श्रवणम्

10.85.47
सम᳚ञ्जन्तु॒ विश्वे᳚ दे॒वाः समापो॒ हृद᳚यानि नौ ।
सं मा᳚त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री᳚ दधातु नौ ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒ञ्ज॒न्तु॒ । विश्वे᳚ । दे॒वाः । सम् । आपः᳚ । हृद᳚यानि । नौ॒ ।
सम् । मा॒त॒रिश्वा᳚ । सम् । धा॒ता । सम् । ऊं॒ इति᳚ । देष्ट्री᳚ । द॒धा॒तु॒ । नौ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समञ्जन्त्वित्येषा वरस्य दधिप्राशने वधूवरयोर्हृदयस्पर्शने वा विनियुक्ता। तथा च सूत्रितम् । समञ्जन्तु विश्वे देवा इति दध्नः प्राश्य प्रति प्रयच्छेदाज्यशेषेण वानक्ति हृदये। आ. गृ. १-८-९। इति॥

विश्वे देवाः सर्वे देवा नौ हृदयानि मानसानि समञ्जान्तु। सम्यगञ्जन्तु। अपगतदुःखादिक्लेशानि कृत्वा लौकिकवैदिकविषयेषु प्रकाशयुक्तानि कुर्वन्त्वुत्यर्थः। आपश्च समञ्जन्तु। तथा मातरिश्वा नौ हृदयानि सं दधातु। आवयोर्बुद्धीः परस्परानुकूलाः करोत्वित्यर्थः। धात च सं दधातु। देष्ट्री धात्री फलानाम्। सरस्वतीत्यर्थः। सा च सं दधातु। सन्धानं करोतु॥४७॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके तृतीयोऽध्यायः समाप्तः॥