श्रवणम्

10.85.14
यद᳚श्विना पृ॒च्छमा᳚ना॒वया᳚तं त्रिच॒क्रेण᳚ वह॒तुं सू॒र्याया᳚ः ।
विश्वे᳚ दे॒वा अनु॒ तद्वा᳚मजानन्पु॒त्रः पि॒तरा᳚ववृणीत पू॒षा ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा᳚नौ । अया᳚तम् । त्रि॒॑च॒क्रेण᳚ । व॒ह॒तुम् । सू॒र्यायाः᳚ ।
विश्वे᳚ । दे॒वाः । अनु᳚ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तरौ᳚ । अ॒वृ॒णी॒त॒ । पू॒षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्विनौ यद्यदा पृच्छमानौ सवितारं प्रष्टुमयातम् आगच्छतम्। केन साधनेनायातं तदुच्यते। त्रिचक्रेण चक्रत्र ययुक्तेन रथेन। किं पृच्छमानौ। सूर्याय वहतुम्। विवाहमित्यर्थः। तत्तदानीं वां युवां सवितारं प्रति गच्छन्तौ विश्वे सर्वे देवा अन्वजानन्। अनुज्ञातवन्तः। तथा पितरौ पुत्रोऽश्विनोः पुत्रः पूषावृणीत। वृतवान्॥१४॥