यदया᳚तं शुभस्पती वरे॒यं सू॒र्यामुप᳚ ।
क्वैकं᳚ च॒क्रं वा᳚मासी॒त्क्व᳚ दे॒ष्ट्राय᳚ तस्थथुः ॥
क्वैकं᳚ च॒क्रं वा᳚मासी॒त्क्व᳚ दे॒ष्ट्राय᳚ तस्थथुः ॥
पदपाठः (Word-by-word)
यत् । अया᳚तम् । शु॒भः॒ । प॒ती॒ इति᳚ । व॒रे॒॑यम् । सू॒र्याम् । उप᳚ ।
क्व᳚ । एक᳚म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व᳚ । दे॒ष्ट्राय᳚ । त॒स्थ॒थुः॒ ॥
क्व᳚ । एक᳚म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व᳚ । दे॒ष्ट्राय᳚ । त॒स्थ॒थुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे शुभस्पती उदकस्य स्वामिनौ यद्यावयातं आगच्छतम्। कं प्रति। वरेयं वरनीयायाः सूर्यायाः सम्बन्धिनं वरैर्याचितव्यं वा। सवितारमित्यर्थः। किमर्थम् । सूर्यामुप गन्तुम्। वां भवतोः सम्प्रति दृश्यमानमिदमेकं चक्रं क्वासीत्पुरा। क्व वां युवां देष्ट्राय दानाय प्रवृत्तौ तस्थथुरित्यश्विनोर्निवासं पृच्छति॥१५॥