सोमे᳚नादि॒त्या ब॒लिन॒ः सोमे᳚न पृथि॒वी म॒ही ।
अथो॒ नक्ष᳚त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि᳚तः ॥
अथो॒ नक्ष᳚त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि᳚तः ॥
पदपाठः (Word-by-word)
सोमे᳚न । आ॒दि॒त्याः । ब॒लिनः᳚ । सोमे᳚न । पृ॒थि॒वी । म॒ही ।
अथो॒ इति᳚ । नक्ष᳚त्राणाम् । ए॒षाम् । उ॒प॑स्थे᳚ । सोमः᳚ । आ॑हि᳚तः ॥
अथो॒ इति᳚ । नक्ष᳚त्राणाम् । ए॒षाम् । उ॒प॑स्थे᳚ । सोमः᳚ । आ॑हि᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
सोमेनादित्या अदितेः पुत्रा इन्द्रादयो बलिनो भवन्ति। ऐन्द्रवायवादिग्रहपरिग्रहादिति भावः। तथा सोमेनाहुत्यात्मनाग्नौ हुतेन पृथिवी भूमिर्मही महती भवति। आहुत्या वृष्टिद्वारेण सस्यादिसम्पत्तेः। अथो अपि चायं सोमो नक्षत्रानामेषाम् । न क्षं त्रायन्त इति सक्षत्रा ग्रहचमसादयः। तेषामेषामुपस्थे सोमो रसात्मक आहितः। यद्वा। सिद्धानामेव सक्षत्राणामुपस्थ उपस्थाने द्युलोके सोम आहितः। तृतीयस्यामितो दिवि सोम आसीत्तं गायत्र्याहरत्। तै. ब्रा. ३-२-१-१। इत्यादिश्रुतेः। देवतारूपसोमपक्षे। सोमेनादित्या देवा बलिनो बलवन्तो भवन्ति तस्यैकैककलास्वादनात्। प्रथमां पिबते वह्निर्दितीयां पिबते रविरित्यादिस्मृतेः। सोमेन पृथिवी मही। अम्रुतसेकेनौषद्याअद्यभिवृद्ध्या पृथिव्या बलवत्त्वम् । चन्द्रस्य नक्षत्राणामुपस्थे स्थितिः प्रसिद्धा॥२॥