श्रवणम्

10.85.43
आ नः᳚ प्र॒जां ज᳚नयतु प्र॒जाप᳚तिराजर॒साय॒ सम᳚नक्त्वर्य॒मा ।
अदु᳚र्मङ्गलीः पतिलो॒कमा वि᳚श॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । प्र॒॑जाम् । ज॒न॒य॒तु॒ । प्र॒जा॑प᳚तिः । आ॒॑ज॒र॒साय᳚ । सम् । अ॒न॒क्तु॒ । अ॒र्य॒मा ।
अदुः᳚॑मङ्गलीः । प॒ति॒॑लो॒कम् । आ । वि॒श॒ । शम् । नः॒ । भ॒व॒ । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृहप्रवेश आ नः प्रजां जनयत्वित्यद्याश्चतस्रो होमार्थाः। सूत्रितं च। आ नः प्रजां जनयतु प्रजापतिरिति चतसृभिः प्रत्यृचं हुत्वा। आ. गृ. १-८-९। इति॥

प्रजापतिर्देवो नोऽस्माकं प्रजामा जनयतु। अर्यमा चाजरसाय जरापर्यन्तं जीवानाय समनक्तु। सङ्गमयतु। सा। त्वमदुर्मङ्गलीर्दुमङ्गल रहिता सुमङ्गली। यद्वा। या मङ्गलाचारान्दूषयति सा दुर्मङ्गली। ततोऽन्यादुर्मङ्गली। तादृशी सति पतिलोकं पतिसमीपमा विश। प्राप्नुहि। नोऽस्माकं द्विपदे शं भव। तथा च शं चतुष्पदे भव॥४३॥