श्रवणम्

10.85.37 समानपद
तां पू᳚षञ्छि॒वत᳚मा॒मेर᳚यस्व॒ यस्यां॒ बीजं᳚ मनु॒ष्या॒३॒᳚ वप᳚न्ति ।
या न᳚ ऊ॒रू उ᳚श॒ती वि॒श्रया᳚ते॒ यस्या᳚मु॒शन्त᳚ः प्र॒हरा᳚म॒ शेप᳚म् ॥
▶ पदपाठः (Word-by-word)
ताम् । पू॒ष॒न् । शि॒व॑त᳚माम् । आ । ई॒र॒य॒स्व॒ । यस्या᳚म् । बीज᳚म् । म॒नु॒ष्याः᳚ । वप᳚न्ति ।
या । नः॒ । ऊ॒रू इति᳚ । उ॒श॒ती । वि॒॑श्रया᳚ते । यस्या᳚म् । उ॒शन्तः᳚ । प्र॒॑हरा᳚म । शेप᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन्पोषकैतन्नामक देव शिवतमामत्यन्तमङ्गलभुतां तामेरयस्व। आ ईरय। सर्वतः प्रेरय। यस्यामूरौ बीजं रेतोलक्षणं मनुष्या वपन्ति आदधते। या नोऽस्माकमूरू उषती कामयमाना विश्रयाते। यस्या मूरावुशन्तः कामयमाना वयं शेपं स्पर्शनयोग्यं पुंस्प्र जननं प्रहराम। उरौ व्यञ्जनसम्बन्धं करवामेत्यर्थः॥३७॥