आ॒शस᳚नं वि॒शस᳚न॒मथो᳚ अधिवि॒कर्त᳚नम् ।
सू॒र्याया᳚ः पश्य रू॒पाणि॒ तानि᳚ ब्र॒ह्मा तु शु᳚न्धति ॥
सू॒र्याया᳚ः पश्य रू॒पाणि॒ तानि᳚ ब्र॒ह्मा तु शु᳚न्धति ॥
पदपाठः (Word-by-word)
आ॒॑शस᳚नम् । वि॒॑शस᳚नम् । अथो॒ इति᳚ । अ॒धि॒॑वि॒कर्त᳚नम् ।
सू॒र्यायाः᳚ । प॒श्य॒ । रू॒पाणि᳚ । तानि᳚ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥
सू॒र्यायाः᳚ । प॒श्य॒ । रू॒पाणि᳚ । तानि᳚ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
आशसनं तूषाधानम्। तच्चान्यवर्णं भवति। विशसनं शिरसि निधीयमानम्। तादृशं दशान्ते निधीयमानमधिविकर्तनं यत्त्रिधा वासो विकृन्तन्ति। तान्याशसनादीनि वासांस्यवस्थितानि सूर्याया रूपाणि भवन्ति। तानि पश्य। एवं भुतान्याशसनादीनि पुरा सूर्यास्वशरीरे स्थितान्यमङ्गलानि वासांसि विधत्ते। तानि रूपाणि सूर्याविद्ब्राह्मण एव तस्माद्वाससः सकाशाच्छुन्दति। अपनयति॥३५॥