रैभ्या᳚सीदनु॒देयी᳚ नाराशं॒सी न्योच᳚नी ।
सू॒र्याया᳚ भ॒द्रमिद्वासो॒ गाथ᳚यैति॒ परि᳚ष्कृतम् ॥
सू॒र्याया᳚ भ॒द्रमिद्वासो॒ गाथ᳚यैति॒ परि᳚ष्कृतम् ॥
पदपाठः (Word-by-word)
रैभी᳚ । आ॒सी॒त् । अ॒नु॒॑देयी᳚ । ना॒रा॒शं॒सी । नि॒॑ओच᳚नी ।
सू॒र्यायाः᳚ । भ॒द्रम् । इत् । वासः᳚ । गाथ᳚या । ए॒ति॒ । परि᳚॑कृतम् ॥
सू॒र्यायाः᳚ । भ॒द्रम् । इत् । वासः᳚ । गाथ᳚या । ए॒ति॒ । परि᳚॑कृतम् ॥
सायणभाष्यम् (Sayana Commentary)
अभिः सूर्या स्वविवाहमस्तौदित्युक्तम्। सूर्या सावित्री ब्रूते। रैभी। रैभ्यः काश्चनर्चः। रैभीः शंसति रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकमायुन्नित्यादिब्राह्मणविहिता रैभ्यः। ऐ. ब्रा. ६-३२। सा रैभ्यनुदेय्यासीत्। दीयमानवधूविनोदनायानुदीयमाना वयस्यासीत्। तथा नाराशंसी। प्राता रत्नम् । ऋ. १-१२५-१। इत्यादिका मनुष्याणां स्तुतयो नाराशंस्यः। सा नाराशंसी न्योचनी। उचतिः सेवकर्मा। सा वधूशुश्रूषार्थं दीयमान दास्यभवत्। सूर्याय मम भद्रं वासो विचित्रं दुकूलादिकमाच्छादनयोग्यं वस्त्रं गाथया परिष्कृतमलङ्कृतमेति। गाथा गीयत इत्यादिब्राह्मणोक्ता गाथा। तया गाथया यत्परिष्कृतमस्ति तद्वासोऽभवदिति॥६॥