श्रवणम्

10.85.45
इ॒मां त्वमि᳚न्द्र मीढ्वः सुपु॒त्रां सु॒भगां᳚ कृणु ।
दशा᳚स्यां पु॒त्राना धे᳚हि॒ पति᳚मेकाद॒शं कृ᳚धि ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒॑पु॒त्राम् । सु॒॑भगा᳚म् । कृ॒णु॒ ।
दश᳚ । अ॒स्या॒म् । पु॒त्रान् । आ । धे॒हि॒ । पति᳚म् । ए॒का॒द॒शम् । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वमिमां वधूं सुपुत्रां सुभगां च कृणु। कृधि। अस्यां वध्वां दश पुत्राना धेहि। पतिमेकादशं कृधि। दश पुत्राः पतिरेकादशो यथा स्यात्तथा कृधि। कृणु॥४५॥