मा वि᳚दन्परिप॒न्थिनो॒ य आ॒सीद᳚न्ति॒ दम्प᳚ती ।
सु॒गेभि᳚र्दु॒र्गमती᳚ता॒मप᳚ द्रा॒न्त्वरा᳚तयः ॥
सु॒गेभि᳚र्दु॒र्गमती᳚ता॒मप᳚ द्रा॒न्त्वरा᳚तयः ॥
पदपाठः (Word-by-word)
मा । वि॒द॒न् । प॒रि॒॑प॒न्थिनः᳚ । ये । आ॒॑सीद᳚न्ति॒ । दम्प᳚ती॒ इति॒ दम्॑प᳚ती ।
सु॒॑गेभिः᳚ । दुः॒॑गम् । अति᳚ । इ॒ता॒म् । अप᳚ । द्रा॒न्तु॒ । अरा᳚तयः ॥
सु॒॑गेभिः᳚ । दुः॒॑गम् । अति᳚ । इ॒ता॒म् । अप᳚ । द्रा॒न्तु॒ । अरा᳚तयः ॥
सायणभाष्यम् (Sayana Commentary)
वध्वाः प्रयाणे मा विदन्नित्येषा याज्या। सुत्रितं च। कल्याणेषु देशवृक्षचतुष्पथेषु मा विदन्परिपन्थिन इति जपेत्। आ. गृ. १-८-६। इति॥
परिपन्थिनः पर्यवस्थातारः शत्रवो मा विदन् मा प्रापयन् ये परिपन्थिनो दम्पती आसीदन्ति अभिगच्छन्ति। सुगेभिः सुगैर्मार्गैर्दुर्गं दुःखेन गन्तुं शक्यं दुर्गमं देशमतीताम्। अतिगच्छताम्। आरातयोऽदातारः शत्रवोऽपद्रान्तु। अपगच्छन्तु॥३२॥