा। सूत्रितं च। अथास्या योक्त्रं विचृतेत्प्र त्वा मुञ्चामि वरुणस्य पाशात्। आ. १-११। इति॥
जातं प्राणिनं सवित्रा प्रेरितो वरुण आत्मपाशैर्बध्नाति। तस्माद्वरुणस्य पाशात् हे वधु त्वा त्वां प्र मुञ्चामि येन त्वा त्वां सविता वरुणस्य प्रेरकः सुशेवः सुखोऽबध्नात् बन्धनं कृतवान्। यज्ञाङ्गपक्षे पत्नीं योक्त्रेण बध्नाति। बन्धनस्य वरुणोऽभिमानी। अतो वरुणपाशाद्योक्त्रात्प्र मुञ्चामि येन योक्त्रेण सविता कर्मणामनुज्ञाता देव ऋत्विक्पाशेनाबध्नात्। तं मोचयित्वा चर्तस्य यज्ञस्य योनौ स्थाने यागभूमौ सुकृतस्य लोके कर्मक्षेत्रे भूलोके चारिष्टामहिंसितां त्वां पुत्राद्यर्थं पत्या सह दधामि। स्थापयामि॥२४॥
प्रेतो मु॒ञ्चामि॒ नामुतः᳚ सुब॒द्धाम॒मुत᳚स्करम् ।
यथे॒यमि᳚न्द्र मीढ्वः सुपु॒त्रा सु॒भगास᳚ति ॥
प्र । इ॒तः । मु॒ञ्चामि᳚ । न । अ॒मुतः᳚ । सु॒॑ब॒द्धाम् । अ॒मुतः᳚ । क॒र॒म् ।
यथा᳚ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒॑पु॒त्रा । सु॒॑भगा᳚ । अस᳚ति ॥
इतः पितृकुलात्प्रमुञ्चामि त्वां नामुतो भर्तृगृहात्प्रमुञ्चामि। अमुतो भर्तृगृहे सुबद्धां करम्। यथेयं कन्या हे इन्द्र मीढ्वः सेक्तः सुपुत्रा सुभगा सुष्ठु भाग्या वासति भवति तथा कुरु॥२५॥
पू॒षा त्वे॒तो न᳚यतु हस्त॒गृह्या॒श्विना᳚ त्वा॒ प्र व᳚हतां॒ रथे᳚न ।
गृ॒हान्ग᳚च्छ गृ॒हप᳚त्नी॒ यथासो᳚ व॒शिनी॒ त्वं वि॒दथ॒मा व᳚दासि ॥
पू॒षा । त्वा॒ । इ॒तः । न॒य॒तु॒ । ह॒स्त॒॑गृह्य᳚ । अ॒श्विना᳚ । त्वा॒ । प्र । व॒ह॒ता॒म् । रथे᳚न ।
गृ॒हान् । ग॒च्छ॒ । गृ॒ह॑प᳚त्नी । यथा᳚ । असः᳚ । व॒शिनी᳚ । त्वम् । वि॒दथ᳚म् । आ । व॒दा॒सि॒ ॥
विवाहानन्तरभाविनि प्रयाणे पूषा त्वेतो नयत्वित्यनया रथादियानमारोहयेत्। सुत्रितं च। पूशा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत्। आ. गृ. १-८-१॥
हस्तगृह्य ग्राह्यहस्तः पूशा त्वामितो नयतु। प्रापयतु। अश्विनाश्विनौ त्वा त्वां रथेन प्र वहताम्। प्रगमयताम्। गृहान् भर्तृसम्बन्धिनो गच्छ त्वं गृहपत्नी यथासः भवसि स्वगृहस्वामिनी भवसि। वशिनी सर्वेषां गृहगतानां वशं प्रापयित्री प्रत्युर्वशे वर्तमाना वा विधथं पतिगृहमा वदासि। आवदसि। ग्रुहस्थितं भृत्यादिजनमावद॥२६॥
इ॒ह प्रि॒यं प्र॒जया᳚ ते॒ समृ᳚ध्यताम॒स्मिन्गृ॒हे गार्ह᳚पत्याय जागृहि ।
ए॒ना पत्या᳚ त॒न्वं१॒᳚ सं सृ᳚ज॒स्वाधा॒ जिव्री᳚ वि॒दथ॒मा व᳚दाथः ॥
इ॒ह । प्रि॒यम् । प्र॒॑जया᳚ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह᳚॑पत्याय । जा॒गृ॒हि॒ ।
ए॒ना । पत्या᳚ । त॒न्व᳚म् । सम् । सृ॒ज॒स्व॒ । अध᳚ । जिव्री॒ इति᳚ । वि॒दथ᳚म् । आ । व॒दा॒थः॒ ॥
इह प्रियमित्येषा वध्वा गृहप्रवेशनी। सूत्रितं च। इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्। आ. गृ. १-८-८। इति॥
हे वधु ते तवेहास्मिन्पतिकुले प्रियं प्रजया सह समृध्यताम्। अस्मिन्गृहे गार्हपत्याय गृहपतित्वाय जागृहि। बुध्यस्व्व। एनानेन पत्या सह तन्वं स्वीयं शरीरं सं सृजस्व। संसृष्टाभव। अधाथ जिव्री जीर्णौ जायापती युवां विधथं गृहमा वदाथः। आभिमुख्येन वदतम्॥२७॥
नी॒ल॒लो॒हि॒तं भ᳚वति कृ॒त्यास॒क्तिर्व्य᳚ज्यते ।
एध᳚न्ते अस्या ज्ञा॒तय॒ः पति᳚र्ब॒न्धेषु᳚ बध्यते ॥
नी॒ल॒॑लो॒हि॒तम् । भ॒व॒ति॒ । कृ॒त्या । आ॒स॒क्तिः । वि । अ॒ज्य॒ते॒ ।
एध᳚न्ते । अ॒स्याः॒ । ज्ञा॒तयः᳚ । पतिः᳚ । ब॒न्धेषु᳚ । ब॒ध्य॒ते॒ ॥
कृत्याभिचाराभिमानिनी देवता नीललोहितं भवन्ति। नीलं च लोहितं च तस्या रूपं भवतीत्यर्थः। सा कृत्यासक्तिरासक्तास्यां सम्बद्धा व्यज्यते। त्यज्यत इत्यर्थः। तस्या कृत्यायामपगतायामस्या वध्वा ज्ञातय एधन्ते वर्धन्ते। पतिर्बन्धेषु सांसारिकेषु बध्यते॥२८॥
परा᳚ देहि शामु॒ल्यं᳚ ब्र॒ह्मभ्यो॒ वि भ᳚जा॒ वसु᳚ ।
कृ॒त्यैषा प॒द्वती᳚ भू॒त्व्या जा॒या वि᳚शते॒ पति᳚म् ॥
परा᳚ । दे॒हि॒ । शा॒मु॒ल्य᳚म् । ब्र॒ह्म॑भ्यः᳚ । वि । भ॒ज॒ । वसु᳚ ।
कृ॒त्या । ए॒षा । प॒त्॑वती᳚ । भू॒त्वी । आ । जा॒या । वि॒श॒ते॒ । पति᳚म् ॥
शामुल्यम्। शामलमित्यर्थः। शमलं शारीरं मलम्। शरीरावच्छन्नस्य मलस्य धारकम् वस्त्रं परा देहि। परात्यज। धृतप्रायश्चित्यार्थम् ब्रह्मभ्यो ब्राह्मणेभ्यो वसु धनं वि भज। प्रयच्छेत्यर्थः। किमर्थं वधूवासः परित्याग इति चेत् उच्यते। एषा कृत्या पद्वती पादवती सती जाया भूत्वी भुत्वा पतिं विशते। कृत्यारूपवासः प्रवेशात् कृत्या जाया भूत्वा विश्वत इत्युपचर्यते। अतस्तत्परित्यागे कृतैव त्यक्ता भवतीत्यर्थः। यदि वधूवासः स्वयम् निधत्ते तदैवं भवतीति वधूवासः संस्पर्शनं निन्दायुक्तम्॥२९॥
अ॒श्री॒रा त॒नूर्भ᳚वति॒ रुश᳚ती पा॒पया᳚मु॒या ।
पति॒र्यद्व॒ध्वो॒३॒᳚ वास᳚सा॒ स्वमङ्ग᳚मभि॒धित्स᳚ते ॥
अ॒श्री॒रा । त॒नूः । भ॒व॒ति॒ । रुश᳚ती । पा॒पया᳚ । अ॒मु॒या ।
पतिः᳚ । यत् । व॒ध्वः᳚ । वास᳚सा । स्वम् । अङ्ग᳚म् । अ॒भि॒॑धित्स᳚ते ॥
अत्रापि वधूवसः संस्पर्शनिन्दोच्यते। तनूर्वरस्य सम्बन्धिन्यश्रीरश्रीका भवति। कथं स्यादिति उच्यते। रुशती। रुशदिति वर्णनाम। दीप्तयामुयानया पापरुपया कृत्यया युक्ता चेत्तनूः। तदेवाह। पतिर्यद्यदि वध्वो वाससा स्वमङ्गमभिधित्सते परिधातुमिच्छति॥३०॥
ये व॒ध्व᳚श्च॒न्द्रं व᳚ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु᳚ ।
पुन॒स्तान्य॒ज्ञिया᳚ दे॒वा नय᳚न्तु॒ यत॒ आग᳚ताः ॥
ये । व॒ध्वः᳚ । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्माः᳚ । यन्ति᳚ । जना᳚त् । अनु᳚ ।
पुन॒रिति᳚ । तान् । य॒ज्ञियाः᳚ । दे॒वाः । नय᳚न्तु । यतः᳚ । आ॑ग᳚ताः ॥
वध्वश्चन्द्रं हिरण्यरूपं वहतुं ये यक्ष्मा व्याधयोऽनु यन्ति प्राप्नुवन्ति जनादस्मद्विरोधिनः सकाशात्। यद्वा। जनाद्यमाख्यात्। तान्पुनर्नयन्तु प्रापयन्तु यज्ञिया यज्ञार्हा देवा इन्द्रादयः। यत आगता यस्मात्ते यक्ष्मा आगताः तत्र तान्नयन्तु॥३१॥
मा वि᳚दन्परिप॒न्थिनो॒ य आ॒सीद᳚न्ति॒ दम्प᳚ती ।
सु॒गेभि᳚र्दु॒र्गमती᳚ता॒मप᳚ द्रा॒न्त्वरा᳚तयः ॥
मा । वि॒द॒न् । प॒रि॒॑प॒न्थिनः᳚ । ये । आ॒॑सीद᳚न्ति॒ । दम्प᳚ती॒ इति॒ दम्॑प᳚ती ।
सु॒॑गेभिः᳚ । दुः॒॑गम् । अति᳚ । इ॒ता॒म् । अप᳚ । द्रा॒न्तु॒ । अरा᳚तयः ॥
वध्वाः प्रयाणे मा विदन्नित्येषा याज्या। सुत्रितं च। कल्याणेषु देशवृक्षचतुष्पथेषु मा विदन्परिपन्थिन इति जपेत्। आ. गृ. १-८-६। इति॥
परिपन्थिनः पर्यवस्थातारः शत्रवो मा विदन् मा प्रापयन् ये परिपन्थिनो दम्पती आसीदन्ति अभिगच्छन्ति। सुगेभिः सुगैर्मार्गैर्दुर्गं दुःखेन गन्तुं शक्यं दुर्गमं देशमतीताम्। अतिगच्छताम्। आरातयोऽदातारः शत्रवोऽपद्रान्तु। अपगच्छन्तु॥३२॥
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य᳚त ।
सौभा᳚ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे᳚तन ॥
सु॒॑म॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्॑एत᳚ । पश्य᳚त ।
सौभा᳚ग्यम् । अ॒स्यै॒ । द॒त्त्वाय᳚ । अथ᳚ । अस्त᳚म् । वि । परा᳚ । इ॒त॒न॒ ॥
इयं वधूः सुमङ्गलीः शोभनमङ्गला। अत इमां सर्व अशीः कर्तारः समेत। सङ्गच्छत। तां पश्यत च। तां सङ्गताश्च दृष्ट्वास्या ऊढायै सौभाग्यं दत्त्वाय दत्त्वाथास्तम्। गृहनामैतत्। स्वस्वसम्बन्धिनं वि परेतन। विविधं परागच्छत॥३३॥
तृ॒ष्टमे॒तत्कटु᳚कमे॒तद᳚पा॒ष्ठव᳚द्वि॒षव॒न्नैतदत्त᳚वे ।
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू᳚यमर्हति ॥
तृ॒ष्टम् । ए॒तत् । कटु᳚कम् । ए॒तत् । अ॒पा॒ष्ठ॑व᳚त् । वि॒ष॑व᳚त् । न । ए॒तत् । अत्त᳚वे ।
सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू᳚॑यम् । अ॒र्ह॒ति॒ ॥
अनयापि वधूवस्त्रपरित्यागः प्रतिपाद्यते। एतद्वस्त्रं तृष्टं दाहजनकम्। तथैतत्कटुकम्। तथापाष्ठवत्। अपाष्ठमपस्थितमृजीषम्। तद्वत्। तथा विषवत्। नैतद्वस्त्रमत्तवे। अत्तव्यम्। अनुपयोग्यम्। यो ब्रह्मा ब्राह्मणः सूर्यामिदानीं प्रस्तुतां देवीं विद्यात् सम्यग्जानीयात् स इत्स एव वाधूयं वधूवस्त्रमर्हति॥३४॥
आ॒शस᳚नं वि॒शस᳚न॒मथो᳚ अधिवि॒कर्त᳚नम् ।
सू॒र्याया᳚ः पश्य रू॒पाणि॒ तानि᳚ ब्र॒ह्मा तु शु᳚न्धति ॥
आ॒॑शस᳚नम् । वि॒॑शस᳚नम् । अथो॒ इति᳚ । अ॒धि॒॑वि॒कर्त᳚नम् ।
सू॒र्यायाः᳚ । प॒श्य॒ । रू॒पाणि᳚ । तानि᳚ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥
आशसनं तूषाधानम्। तच्चान्यवर्णं भवति। विशसनं शिरसि निधीयमानम्। तादृशं दशान्ते निधीयमानमधिविकर्तनं यत्त्रिधा वासो विकृन्तन्ति। तान्याशसनादीनि वासांस्यवस्थितानि सूर्याया रूपाणि भवन्ति। तानि पश्य। एवं भुतान्याशसनादीनि पुरा सूर्यास्वशरीरे स्थितान्यमङ्गलानि वासांसि विधत्ते। तानि रूपाणि सूर्याविद्ब्राह्मण एव तस्माद्वाससः सकाशाच्छुन्दति। अपनयति॥३५॥
गृ॒भ्णामि᳚ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या᳚ ज॒रद᳚ष्टि॒र्यथासः᳚ ।
भगो᳚ अर्य॒मा स᳚वि॒ता पुरं᳚धि॒र्मह्यं᳚ त्वादु॒र्गार्ह᳚पत्याय दे॒वाः ॥
गृ॒भ्णामि᳚ । ते॒ । सौ॒भ॒ग॒॑त्वाय᳚ । हस्त᳚म् । मया᳚ । पत्या᳚ । ज॒रत्॑अ᳚ष्टिः । यथा᳚ । असः᳚ ।
भगः᳚ । अ॒र्य॒मा । स॒वि॒ता । पुर᳚म्॑धिः । मह्य᳚म् । त्वा॒ । अ॒दुः॒ । गार्ह᳚॑पत्याय । दे॒वाः ॥
विवाहे कन्या हस्तग्रहणे गृभ्णामीत्येषा। सुत्रितं च। गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयात्। आ. गृ. १-७-३। इति॥
हे वधु ते तव हस्तमहं गृभ्णामि। गृह्णामि। किमर्थम्। सौभगत्वाय सौभाग्याय। मया पत्या त्वं यथा जरदष्टिः प्राप्तवार्धक्यासः भवसि। भगोऽर्यमा सविता पुरन्धिः पूषा एते देवास्त्वा त्वां मह्यवदुः। दत्तवन्तः। किमर्थं गार्हपत्याय। यथाहं गृहपतिः स्यामिति॥३६॥
तां पू᳚षञ्छि॒वत᳚मा॒मेर᳚यस्व॒ यस्यां॒ बीजं᳚ मनु॒ष्या॒३॒᳚ वप᳚न्ति ।
या न᳚ ऊ॒रू उ᳚श॒ती वि॒श्रया᳚ते॒ यस्या᳚मु॒शन्त᳚ः प्र॒हरा᳚म॒ शेप᳚म् ॥
ताम् । पू॒ष॒न् । शि॒व॑त᳚माम् । आ । ई॒र॒य॒स्व॒ । यस्या᳚म् । बीज᳚म् । म॒नु॒ष्याः᳚ । वप᳚न्ति ।
या । नः॒ । ऊ॒रू इति᳚ । उ॒श॒ती । वि॒॑श्रया᳚ते । यस्या᳚म् । उ॒शन्तः᳚ । प्र॒॑हरा᳚म । शेप᳚म् ॥
हे पूषन्पोषकैतन्नामक देव शिवतमामत्यन्तमङ्गलभुतां तामेरयस्व। आ ईरय। सर्वतः प्रेरय। यस्यामूरौ बीजं रेतोलक्षणं मनुष्या वपन्ति आदधते। या नोऽस्माकमूरू उषती कामयमाना विश्रयाते। यस्या मूरावुशन्तः कामयमाना वयं शेपं स्पर्शनयोग्यं पुंस्प्र जननं प्रहराम। उरौ व्यञ्जनसम्बन्धं करवामेत्यर्थः॥३७॥
तुभ्य॒मग्रे॒ पर्य᳚वहन्त्सू॒र्यां व᳚ह॒तुना᳚ स॒ह ।
पुन॒ः पति᳚भ्यो जा॒यां दा अ᳚ग्ने प्र॒जया᳚ स॒ह ॥
तुभ्य᳚म् । अग्रे᳚ । परि᳚ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना᳚ । स॒ह ।
पुन॒रिति᳚ । पति᳚॑भ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒॑जया᳚ । स॒ह ॥
गन्धर्वा हे अग्ने तुभ्यमग्रे पर्यवहन्। प्रायच्छन्नित्यर्थः। काम् । सूर्याम् । केन सह। वहतुना सह। त्वं च तां सूर्यां वहतुना सह सोमाय प्रायच्छः। तद्वदिदानीमपि हे अग्ने पुनः पतिभ्योऽस्मभ्यं जायां प्रजया सह दाः। देहि॥३८॥
पुन॒ः पत्नी᳚म॒ग्निर᳚दा॒दायु᳚षा स॒ह वर्च᳚सा ।
दी॒र्घायु᳚रस्या॒ यः पति॒र्जीवा᳚ति श॒रदः᳚ श॒तम् ॥
पुन॒रिति᳚ । पत्नी᳚म् । अ॒ग्निः । अ॒दा॒त् । आयु᳚षा । स॒ह । वर्च᳚सा ।
दी॒र्घ॑आ᳚युः । अ॒स्याः॒ । यः । पतिः᳚ । जीवा᳚ति । श॒रदः᳚ । श॒तम् ॥
पुनः स्वगृहीतां पत्नीमग्निरायुषा सह वर्चसा सहादात्। प्रायच्छत्। अस्या अग्निदत्ताया यः पतिः पुमान् स दीर्घायुः सञ्शरदः शतं शतसंवत्सरं जीवाति। जीवतु॥३९॥
सोमः᳚ प्रथ॒मो वि᳚विदे गन्ध॒र्वो वि᳚विद॒ उत्त᳚रः ।
तृ॒तीयो᳚ अ॒ग्निष्टे॒ पति᳚स्तु॒रीय᳚स्ते मनुष्य॒जाः ॥
सोमः᳚ । प्र॒थ॒मः । वि॒वि॒दे॒ । ग॒न्ध॒र्वः । वि॒वि॒दे॒ । उत्॑त᳚रः ।
तृ॒तीयः᳚ । अ॒ग्निः । ते॒ । पतिः᳚ । तु॒रीयः᳚ । ते॒ । म॒नु॒ष्य॒॑जाः ॥
जातां कन्यां सोमः प्रथमभावी सन् विविदे। लब्धवान्। गन्धर्व उत्तरः सन् विविदे। लब्धवान्। अग्निस्तृतीयः पतिस्ते तव। पश्चान्मनुष्यजाः पतिस्तुरीयश्चतुर्थः॥४०॥
सोमो᳚ ददद्गन्ध॒र्वाय᳚ गन्ध॒र्वो द᳚दद॒ग्नये᳚ ।
र॒यिं च᳚ पु॒त्रा{4}श्चा᳚दाद॒ग्निर्मह्य॒मथो᳚ इ॒माम् ॥
सोमः᳚ । द॒द॒त् । ग॒न्ध॒र्वाय᳚ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये᳚ ।
र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य᳚म् । अथो॒ इति᳚ । इ॒माम् ॥
सोमो गन्धर्वाय प्रथदुं ददत्। प्रादात्। गन्धर्वोऽग्नये प्रादात्। अथो अपि चाग्निरिमां कन्यां रयिं धनं पुत्रांश्च मह्यमदात्॥४१॥
इ॒हैव स्तं॒ मा वि यौ᳚ष्टं॒ विश्व॒मायु॒र्व्य᳚श्नुतम् ।
क्रीळ᳚न्तौ पु॒त्रैर्नप्तृ᳚भि॒र्मोद᳚मानौ॒ स्वे गृ॒हे ॥
इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व᳚म् । आयुः᳚ । वि । अ॒श्नु॒त॒म् ।
क्रीळ᳚न्तौ । पु॒त्रैः । नप्तृ᳚॑भिः । मोद᳚मानौ । स्वे । गृ॒हे ॥
इहैव स्तम्। इहैवास्मिंल्लोके स्तम्। भवतम्। मा वि यौष्टम्। मा पृथग्भुतम्। विश्वमायुर्व्यश्नुतम्। प्राप्नुतम्। किञ्च पुत्रैर्नप्तृभिः पौत्रैः सह स्वे गृहे मोदमानौ भवतमिति शेषः॥४२॥
आ नः᳚ प्र॒जां ज᳚नयतु प्र॒जाप᳚तिराजर॒साय॒ सम᳚नक्त्वर्य॒मा ।
अदु᳚र्मङ्गलीः पतिलो॒कमा वि᳚श॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
आ । नः॒ । प्र॒॑जाम् । ज॒न॒य॒तु॒ । प्र॒जा॑प᳚तिः । आ॒॑ज॒र॒साय᳚ । सम् । अ॒न॒क्तु॒ । अ॒र्य॒मा ।
अदुः᳚॑मङ्गलीः । प॒ति॒॑लो॒कम् । आ । वि॒श॒ । शम् । नः॒ । भ॒व॒ । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
गृहप्रवेश आ नः प्रजां जनयत्वित्यद्याश्चतस्रो होमार्थाः। सूत्रितं च। आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा। आ. गृ. १-८-९। इति॥
प्रजापतिर्देवो नोऽस्माकं प्रजामा जनयतु। अर्यमा चाजरसाय जरापर्यन्तं जीवानाय समनक्तु। सङ्गमयतु। सा। त्वमदुर्मङ्गलीर्दुमङ्गल रहिता सुमङ्गली। यद्वा। या मङ्गलाचारान्दूषयति सा दुर्मङ्गली। ततोऽन्यादुर्मङ्गली। तादृशी सति पतिलोकं पतिसमीपमा विश। प्राप्नुहि। नोऽस्माकं द्विपदे शं भव। तथा च शं चतुष्पदे भव॥४३॥
अघो᳚रचक्षु॒रप᳚तिघ्न्येधि शि॒वा प॒शुभ्य᳚ः सु॒मना᳚ः सु॒वर्चा᳚ः ।
वी॒र॒सूर्दे॒वका᳚मा स्यो॒ना शं नो᳚ भव द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
अघो᳚र॑चक्षुः । अप᳚ति॑घ्नी । ए॒धि॒ । शि॒वा । प॒शु॑भ्यः᳚ । सु॒॑मनाः᳚ । सु॒॑वर्चाः᳚ ।
वी॒र॒॑सूः । दे॒व॑का᳚मा । स्यो॒ना । शम् । नः॒ । भ॒व॒ । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
हे वधु त्वमघोरचक्षुः क्रोधादभयङ्करचक्षुरेधि। भव। तथापतिघ्नी भव। तथा पशुभ्यः शिवा हितकरी भव। सुमनाः सुवर्चाश्च भव। वीरसूः पुत्राणामेव प्रसवित्री देवकामा स्योना सुखकरा च भव॥४४॥
इ॒मां त्वमि᳚न्द्र मीढ्वः सुपु॒त्रां सु॒भगां᳚ कृणु ।
दशा᳚स्यां पु॒त्राना धे᳚हि॒ पति᳚मेकाद॒शं कृ᳚धि ॥
इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒॑पु॒त्राम् । सु॒॑भगा᳚म् । कृ॒णु॒ ।
दश᳚ । अ॒स्या॒म् । पु॒त्रान् । आ । धे॒हि॒ । पति᳚म् । ए॒का॒द॒शम् । कृ॒धि॒ ॥
हे इन्द्र त्वमिमां वधूं सुपुत्रां सुभगां च कृणु। कृधि। अस्यां वध्वां दश पुत्राना धेहि। पतिमेकादशं कृधि। दश पुत्राः पतिरेकादशो यथा स्यात्तथा कृधि। कृणु॥४५॥
स॒म्राज्ञी॒ श्वशु᳚रे भव स॒म्राज्ञी᳚ श्व॒श्र्वां भ᳚व ।
नना᳚न्दरि स॒म्राज्ञी᳚ भव स॒म्राज्ञी॒ अधि᳚ दे॒वृषु᳚ ॥
स॒म्॑राज्ञी᳚ । श्वशु᳚रे । भ॒व॒ । स॒म्॑राज्ञी᳚ । श्व॒श्र्वाम् । भ॒व॒ ।
नना᳚न्दरि । स॒म्॑राज्ञी᳚ । भ॒व॒ । स॒म्॑राज्ञी᳚ । अधि᳚ । दे॒वृषु᳚ ॥
हे वधु श्वशुरादिषु त्वं सम्राज्ञी भव। देवृषु। देवरेष्वित्यर्थः॥४६॥
सम᳚ञ्जन्तु॒ विश्वे᳚ दे॒वाः समापो॒ हृद᳚यानि नौ ।
सं मा᳚त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री᳚ दधातु नौ ॥
सम् । अ॒ञ्ज॒न्तु॒ । विश्वे᳚ । दे॒वाः । सम् । आपः᳚ । हृद᳚यानि । नौ॒ ।
सम् । मा॒त॒रिश्वा᳚ । सम् । धा॒ता । सम् । ऊं॒ इति᳚ । देष्ट्री᳚ । द॒धा॒तु॒ । नौ॒ ॥
समञ्जन्त्वित्येषा वरस्य दधिप्राशने वधूवरयोर्हृदयस्पर्शने वा विनियुक्ता। तथा च सूत्रितम् । समञ्जन्तु विश्वे देवा इति दध्नः प्राश्य प्रति प्रयच्छेदाज्यशेषेण वानक्ति हृदये। आ. गृ. १-८-९। इति॥
विश्वे देवाः सर्वे देवा नौ हृदयानि मानसानि समञ्जान्तु। सम्यगञ्जन्तु। अपगतदुःखादिक्लेशानि कृत्वा लौकिकवैदिकविषयेषु प्रकाशयुक्तानि कुर्वन्त्वुत्यर्थः। आपश्च समञ्जन्तु। तथा मातरिश्वा नौ हृदयानि सं दधातु। आवयोर्बुद्धीः परस्परानुकूलाः करोत्वित्यर्थः। धात च सं दधातु। देष्ट्री धात्री फलानाम्। सरस्वतीत्यर्थः। सा च सं दधातु। सन्धानं करोतु॥४७॥
वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये
अष्टमाष्टके तृतीयोऽध्यायः समाप्तः॥