तृ॒ष्टमे॒तत्कटु᳚कमे॒तद᳚पा॒ष्ठव᳚द्वि॒षव॒न्नैतदत्त᳚वे ।
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू᳚यमर्हति ॥
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू᳚यमर्हति ॥
पदपाठः (Word-by-word)
तृ॒ष्टम् । ए॒तत् । कटु᳚कम् । ए॒तत् । अ॒पा॒ष्ठ॑व᳚त् । वि॒ष॑व᳚त् । न । ए॒तत् । अत्त᳚वे ।
सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू᳚॑यम् । अ॒र्ह॒ति॒ ॥
सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू᳚॑यम् । अ॒र्ह॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
अनयापि वधूवस्त्रपरित्यागः प्रतिपाद्यते। एतद्वस्त्रं तृष्टं दाहजनकम्। तथैतत्कटुकम्। तथापाष्ठवत्। अपाष्ठमपस्थितमृजीषम्। तद्वत्। तथा विषवत्। नैतद्वस्त्रमत्तवे। अत्तव्यम्। अनुपयोग्यम्। यो ब्रह्मा ब्राह्मणः सूर्यामिदानीं प्रस्तुतां देवीं विद्यात् सम्यग्जानीयात् स इत्स एव वाधूयं वधूवस्त्रमर्हति॥३४॥