पू॒षा त्वे॒तो न᳚यतु हस्त॒गृह्या॒श्विना᳚ त्वा॒ प्र व᳚हतां॒ रथे᳚न ।
गृ॒हान्ग᳚च्छ गृ॒हप᳚त्नी॒ यथासो᳚ व॒शिनी॒ त्वं वि॒दथ॒मा व᳚दासि ॥
गृ॒हान्ग᳚च्छ गृ॒हप᳚त्नी॒ यथासो᳚ व॒शिनी॒ त्वं वि॒दथ॒मा व᳚दासि ॥
पदपाठः (Word-by-word)
पू॒षा । त्वा॒ । इ॒तः । न॒य॒तु॒ । ह॒स्त॒॑गृह्य᳚ । अ॒श्विना᳚ । त्वा॒ । प्र । व॒ह॒ता॒म् । रथे᳚न ।
गृ॒हान् । ग॒च्छ॒ । गृ॒ह॑प᳚त्नी । यथा᳚ । असः᳚ । व॒शिनी᳚ । त्वम् । वि॒दथ᳚म् । आ । व॒दा॒सि॒ ॥
गृ॒हान् । ग॒च्छ॒ । गृ॒ह॑प᳚त्नी । यथा᳚ । असः᳚ । व॒शिनी᳚ । त्वम् । वि॒दथ᳚म् । आ । व॒दा॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
विवाहानन्तरभाविनि प्रयाणे पूषा त्वेतो नयत्वित्यनया रथादियानमारोहयेत्। सुत्रितं च। पूशा त्वेतो नयतु हस्तगृह्येति यानमारोहयेत्। आ. गृ. १-८-१॥
हस्तगृह्य ग्राह्यहस्तः पूशा त्वामितो नयतु। प्रापयतु। अश्विनाश्विनौ त्वा त्वां रथेन प्र वहताम्। प्रगमयताम्। गृहान् भर्तृसम्बन्धिनो गच्छ त्वं गृहपत्नी यथासः भवसि स्वगृहस्वामिनी भवसि। वशिनी सर्वेषां गृहगतानां वशं प्रापयित्री प्रत्युर्वशे वर्तमाना वा विधथं पतिगृहमा वदासि। आवदसि। ग्रुहस्थितं भृत्यादिजनमावद॥२६॥