नी॒ल॒लो॒हि॒तं भ᳚वति कृ॒त्यास॒क्तिर्व्य᳚ज्यते ।
एध᳚न्ते अस्या ज्ञा॒तय॒ः पति᳚र्ब॒न्धेषु᳚ बध्यते ॥
एध᳚न्ते अस्या ज्ञा॒तय॒ः पति᳚र्ब॒न्धेषु᳚ बध्यते ॥
पदपाठः (Word-by-word)
नी॒ल॒॑लो॒हि॒तम् । भ॒व॒ति॒ । कृ॒त्या । आ॒स॒क्तिः । वि । अ॒ज्य॒ते॒ ।
एध᳚न्ते । अ॒स्याः॒ । ज्ञा॒तयः᳚ । पतिः᳚ । ब॒न्धेषु᳚ । ब॒ध्य॒ते॒ ॥
एध᳚न्ते । अ॒स्याः॒ । ज्ञा॒तयः᳚ । पतिः᳚ । ब॒न्धेषु᳚ । ब॒ध्य॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
कृत्याभिचाराभिमानिनी देवता नीललोहितं भवन्ति। नीलं च लोहितं च तस्या रूपं भवतीत्यर्थः। सा कृत्यासक्तिरासक्तास्यां सम्बद्धा व्यज्यते। त्यज्यत इत्यर्थः। तस्या कृत्यायामपगतायामस्या वध्वा ज्ञातय एधन्ते वर्धन्ते। पतिर्बन्धेषु सांसारिकेषु बध्यते॥२८॥