स॒म्राज्ञी॒ श्वशु᳚रे भव स॒म्राज्ञी᳚ श्व॒श्र्वां भ᳚व ।
नना᳚न्दरि स॒म्राज्ञी᳚ भव स॒म्राज्ञी॒ अधि᳚ दे॒वृषु᳚ ॥
नना᳚न्दरि स॒म्राज्ञी᳚ भव स॒म्राज्ञी॒ अधि᳚ दे॒वृषु᳚ ॥
पदपाठः (Word-by-word)
स॒म्॑राज्ञी᳚ । श्वशु᳚रे । भ॒व॒ । स॒म्॑राज्ञी᳚ । श्व॒श्र्वाम् । भ॒व॒ ।
नना᳚न्दरि । स॒म्॑राज्ञी᳚ । भ॒व॒ । स॒म्॑राज्ञी᳚ । अधि᳚ । दे॒वृषु᳚ ॥
नना᳚न्दरि । स॒म्॑राज्ञी᳚ । भ॒व॒ । स॒म्॑राज्ञी᳚ । अधि᳚ । दे॒वृषु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वधु श्वशुरादिषु त्वं सम्राज्ञी भव। देवृषु। देवरेष्वित्यर्थः॥४६॥