श्रवणम्

10.85.36 समानपद
गृ॒भ्णामि᳚ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या᳚ ज॒रद᳚ष्टि॒र्यथासः᳚ ।
भगो᳚ अर्य॒मा स᳚वि॒ता पुरं᳚धि॒र्मह्यं᳚ त्वादु॒र्गार्ह᳚पत्याय दे॒वाः ॥
▶ पदपाठः (Word-by-word)
गृ॒भ्णामि᳚ । ते॒ । सौ॒भ॒ग॒॑त्वाय᳚ । हस्त᳚म् । मया᳚ । पत्या᳚ । ज॒रत्॑अ᳚ष्टिः । यथा᳚ । असः᳚ ।
भगः᳚ । अ॒र्य॒मा । स॒वि॒ता । पुर᳚म्॑धिः । मह्य᳚म् । त्वा॒ । अ॒दुः॒ । गार्ह᳚॑पत्याय । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विवाहे कन्या हस्तग्रहणे गृभ्णामीत्येषा। सुत्रितं च। गृभ्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयात्। आ. गृ. १-७-३। इति॥

हे वधु ते तव हस्तमहं गृभ्णामि। गृह्णामि। किमर्थम्। सौभगत्वाय सौभाग्याय। मया पत्या त्वं यथा जरदष्टिः प्राप्तवार्धक्यासः भवसि। भगोऽर्यमा सविता पुरन्धिः पूषा एते देवास्त्वा त्वां मह्यवदुः। दत्तवन्तः। किमर्थं गार्हपत्याय। यथाहं गृहपतिः स्यामिति॥३६॥